मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ।। ९ ।।

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।

कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ।। ९ ।।

भावरत्नकोशः

कथम्भूता भजन्ते मच्चित्ताः मय्यर्पितमानसाः । मद्गतप्राणाः मद्विषयप्राणादिचेष्टाः । बोधयन्तः मत्प्रभावं शिष्यान् अवगमयन्तः । कथयन्तः कीर्तयन्तः । ‘नित्यम्’ इति सर्वत्र सम्बध्यते । तुष्यन्ति विषयेष्वलम्बुद्धिमन्तो भवन्ति च इति । तत्र हेतुः  रमन्ति रमयन्ते भगवदनुग्रहप्राप्तं स्वरूपसुखमनुभवन्ति च इति ।। ९ ।।