इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणिे ते स्थिताः ।। १९ ।।
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणिे ते स्थिताः ।। १९ ।।
भाष्यम्
तदेव स्तौति– इहैवेति ।। १९ ।।
भावप्रकाशिका
ननु कथमपरोक्षज्ञानसाधनमेव साम्यज्ञानम् ? मुक्तिसाधनं किं न स्यात् ? ‘तैर्जितः सर्गः’ इति पुनःसर्जनाभावोक्तेरित्यत आह– तदेवेति । अपरोक्षज्ञानद्वारा सर्गजयहेतुत्वाविरोधात् । अन्यथा ‘दृष्ट्वैव तं मुच्यते’ इत्यादिश्रुतिविरोधात् । न च ‘पण्डिताः समदर्शिनः’ इति दर्शनत्ववचनादिदमेवापरोक्षज्ञानमिति वाच्यम् । तथा सति स्वदेह एव ब्रह्मदर्शिनो मुक्तिः स्यादिति भावः ।। १९ ।।
प्रमेयदीपिका
ननूत्तरवाक्ये साम्यदर्शनं मुक्तिसाधनमेवोच्यते । तत् कथ-मुच्यते अपरोक्षज्ञानसाधनम्? इति । प्राग् ज्ञानिनोऽपि जन्मान्तरसद्भाव उक्तः । तत्कथम् इहैव इति तद्देह एव मुक्तिरुक्ता? इत्यत आह– तदेवेति ।। स्तुतावधिकोक्तिः सम्भवतीति भावः
।। १९ ।।
भावदीपः
।। मुक्तिसाधनमेवेति ।। ‘तैर्जितः सर्गो जन्मादिः’ इतीत्यनेनेति भावः । कैमुत्येनाप्ययुक्ततामाह – प्राग्ज्ञानिनोऽपीति ।। ‘एषा ब्राह्मी स्थितिः पार्थ’ इति श्लोकव्याख्यानभाष्ये ‘ज्ञानिनामपि सति प्रारब्धकर्मणि शरीरान्तरं युक्तम्’ इत्यादिनेति भावः
।। १९ ।।
भावरत्नकोशः
।। मुक्तिसाधनमिति । ‘तैर्जितस्सर्गः’ इति सर्गशब्दितजन्मा-भावप्रतिपादनादिति भावः । ‘इति कथमुच्यते’ इति सम्बन्धः । प्राक् इत्याक्षेपान्तरम् ‘किञ्च’ इति योज्यम् । ‘एषा ब्राह्मी स्थितिः पार्थः’ इत्यत्र ‘ज्ञानिनामपि सति प्रारब्धकर्मणि शरीरान्तरं युक्तम्’ इति द्वितीय इत्यर्थः । ‘इहैव’ इत्यस्यार्थः– तद्देह एवेति । ‘न तु जन्मान्तरे’ इत्येवकारार्थः । तदेव साम्यदर्शनमेव, आहत्य मुक्तिसाधनमिति । न तु जन्मान्तरे, किन्तु तस्मिन्नेव जन्मनि मुक्तिमापादयतीति च स्तौतीति भाष्यार्थ इति भावेनोक्तशङ्काद्वयं भाष्यभावोक्त्या परिहरति– स्तुताविति ।। साम्यदर्शनम् अपरोक्षज्ञानद्वारैव मुक्तिहेतुः । ‘तमेवं विद्वानमृत इह भवति’ , ‘दृष्ट्वैव तं मुच्यते नापरेण’ इत्यादिश्रुत्या भगवदपरोक्षज्ञानाद् अन्यस्य साक्षान्मुक्तिसाधनत्व-प्रतिषेधात् । एवं स्थितौ साम्यदर्शनस्य मुक्तिसाधनत्ववचनम्, ‘इहैव’ इति जन्मान्तरानपेक्षत्ववचनं च स्तुतिरूपम् । स्तवनं च तस्यात्यावश्यकतयाऽऽपादनीयत्वावेदनायेति भाष्यभाव इत्यर्थः ।।१९।।
गीताक्षरार्थस्तु साम्यदर्शनं सर्वथा सम्पादनीयमिति विभावयितुं स्तूयते– इहैवेति । येषाम् अधिकारिणां मनः साम्ये नानास्थानस्थितानां भगवद्रूपाणां तारतम्याभावे स्थितं परिनिष्ठितं तैः इह अस्मिन्नेव देहे सर्गो जन्मादिरूपः संसारो जितः पराजितः विनाशित इति यावत् । स्तुतावधि-कोक्तिः सम्भवतीति न क्षुद्रोपद्रवः । ‘समदर्शिनः’ इति दृश्यत्वेनोक्तं वस्तु कथं समम् ? किञ्च तत् ? इत्यत उक्तम्– निर्दोषं ब्रह्मेति ।। सकलदोषाभाववत्तया सकलगुणवत्तया च समम्, तच्च ब्रह्म । तथा चोक्तम्–
विषमेष्वपि जीवेषु समो विष्णुः सदैव तु ।
यत्तृणादिगतस्यापि गुणाः पूर्णा हरेः सदा ।। इति ।
ते चैवंविधाः समदर्शिनः । तस्मात् ब्रह्मणः, विष्णुप्रसादाद् एव ब्रह्मणि स्थिताः प्राप्त-ब्रह्मापरोक्षज्ञानाः निर्दुःखानन्दानुभवात्मिकां स्थितिं प्राप्ता इति वेति ।। १९ ।।
भावदीपिका
।। ज्ञानिनोऽपि अपरोक्षज्ञानिनोऽपि । उक्तः ‘ज्ञानिनामपि सति प्रारब्धकर्मणि जन्मान्तरं युक्तम्’ इति द्वितीयाध्याय इत्यर्थः ।। तद्देह एवेति ।। अपरोक्षज्ञान-साधनभूतं साम्यज्ञानं यस्मिन् जन्मन्युत्पन्नं तद्देह एवेत्यर्थः ।। अधिकोक्तिरिति ।। तथा चार्थवादत्वान्न स्वार्थे तात्पर्यम् । किन्तु साम्यदर्शनस्य प्राशस्त्य एवेति भावः ।। १९ ।।
भावप्रकाशः
।। प्रागिति ।। स्थित्वास्यामन्तकालेपीत्यत्रेत्यर्थः ।। १९ ।।