क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ।। ५ ।।

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।

अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ।। ५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– ननु त्वदुपासकानामिव अव्यक्तोपासका-नामपि तत्प्राप्तिरूपमोक्षसद्भावे उभयेषां फलसाम्यात् कथं त्वदुपासकानामुत्तमत्वम् इत्यत उच्यते– क्लेशोऽधिकतर इति ।। अव्यक्ते विष्णुं विनाकृतश्रीतत्वे आसक्तचेतसां क्लेश अधिकतरः अत्यन्ताधिकः । अव्यक्ता अत्राव्यक्तशब्दोऽव्यक्तोपासनं लक्षयति । तेन च तद्वाचकत्वं लक्ष्यते । ‘गम्यते मोक्षोऽनेन’ इति व्युत्पादनाद् उपायः गतिः । अव्यक्तोपासन-द्वारको मत्प्राप्तिलक्षणमोक्षमार्गः । अव्यक्तोपासनानन्तरभाविभगवदुपासनं देहवद्भिः प्राकृतकायैः पुरुषैः दुःखं यथा भवति तथा अवाप्यते । ‘यतः क्लेशोऽधिकतरस्तेषां पृथक् श्रियमुपासताम्’ इत्यादिप्रमाणप्रसिद्धमेतदिति हिशब्दः । ‘अयमेव भगवदभिप्रायः, नान्यः’ इत्येतत्तु भाष्यटीकयोः स्फुटम् ।। ५ ।।

Load More