कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ।। २१ ।।

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।

पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ।। २१ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– उक्तविकाराणां प्रकृतिसम्भूतत्वं व्यक्ती-क्रियते– कार्यकारणेति ।। कार्यं शरीरम् कारणानि इन्द्रियाणि, तेषां कर्तृत्वे परिणामित्वे प्रकृतिः हेतुः कारणम् उच्यते । पुरुषो जीवः सुखदुःखानां भोक्तृत्वे, प्रकृत्यर्थो भोगः स्वीयतया साक्षात्कार इत्येवं विवक्षितोऽनुभवः, तृच्प्रत्ययार्थश्च कर्तृत्वं तस्मिन् अनुभवितृत्वे हेतुः कर्ता उच्यते । भोक्तृत्वे भोगप्रदाने पुरुषो भगवान्हेतुरुच्यते इत्यपि व्याख्यानम् । अत्र विशेष-श्चोत्तरप्रस्थानादवसेयः ।। २१ ।।