कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ।। ४३ ।।
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ।। ४३ ।।
भाष्यम्
भोगैश्वर्यगतिं प्रति तत्प्राप्तिं प्रति । तत्प्राप्तिफला एव वेदा इति वदन्तीत्यर्थः
।। ४३ ।।
भावप्रदीपिका
‘भोगैश्वर्यगतिम्’ इत्यत्रावगतिशङ्का मा भूदित्याह– भोगेति ।। कथमयं दोषः इत्यत आह– तत्प्राप्तीति ।।
भावप्रकाशिका
भोगैश्वर्यावगतिरित्यपि प्रतीतिः स्यात्, सा मा भूदित्याह– तत्प्राप्तिमिति ।। ननु वेदोक्तानुष्ठानात् भोगैश्वर्यस्यापि सम्भवात्, कोऽयमेवंवादिनां दोषः? इत्याशङ्क्य, ते तु तदेकार्थत्वं वदन्ति, अतो दोषिण इति भावेनाह– तत्प्राप्तिफला इति ।।
प्रमेयदीपिका
गतिशब्दस्यावगतिरप्यर्थः प्रतीयते । अत आह– भोगेति ।। अन्यथाऽसदनुवादप्रसङ्गादिति भावः । एषाऽपि कथं निन्दा? इत्यत आह– तत्प्राप्तीति ।। मोक्षं वेदफलं न मन्यन्त इत्यर्थः ।।
भावबोधः
अनुवाद इति ।। न स्वर्गादेः फलान्तरमिति वदद्भिः वेदवाचो भोगैश्वर्यावगतिसाधन-त्वानुक्तेरिति यावत् । यदा ‘भोगेश्वर्यप्रसक्तानाम्’ इत्यनुवादस्यानुक्तवादत्वं स्यादित्यर्थः ।।
भावदीपः
अन्यथेति ।। ज्ञानार्थत्व इत्यर्थः । तैस्तथाऽनुक्तेरिति भावः ।। ४३ ।।
भावरत्नकोशः
प्रातीतिकावगत्यर्थत्वे दोषमाह– अन्यथेति ।। ‘कामात्मानः स्वर्गपराः’ इति भोगाकुल-चित्तत्वस्य स्वर्गे परमपुरुषार्थत्वाभिमानस्य च प्रतीत्या तन्मात्रस्यैव तैरुक्त्या भोगैश्वर्यावगति-साधनत्वस्यावादेन तदुक्तौ असदनुवादत्वापातादित्यर्थः । ‘भोगैश्वर्यप्रसक्तानाम्’ इति तत्प्राप्ति-रेवोच्यत इत्यनुवादेनात्रावगत्यर्थत्वोक्तावसदनुवादत्वप्रसङ्गादिति वाऽर्थः । निन्दात्वस्फोरणाय भाष्यावधारणतात्पर्यमाह– मोक्षं वेदफलमिति ।।
भावदीपिका
।। अन्यथेति ।। अन्यथा गतिशब्दस्यावगत्यर्थकत्वे । कर्मणो भोगैश्वर्यरूपस्वर्गसाधन-त्वस्यैव न स्वर्गादेः फलान्तरमितिवदद्भिरङ्गीकृतत्वेन भोगैश्वर्यज्ञानसाधनत्वानङ्गीकाराद-सदनुवादत्वं स्यादितिभावः । केचित्तु, कर्मणो भोगैश्वैर्यावगतिसाधनत्वमित्यर्थाङ्गीकारे उत्तरत्र भोगैश्वर्यप्रसक्तानाम् इत्यस्यासदनुवादत्वप्रसङ्ग इत्यर्थ इत्याहुः ।। एषाऽपीति ।। भोगैश्वर्यगतिं प्रतीत्युक्तिरपीत्यर्थः । अवधारणोक्त्या निन्दा गम्यत इत्यभिप्रायेणोक्तम् । भाष्ये ‘तत्प्राप्तिफला एव वेदा इति वदन्ति’ इति । तत्रैवकारार्थमाह– मोक्षमिति ।। ४३ ।।
भावप्रकाशः
अन्यथेति ।। प्राप्त्यर्थत्वाभाव इत्यर्थः । असदनुवादेति ।। भोगैश्वर्यप्रसक्तानामित्यनेनेति शेषः ।। ४३ ।।