अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथाऽपि त्वं महाबाहो नैवं शोचितुमर्हसि।। २६ ।।
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथाऽपि त्वं महाबाहो नैवं शोचितुमर्हसि।। २६ ।।
भाष्यम्
अस्त्वेवमात्मनो नित्यत्वम् । तथाऽपि देहसंयोगवियोगात्मकजनिमृती स्त एवेत्यत आह– अथ चेति ।। २६ ।।
भावप्रदीपिका
नन्वेवं सर्वप्रकारेण नित्यस्यापि जीवस्य देहसंयोगवियोगाख्यनाशाच्छोक इत्यादौ जीव-परिहारत्वेनोत्तरश्लोकत्रयं क्रमेणावतारयति– अस्त्वेवमिति ।। २६ ।।
भावप्रकाशिका
ननूक्तप्रकारेणात्मनित्यत्वेऽपि देहवियोगात्मकमरणाच्छोको देहाभिमानिनां स्यादित्या-शङ्क्य तदुत्तरत्वेनोत्तरश्लोकत्रयं क्रमेणावतारयति– अस्त्वेवमिति ।। २६ ।।
प्रमेयदीपिका
ननु सर्वशङ्कोद्धारेणात्मनित्यत्वं प्रतिपाद्य ‘तस्मादेवम्’ इत्युपसंहृतम् । तत्किम् ‘अथ च’ इति पुनरुच्यते? इत्यतोऽङ्गीकृत्याऽत्मनित्यत्वं प्रकारान्तरेण शोकशङ्केयम् इत्याशयवानाह– अस्त्वेवमिति ।। ‘युद्धे च मृतिर्नियता । जनिमृतिनिमित्तं च दुःखं मदीयानां भविष्यतीति मे शोकः’ इति शङ्काशेषः । अनेन पूर्वार्धोऽपि व्याख्यातः । अत एव देहसंयोगवियोगात्मक-जनिमृती इत्युक्तम् । अन्यथा देहसंयोगवियोगावित्येव वा जनिमृती इत्येव वा ब्रूयात् । ‘स्त एव’ इत्यनेन नित्यशब्दोऽवधारणार्थ इत्युक्तम् ।।
‘अस्त्वेवमात्मनो नित्यत्वम्’ इति वदता ‘आत्मनोऽनित्यत्वमभ्युपगम्येदमुच्यते’ इति मायावादिनोऽपव्याख्यानं निरस्तं भवति । ‘ध्रुवं जन्म मृतस्य’(२.२७) इत्युत्तरवाक्यविरोधात् । ‘अव्यक्तादीनि’ (२.२८) इत्यनेनापि विरोधात् ।। २६ ।।
भावबोधः
मृतिर्नियतेति ।। साधारणमृतिमतां जनिर्नियतेति जनिग्रहणम् ।। २६ ।।
भावदीपः
पूर्वार्ध इति ।। ‘अथ चैनम्’ इति पूर्वार्ध इत्यर्थः ।। अन्यथेति ।। जातमृतपदव्याख्या-परत्वाभाव इत्यर्थः ।। २६ ।।
भावरत्नकोशः
पुनरुच्यत इति ।। ‘नानुशोचितुमर्हसि’ इति समनन्तरश्लोकोक्तस्य ‘नैनं शोचितुमर्हसि’ इति पुनः श्रवणादिति भावः । ‘स्त एव’ इत्यनन्तरं किञ्चातः प्रकृते इति शङ्कापरिहाराय शेषं पूरयति युद्धे च मृतिर्नियतेति । साधारणमृत्यनन्तरं जन्मापि नियतमिति जनिग्रहणम् । अनेन गमनिकाभाष्येण । पूर्वार्धः ‘अथ चैनं नित्यजातम्’ इति पूर्वार्धः । व्याख्याने उपष्टम्भकमाह– अत एवेति ।। जातमृतपदयोर्व्याख्यातव्यत्वादेवेत्यर्थः । तद्व्याख्यापरत्वाभावे बाधकमाह– अन्यथेति ।। श्लोकावतारमात्राभिप्रायत्वे । निरासे युक्तिमाह– ध्रुवमिति ।। ‘ध्रुवं जन्म मृतस्य च’ इत्युत्तरवाक्ये मरणं प्रति यो धर्मी तस्यैव जन्मोक्त्या नित्यत्वावगमेन तद्विरोधादनित्य-त्वाभ्युपगम आत्मनो न युक्त इत्यर्थः । अव्यक्तादीनीत्यनेनापीति ।। अव्यक्तं प्रधानमादि-र्देहोत्पत्तिकारणं येषां तान्यव्यक्तादीनि । अव्यक्ते प्रधाने निधनं देहलयो येषां तान्यव्यक्त-निधनानीत्यत्र देहयोगलक्षणं जन्म तद्वियोगलक्षणं मरणं चोच्यते । आत्मानित्यत्वे च स्वरूपोत्पत्तिविनाशसम्भवेन देहयोगविलक्षणोत्पत्तिमरणकथनविरोधश्च स्यादित्यर्थः ।।
तथा चायं गीताश्लोकाक्षरार्थः– अस्तूक्तरीत्या आत्मनो नित्यत्वम् । तथाऽपि देहयोग-वियोगरूपजन्ममृती तस्य स्त एव । युद्धे च मृतिर्नियता । जनिमृतिनिमित्तं च दुःखं मदीयानां भविष्यतीति मे शोक इति शङ्कित्वा परिह्रियते– अथ चेति ।। शङ्कान्तरद्योतको निपात-समुदायः । ‘नित्यं नियतमेव च’ इति वचनान्नित्यशब्दो नियमशब्दितावधारणार्थः । एनं प्रस्तुतं जीवं देहयोगरूपजनिमन्तमेव नित्यं मृतं देहवियोगरूपमृतिमन्तमेव मन्यसे जानासि चेत्, ‘तथाऽपि हे महाबाहो, त्वं, हन्ताऽहमेतेषां मयेमे हन्यन्त इति एनं जीवम् अनुशोचितुं नार्हसि
।। २६ ।।
भावदीपिका
‘युद्धे च’ इत्यतः पूर्वं नित्यस्याप्यात्मन इति शेषः । ‘मृतिर्नियता’ इत्यत्र साधारण-मृतिमतां च जनिरपि नियतेति ग्राह्यम् ।। (अत एवेति) ।। पूर्वार्धव्याख्यानसूचनार्थमेव पूर्वार्धस्थजनिमृतिशब्दौ देहसंयोगवियोगात्मकेति व्याख्यातावित्यर्थः । एवं व्याख्यानसूचनाभावे इत्थं भगवत्पादैः प्रयोज्यमित्याह– अन्यथेति ।। अवधारणार्थो नियमार्थः । ‘नित्यं सनातनं प्रोक्तं नित्यं नियतमेव च’ इति शब्दनिर्णये । अत्र तु नियतमिति तात्पर्योक्तेरिति ध्येयम् ।। इदमुच्यत इति ।। ‘अथ चैनम्’ इत्यनेन शोकपरिहार उच्यत इत्यर्थः । ‘जातस्य हि ध्रुवः’ इत्यादिप्रकाशनादिति तात्पर्यं मनसि निधायाऽह– ध्रुवं जन्मेति ।। स्वरूपेण स्थित-स्यैवाऽत्मनो देहयोगवियोगकथनेन तन्नित्यत्वावगमेनानित्यत्वस्वीकारे तद्विरोधः स्यादित्यर्थः ।। अव्यक्तादीनीत्यनेनापीति ।। अत्र नित्यस्यैवाऽत्मनो जननमरणस्वरूपनिरूपणेन तन्नित्यत्वा-दित्यर्थः ।। २६ ।।
भावप्रकाशः
जनिमृतीति ।। साधारणमृत्यनन्तरं जनिर्नियतेति तद्ग्रहणम् । उत्तरवाक्यविरोधादिति ।। तत्र मरणं प्रति यो धर्मी तस्यैव जन्मोक्त्या नित्यत्वावगमादिति भावः । अव्यक्ता-दीनीत्यनेनापीति ।। अव्यक्तादीनीत्यत्र श्लोके भूतानां देहयोगलक्षणं जन्मोत्क्वादेहवियोगलक्षणं मरणमुक्तम् । आत्मानित्यत्वे च स्वरूपोत्पत्तिविनाशसम्भवाद्देहयोगवियोगकथनविरोधः स्यादित्यर्थः ।। २६ ।।