यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।। ४६ ।।

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।

तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।। ४६ ।।

भाष्यम्

तथाऽपि काम्यकर्मिणां फलं ज्ञानिनां न भवतीति साम्यमेवेत्यत आह– यावानर्थ इति ।। यावानर्थः प्रयोजनम् उदपाने कूपे भवति तावान् सर्वतः संप्लुतोदके अन्तर्भवत्येवैवं सर्वेषु वेदेषु यत् फलं तद् विजानतोऽपि ज्ञानिनो ब्राह्मणस्य फलेऽन्तर्भवति ।।

भावप्रदीपिका

ननु कामात्मनां समाध्यभावेन मोक्षाभावेऽपि न कर्मपरित्यागेन ज्ञानसेवनं वरम् । ज्ञानि-नामपि कर्मफलाभावेन मार्गद्वयस्य साम्यादित्याशङ्क्य, उत्तरत्वेनोत्तरश्लोकमवतार्य व्याचष्टे– तथापीति ।। सर्वेषु वेदेषु इति तदुक्तकाम्यकर्मसु ।।

भावप्रकाशिका

ननु यद्यपि त्रिगुणसम्बन्धिस्वर्गादौ भ्रमतां काम्यकर्मिणां ज्ञानाभावेन तत्फलस्य मुक्तेर-भावात्, न कामना कार्येत्युच्यते । तथाऽपि काम्यकर्मिणां फलं ज्ञानिनां न भवतीति साम्य-मेवेत्याशङ्कापरिहारत्वेनोत्तरश्लोकमवतारयति– तथाऽपीति ।। सर्वेषु वेदेष्विति । सर्ववेदोक्त-काम्यकर्मस्वित्यर्थः ।।

प्रमेयदीपिका

योगोपदेशप्रसङ्गे ज्ञानफलकथनस्य क उपयोगः? इत्यत आह– तथापीति ।। ‘यामिमाम्’ (२.४३) इत्यत्र काम्यकर्मिणां निन्दा कृता । ‘निस्त्रैगुण्यो भव’(२.४५) इति च तत्त्यागो विहितः । तत्र प्रष्टव्यं किन्निमित्तमेतदिति? ननूक्तं काम्यकर्मिणां समाध्यभावेन ज्ञाना-भावान्मोक्षो न भवतीति । अत्रेदमुच्यते । यद्यपि ज्ञानफलं काम्यकर्मिणां न भवति । तथाऽपि तन्निन्दादिकं नोपपद्यते । कुतः(यतः) काम्यकर्मिणां फलं स्वर्गादिकं ज्ञानिनां न भवतीति ज्ञानकर्ममार्गयोः साम्यमेवेति योगानुष्ठाननियमाक्षेपेे सत्याहेत्यर्थः ।।

केचिदस्य श्लोकस्य कर्ममात्रत्यागे तात्पर्यमाहुः । अपरे तु यत्कर्मसमुच्चित्तं ज्ञानं मोक्षसाधनं तत्कर्मपर एव वेदभागोऽधिगन्तव्यः । न तु समस्तवेदाभ्यासेनायुः समापनीयमिति । अत्र तन्निरासाय व्याचष्टे– यथेति ।। सामर्थ्यात् यथैवंशब्दयोरध्याहारः । ‘यावान्’ ‘तावान्’ इत्येतयोरावृत्तिश्च ।। सर्वेषु वेदेष्विति ।। तदुक्तकाम्यकर्मिणामित्यर्थः ।।

भावबोधः

आवृत्तिश्चेति ।। पूर्वार्धे तावनिति, उत्तरार्धे यावानिति ग्राह्यमित्यर्थः । अत एव गीतायाम् एकैकत्रैकैकमुक्तमिति भावः ।।

भावदीपः

किं निमित्तमेतदिति ।। निन्दाकरणं त्यागविधानं चेत्येतदुभयमित्यर्थः ।। इत्यत्रेति ।। ‘तात्पर्यमाहुः’ इत्यनुषङ्गः । सामर्थ्यादिति ।। अन्वययोग्यताबलादित्यर्थः । अन्यथा अनन्वया-पत्तेरित्यर्थः ।।

भावरत्नकोशः

विजानत इति श्रवणादाह– ज्ञानेति ।। एतत् काम्यकर्मनिन्दनम्, काम्यत्यागविधानं च । उक्तम् – ‘समाधौ न विधीयते’ इत्येतद्भाष्ये । तन्निष्कृष्य दर्शयति– काम्यकर्मिणामिति ।। तथाऽपीत्येतत् सत्प्रतियोगिकमिति तदाह– यद्यपीति ।। ज्ञानफलं मोक्षः । निन्दादीत्यादिपदेन काम्यत्यागविधानं ग्राह्यम् । तथाऽपीत्यनन्तरं साध्यमध्याहृत्य तत्र हेतुसमर्पकं भाष्यं साध्याहारं योजयति– यत इति ।। आक्षेपे न नियमेन योगोऽनुष्ठातव्यः सर्वफलानापादकत्वादित्याक्षेप इत्यर्थः । अध्याहाराभावे पूर्वार्धपादद्वयार्थस्य मिथो विप्रतिषेधः, उत्तरार्धस्य प्रकृतार्थासङ्गतिश्च स्यात् । न हि कूपादेः सर्वतः सम्प्लुतोदकत्वम् । न वा तटाकादौ भवत्स्नानपानादिव्यवहारो वेदेषु भवतीत्यतोऽध्याहारेण वाक्यार्थो वर्णनीय इति भावः । आवृत्तिश्चेति ।। अत एव भाष्ये ‘फलम्’ इति फलशब्दश्चार्थशब्दार्थप्रयोजनार्थः । तावच्छब्दश्च यावच्छब्दाध्याहारसापेक्षः । यावान् सर्वेषु वेदेष्वर्थः तावान् ज्ञानिनो भवतीति गीताक्षरार्थो योजनीय इति नोक्तदोष इति भावः । सर्वेषु वेदेषु ज्ञानिनो यत् फलं तत् फलं ज्ञानिनः फलेऽन्तर्भवतीत्युक्तिरयुक्तेत्यत आह– तदुक्तकाम्यकर्मिणामिति ।।

भावदीपिका

।। यत्कर्मेति ।। यावत्कर्मेर्थः । ननु गीतायां यथैवंशब्दयोरभावात् कथं यथा यावान्, एवं सर्वेषु इति भाष्ये कथं च पूर्वार्धे द्वितीयपादे तावानिति उत्तरत्र यावानिति भाष्यत इत्यत आह– सामथ्य•दिति ।। अर्थाबाधरूपयोग्यताप्राप्तेरित्यर्थः ।। आवृत्तिश्चेति ।। पूर्वार्धे द्वितीयपादे तावानिति उत्तरार्धे आद्यपादे च यावानिति ग्राह्यम् । अध्याहारावृत्त्योरभावेऽसङ्गतिः स्यादिति भावः ।।

भावप्रकाशः

सामर्थ्यादिति ।। अर्थाबाधरूपसामर्थ्यादित्यर्थः ।।

Load More