एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ।। ९ ।।

सञ्जय उवाच–

एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः ।

दर्शयामास पार्थाय परमं रूपमैश्वरम् ।। ९ ।।

भाष्यम्

हरिः सर्वयज्ञादिभागहारित्वात् । ‘इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम् । वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरिति स्मृतः’इति मोक्षधर्मे ।। ९ ।।

प्रमेयदीपिका

‘महायोगेश्वरो हरिः’ इत्यत्र हरिशब्दस्य प्रकृतोपयुक्त-मर्थमाह– हरिरिति ।। गेहेषु इष्टि गेहेषु । हरतेरिकारप्रत्ययः । श्रेष्ठः अप्राकृतः । अप्राकृतविग्रहस्य साकार स्यैवानन्तपूजास्थानेषु स्वरूपेणैव युगपत् सन्निधाने किं वक्तव्यं महायोगेश्वरत्वमिति ।। ९ ।।

भावबोधः

।। प्रकृतोपयुक्तमिति ।। प्रकृतमहायोगेश्वरत्वोपपादकमित्यर्थः । इकारप्रत्यय इति ।। ततो लघूपधगुणः , तस्य रपरत्वे च हरिरिति रूपमित्यर्थः । प्रकृतोप-योगं दर्शयति– अप्राकृतविग्रहस्येत्यादिना ।। ९ ।।

भावदीपः

।। प्रकृतोपयुक्तमिति ।। महायोगेश्वरत्वोपपादकत्वमित्यर्थ इति भावः ।। हरतेरिति ।। ‘हृञ् हरणे’ इत्यतः ‘सार्वधातुकार्धधातुकयोः’ इति गुणे रपरत्वे च हरिरिति रूपमिति भावः ।। ९ ।।

वाक्यार्थप्रदीपः

।। हरतेरिकार इति ।। हरतेरिकारप्रत्यये गुणरपरत्वयोः सतोेः हरिरिति रूपसिद्धिरित्यर्थः ।।

भावरत्नकोशः

।। प्रकृतोपयुक्तं महायोगेश्वरत्वोपयुक्तम् । गेहशब्दमनुवदन् प्रकृतोपयुक्तमर्थं तस्याह– गेहेष्विति ।। प्रमाणे इडाशब्दो हविराधानानुकूलयज्ञपात्रवचनः, तत्र प्रतिपादितम् इडोपहुतं हरे हरामि, हरितः श्याम इति शिष्टपदार्थः । यज्ञेषु दीयमान-हविर्भागहरणकर्तृत्वं हरिशब्दार्थ इत्येतद् व्युत्पादयति– हरतेरिति ।। ‘हृ, पिषि, रुहि, वृति, विदि, छिदि, कीर्तिभ्यश्च’ इत्युणादिसूत्रेण ‘हृञ् हरणे’ इति धातोः कर्तरि इन्प्रत्यय इत्यर्थः । स्वरार्थनकारानुबन्धानुक्तिरत्र स्वरस्याविवक्षितत्वात् । ततः सार्वधातुकलक्षणे गुणे, रपरे च ‘हरिः’ इति रूपम् इति भावः । अप्राकृत एव हि श्रेष्ठो भवतीति भावेनोक्तम्– श्रेष्ठोऽप्राकृत इति ।। ‘प्रकृतोपयुक्तम्’ इत्युक्तं दर्शयति– अप्राकृतविग्रहस्येति ।। वर्णपदतात्पर्यम्– साकारस्यैवेति ।। ‘गेहेषु’ इत्यस्य तात्पर्यम्– पूजास्थानेष्विति ।। ९ ।।

गीताक्षरार्थस्तु अनन्तरवृत्तान्तं धृतराष्ट्रं प्रति सञ्जय आहेत्युच्यते सञ्जय उवाच ‘एवमुक्त्वा’ इत्यादिभिः षड्भिः श्लोकैः । एवं ‘पश्य मे पार्थ रूपाणि’ इत्यादिनोक्तप्रकारेण । महान् योगः येषां ते महायोगाः ब्रह्माद्याः, तेषामपीश्वरः । तदिदमुपपादयितुमुक्तम्– हरिरिति ।। यज्ञे दीयमानहविर्भागहरणकर्तृत्वाद् हरिः । हरतेरिकारप्रत्ययः । अप्राकृतहरितवर्णशालित्वाच्च ‘हरिः’ इत्युच्यते । अप्राकृतविग्रहस्य साकारस्यैवानन्तपूजास्थानेषु स्वरूपेणैव युगपत्सन्निधाने किं वक्तव्यम् ‘महायोगेश्वरत्वम्’ इति विभावितं भवति । ऐश्वरम् ईश्वरस्य विद्यमानम् अनन्यसाधारणं रूपं दर्शयामास ।। ९ ।।

भावदीपिका

।। प्रकृतोपयुक्तमिति ।। प्रकृतमहायोगेश्वरत्वोपपादक-मित्यर्थः । इष्टीति ।। ‘इडोपहुतम्’ इति जीर्णपुस्तकपाठः । ‘इडोपहूतम्’ इति पाठे तु गेहेषु इष्टिगृहेषु क्रतुषु इडोपहूतम् ‘इड’ इति मन्त्रविशेषाणां संज्ञा । तेषु उपहूतम् प्रतिपाद्यं भागम् । यद्वा ‘इडा पितुः भक्तम् इत्यन्ननामानि’ इति वैदिकनिघण्टुबलाद् अन्नसंज्ञकं भागम् । अथवा इडः यज्ञः, तत्रोपहूतं दत्तमिति यावत् । भागं हरे यस्मात् तस्माद् हरिरित्यर्थः । हरतेरिति ।। ‘हृञ् हरणे’ अस्माद् इप्रत्यये, गुणे, ‘हरिः’ इति रूपम् । कथमयमर्थः प्रकृतमहायोगेश्वर-त्वोपपादक इत्यत आह– अप्राकृतेति ।। ९ ।।

भावप्रकाशः

।। प्रकृतोपयुक्तमिति ।। वक्ष्यमाणार्थस्य महायोगेश्वरत्वोप-पादकत्वादिति भावः । भाष्ये इडोपहूतमिति ।। इडाः पक्वान्ननिर्वर्त्याः देवपितृमनुष्यभूत-यज्ञाश्चत्वार पाकयज्ञाः तासूपहूतं दत्तमित्यर्थः । इडा यज्ञपात्रं तत्स्थमिति वा क्रतुशब्दो ज्योतिष्टोमादिवाची । हरितशब्दः श्यामार्थ इति बोध्यम् । इकारप्रत्यय इति ।। अच इदित्युणादिसूत्रेणेति शेषः । ततः सार्वधातुकार्धधातुकयोरिति गुणे रपरत्वं चेति बोध्यम् । प्रकृतोपयोगं दर्शयति– अप्राकृतेति ।। ९ ।।