ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ।। १८ ।।
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ।। १८ ।।
भाष्यम्
एवं तर्हि न पुरुषमपेक्ष्य विधिः, अकर्तृत्वादित्यत आह– ज्ञानमिति ।। त्रिविधा कर्मचोदना एतत् त्रिविधमपेक्ष्य कर्मविधिरिति त्रिविधा इत्युच्यते ।।
भावप्रदीपिका
ननु जीवस्याकर्तृत्वे घटादिवन्न विधिस्तं प्रतीत्येतत्परि-हाराय श्लोकार्धमवतार्य व्याचष्टे– एवं तर्हीति । ज्ञानादित्रयस्य जीवे विद्यमानत्वेन घटादिविलक्षणत्वात् तं प्रति विधिरित्यर्थः ।
प्रमेयदीपिका
यदि न जीवस्य कारणत्वं कथं तर्हि तज्ज्ञानादेरुत्तर-वाक्ये कर्मणां मूलकारणत्वमुच्यते ? ‘ज्ञानादित्रयं कर्मणां प्रवर्तकमिति इत्याशङ्क्य तस्यार्थान्तरं विवक्षुस्तन्निवर्त्यामाशङ्कामाह– एवं तर्हीति ।। यदि जीवो न कर्मणां कारणमित्यर्थः । विधिः श्रौतः स्मार्तश्च । न प्रवर्तेत । ततश्च ‘तद्वैयर्थ्यप्रसङ्गः’ इति शेषः । एवं तर्हि इत्युक्तस्यैव विवरणम्– अकर्तृत्वादिति ।। ‘जीवस्य घटवत्’ इति शेषः ।।
ननु ज्ञानादिरूपेण कर्मचोदनायाः त्रैविध्यमयुक्तमनुपयुक्तं च कथमुच्यते? । नियोक्तुः प्रेरणं हि विधिः । नच तज्ज्ञानादित्रयरूपम् । न चानेनोक्तशङ्कानिवृत्तिरित्यत आह– त्रिविधेति ।। स्पष्टप्रतीत्यर्थोऽनुवादः । ‘इत्यत्र’ इति शेषः । एतत् ज्ञानादिकम् । कर्मविधिः ‘प्रवर्तते जीवं प्रति’ इति शेषः । इतिशब्दो हेतौ । त्रिविधा इत्युच्यते कर्मचोदना । निमित्तनैमित्तिकभावेनाभेदोपचार इत्यर्थः ।।
भावबोधः
।। घटवदिति शेष इति ।। अनेन जीवः न विधिविषयः, अकर्तृत्वात् घटवदित्यनुमानम् । अकर्तृत्वादिति हेतुवचनेनोक्तं भवतीति भावः । अयुक्तत्व-मुपपादयति– नियोक्तुरिति ।। अनुपयुक्तत्वमुपपादयति– न चेति ।। नन्वेवं ज्ञानादीनां कर्मविधिनिमित्तानामेव त्रैविध्यात् त्रिविधा कर्मचोदनेति कथमुक्तमित्यत आह– निमित्तेति ।।
भावदीपः
उच्यत इत्युक्तम् । तत्कथम् इत्यतो ‘ज्ञानं ज्ञेयम्’ इत्यत्र तात्पर्यमाह– ज्ञानादित्रयमिति ।। ‘प्रवर्तते’ इति शेषोक्तिः । तेन अपेक्ष्य इति ल्यबन्त-प्रयोगोपत्तेरिति भावः।। तद्वैयर्थ्येति ।। विधिवैयर्थ्यर्थं (वैयर्थ्ये) जडेश्वरयोः विध्यविषयत्वाज्जीवं प्रत्यप्यविधाने वैयर्थ्यमेवेति भावः ।। कस्य इत्यतो ‘जीवस्य’ इति शेषोक्तिः ।। जीवो न विधिविषयः कर्तृत्वाद् घटवदिति प्रयोग इति भावः । अयुक्तत्वानुपयुक्तत्वे क्रमाद्व्यनक्ति नियोक्तुरित्यादिना ।। एतत् इत्यनुवादः, ज्ञानादिकम् इति व्याख्या । प्रवर्तते इति शेषोक्तेः प्राग्वदेव कृत्यम् ।। अयुक्त इति शङ्कायाः किमुत्तरमुक्तम् इत्यत आह – निमित्तेति ।। जीवस्याकर्तृत्वाद् घटादेरिव विधिविषयतेत्यनुपयुक्तत्वशङ्कानिरासस्तु अकर्तृत्वेपि इत्यादि भाष्ये भविष्यतीति भावः ।।
भावरत्नकोशः
‘तज्ज्ञानादेः जीवज्ञानादेः’ इत्यत्र आदिपदेन ज्ञेयपरिज्ञातृ-ग्रहणम् । कर्मणां कर्माणि प्रति । तत्कथम् इत्यतः ‘त्रिविधा कर्मचोदना’ इत्यस्य तात्पर्य-माह– ज्ञानादित्रयमिति ।। तस्य ईश्वरवाक्यस्य । पुरुषमपेक्ष्य जीवमधिकृत्येति भाष्यार्थः स्फुट इति भावेन विधिं विवृण्वन् तत्र शेषमाह– विधिरित्यादिना ।। न ‘प्रवर्तेत’ इत्यत्रेष्टा-पत्तिमाशङ्क्योक्तम् – ततश्चेति ।। जडेश्वरमुक्तानाम् अतदधिकारित्वाद् जीवान् प्रत्यपि अप्रवृत्तौ विधिर्व्यर्थ एव स्यादित्यर्थः । अयुक्तत्वमुपपादयति– नियोक्तुः प्रेरणं हीति ।। तत् प्रेरणम् । अनुपयुक्तत्वमुपपादयति– न चानेनेति ।। उक्तशङ्का ‘एवं तर्हि’ इति भाष्योक्तशङ्का ‘एतद्’ इत्यनुवादः ‘ज्ञानादिकम् ’इति व्याख्या । ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ इत्यभि-धानादाह– इतिशब्द इति ।। ‘उच्यते’ इत्याख्यातोपात्तकर्म – कर्मचोदनेति ।। ननु कर्मविधिनिमित्तानां ज्ञानज्ञेयपरिज्ञातॄणां त्रैविध्यमेवानेन ज्ञायते, न कर्मचोदानायाः । तत्कथं ‘कर्मचोदना त्रिविधा’ इत्युक्तिः इत्यत आह– निमित्तनैमित्तिकभावेनेति ।।
भावदीपिका
।। तज्ज्ञानादेरिति ।। जीवज्ञानादेरित्यर्थः । आदिपदेन ज्ञेयपरिज्ञात्रोः सङ्ग्रहः । कर्मणामिति ।। कर्मणि षष्ठी, कर्माणि प्रतीत्यर्थः । ‘कर्मचोदना’ इत्यनेन कथमेतल्लभ्यते इत्यतस्तदर्थमाह– ज्ञानादित्रयमिति ।। ‘कर्मणां प्रवर्तकम्’ इति कर्मचोदनाशब्दार्थानुवादः । घटवदिति ।। तथा च ‘जीवो न विधिविषयः अकर्तृत्वात् घटवत्’ इत्यनुमानम् ‘अकर्तृत्वात्’ इति हेतुवचनेनोक्तं भवतीति भावः । अयुक्तत्व-मुपपादयति– नियोक्तुरिति ।। पुरुषस्येत्यर्थः । प्रेरणम् अन्यान् प्रति । विधिः कर्मचोद-नापदवाच्यः । अनुपयुक्तत्वमुपपादयति – न चेति ।। नापीत्यर्थः । उक्तशङ्केति ।। ‘एवं तर्हि ‘इत्युक्तशङ्केत्यर्थः । ननु ‘ज्ञानमिति’ इत्येवं प्रतीकस्य गृहीतत्वाद् ‘एतत् त्रिविधम्’ इत्यादिव्याख्यान एव कर्तव्ये, ‘त्रिविधा कर्मचोदना’ इत्यनुवादः किमर्थ इत्यत आह– स्पष्टा ।। ‘व्याख्येयपदानाम्’ इति शेषः । नन्वेवं ज्ञानादीनां कर्मविधिनिमित्तानामेव त्रैविध्यात् ‘त्रिविधा कर्मचोदना’ इत्ययुक्तम् इत्यत आह– निमित्तेति ।। ‘लाङ्गलेन वयं जीवामः’ इत्यत्रेवेति भावः ।
भावप्रकाशः
ननु विधिः प्रेरणम् । तथा च जीवो न विधिविषयः । अकर्तृत्वाद्घटवदित्येतदन्यथा सिद्धम् । अकर्तृत्वेऽपि तदज्ञानेन गामानयेत्यादिविधिसम्भवादित्यत आह– श्रौतः स्मार्तश्चेति ।। तथा च श्रुतिस्मृतिभिः प्रेरकस्येश्वरादेरज्ञानाभावान्नान्यथा-सिद्धिरिति भावः । अयुक्तत्वमुपपादयति– नियोक्तुरिति ।। अनुपयुक्त्वमुपपादयति– न चेति ।। ननु कर्मविधिनिमित्तानां त्रैविध्येऽपि कर्मचोदनायास्त्रैविध्योक्तिः । कथमित्यत आह– निमित्तेति ।।