यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ।। १९ ।।
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ।। १९ ।।
भाष्यम्
एतदेव प्रपञ्चयति यस्य इत्यादिना श्लोेकपञ्चकेन । उक्तप्रकारेण ज्ञानाग्निदग्धकर्माणम् ।। १९ ।।
भावप्रदीपिका
ननु कथं स्वातन्त्र्यमात्रं विना कृतं कर्म भवति, रागस्याप्यकर्तव्यत्वात् ? इत्यत आह– एतदेवेति ।। नैतावदेव कर्म । उत्तरश्लोकैरपि रागाद्यभावसहितत्वेन कर्मैवोच्यत इत्यर्थः । किं तज्ज्ञानम् । कथं च तेन दग्धकर्मा भवति ? इत्यत आह– उक्तेति ।। १९ ।।
भावप्रकाशिका
ननु, ‘स्वातन्त्र्यं मन्यमानस्य रागाद्धर्मं च कुर्वतः । तन्निमित्तस्तु दोषः स्यात्’ इत्यादौ स्वातन्त्र्याद्यभिमानिकृतकर्मण इव फलकामादिकृत-कर्मणोऽपि दोषहेतुत्वोक्तेः कथमेतत् कर्मस्वरूपम्?इत्याशङ्क्य, उत्तरश्लोकैरपि कर्मस्वरूपस्यैव विस्तार्यमाणत्वान्न विरोध इति भावेनाह– एतदेवेति । यस्योक्तप्रकारेण भगवतः स्वतन्त्र-सर्वकर्मकर्तृत्वादिज्ञानात्, आत्मनश्च तत्प्रतिबिम्बभूतस्य केवलं तदायत्तचेष्टादिज्ञानात्, सर्वे समारम्भा अहं करिष्यामीति सङ्कल्पवर्जिताः, मत्कर्मणः फलं स्यादिति कामवर्जिताश्च, तं तेनैव ज्ञानेनैव दग्धकर्माणं बुधाः पण्डितं प्राहुरित्यभिप्रेत्याह– उक्तेति ।। १९ ।।
प्रमेयदीपिका
ननु प्रतिज्ञातमुक्तम् । तत् किमुत्तरैः श्लोकैः? इत्यत आह– एतदेवेति ।। कर्मस्वरूपमेव । अनेनात्रापि वाक्यभेदेन कामादिवर्जनं विधाय स्तुतिः क्रियत इति सूचितम् । ‘मिथ्यात्वज्ञानेन कर्मणामुपमर्दो ज्ञानाग्निदग्धकर्मत्वम्’ इति व्याख्यानमसदिति भावेन आह– उक्तेति ।। परमेश्वरस्यैव कर्तृत्वं ज्ञात्वा स्वस्य स्वातन्त्र्येण कर्माभावज्ञानमेव ज्ञानाग्निदग्धकर्मत्वमित्यर्थः ।। १९ ।।
भावबोधः
।। कामादिवर्जनं विधायेति ।। अनेन यच्छब्दपरित्यागेन भवेयुरिति पदाध्याहारेण विधिवाक्यं ज्ञातव्यमित्युक्तं भवति ।। १९ ।।
भावदीपः
।। अत्रापि वाक्यभेदेनेति ।। ‘यस्य’ इत्यस्य त्यागेन ‘सर्वे समारम्भाः कामसङ्कल्पवर्जिताः कार्याः’ इत्येकं वाक्यम्, ‘यस्य सर्वे समारम्भाः कामसङ्कल्प-वर्जिताः तमेवमाहुः’ इत्यपरं वाक्यमिति वाक्यभेदेनेत्यर्थः ।। १९ ।।
भावरत्नकोशः
।। प्रतिज्ञातं कर्मस्वरूपम् । ‘कर्मणि’ इत्यत्र कर्मादिस्वरूपज्ञानं विधाय ‘स बुद्धिमान्’ इति तस्य स्तुतिः कृता । अस्य च तद्विवरणपरत्वे विधिरूपत्वं स्तुतिरूपत्वं चोपलभ्येत । न चैवम् । तस्य ‘तं पण्डितमाहुः’ इत्यनुवादमात्रोपलम्भादित्यत आह–अनेनात्रापीति ।। ‘एतदेव’ इति भाष्येण ‘यस्य सर्वे’ इति श्लोकेऽपि यच्छब्दपरित्यागेन ‘कार्या’ इति पदाध्याहारेण च विधिवाक्यमेकम् । ततो ‘यस्य तम्’ इति वाक्यान्तरम् । तेन च स्तुतिः क्रियत इति ज्ञातव्यमित्येवं वाक्यभेदेनोभयमप्यत्राभिप्रेतमिति सूचितमिति युक्तं तत्प्रपञ्चनरूपत्वमिति भावः । ‘कर्मादावकर्मादिदर्शनं ज्ञानम्’ इति सङ्करभाष्यमर्थतोऽनुवदति– मिथ्यात्वज्ञानेन इति ।। उक्तमेव प्रकारं दर्शयति– परमेश्वरस्यैवेति ।। ‘स्वातन्त्र्येण’ इत्यत्राप्यनुकर्षः । ‘एव’ इति पर-व्याख्यानमयुक्तम्, कर्मणां मिथ्यात्वे ‘कुरु कर्मैव तस्मात्त्वम्’ इत्यादौ तद्विधानानुपपत्तेः । सर्वप्रमाणविरोधाच्चेति भावः । न चैवमस्यैव सङ्कल्पत्यागरूपत्वात् ‘सङ्कल्पवर्जिताः’ इत्यत्रोक्त-मेवेदमपीति पुनरुक्तिरिति वाच्यम् । सङ्कल्पत्यागस्य स्वातन्त्र्येण कर्तृत्वभ्रमाभावरूपत्वात्, स्वातन्त्र्येण कर्माभावज्ञानस्य च तत्र स्वामित्वाभावज्ञानरूपत्वात्, तयोश्च महावैलक्षण्यादिति द्रष्टव्यम् । तथा च प्राचीनटीका । ‘अहं करोमि’ इति भावना सङ्कल्प इति ।। १९ ।।
गीताक्षरार्थस्तु- ‘कर्मण्यकर्म यः पश्येत्’ इत्यत्रोक्तं कर्मस्वरूपमेव प्रपञ्च्यते यस्येत्यादि-श्लोकपञ्चकेन । समारभ्यन्त इति समारम्भाः कर्माणि कामसङ्कल्पवर्जिताः कामः फलेच्छा । ‘अहं करिष्यामि’ इति भावना सङ्कल्पः, ताभ्यां वर्जिताः । ‘कार्याः’ इति शेषः । ततः यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः तं परमेश्वरस्यैव कर्तृत्वं ज्ञात्वा स्वस्य स्वातन्त्र्येण कर्माभावं जानन्तं ज्ञानाग्निदग्धकर्माणम् उक्तलक्षणज्ञानमेवाग्निः, तेन दग्धानि कर्माणि मोक्षविरोधीनि यस्य तम्, अत एव पण्डितम् आहुः तत्त्वज्ञा इति योज्यम् ।। १९ ।।
भावदीपिका
।। प्रतिज्ञातमिति ।। ‘तत्ते कर्म प्रवक्ष्यामि’ इति प्रतिज्ञातं कर्मेत्यर्थः ।। कामादिवर्जनं विधायेति ।। यच्छब्दपरित्यागेन ‘भवेयुः’ इति पदाध्याहारेण विधिवाक्यमेकम् । पश्चाद्यच्छब्दादियोगेन च समग्रस्तुतिवाक्यमपरं द्रष्टव्यमित्यर्थः । उपमर्दः परित्यागः ।। १९ ।।
भावप्रकाशः
।। कामादिवर्जनं विधायेति ।। अनेन यच्छब्दं परित्यज्य भवेयु-रिति चाध्याहृत्य विधिवाक्यं ज्ञातव्यमित्युक्तं भवति । स्वातन्त्रेण कर्मभावज्ञानमेवेति ।। न चास्यैव सङ्कल्पत्यागरूपत्वात् ‘सङ्कल्पवर्जिताः’ इत्यनेन पुनरुक्तिरिति वाच्यम् । सङ्कल्पत्यागस्य स्वातन्त्र्येण कर्तृत्वभ्रमाभावरूपत्वात् । स्वातन्त्र्येण कर्माभावज्ञानस्य तु ‘इदमन्यगृहं मम तु स्वातन्त्र्येण गृहं नास्ति’ इतिवत् तत्तद्वस्तुस्वामित्वाभावज्ञानरूपत्वात्, तयोश्च महावैलक्षण्यादिति
।। १९ ।।