असंयताऽत्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ।। ३६ ।।

असंयताऽत्मना योगो दुष्प्राप इति मे मतिः ।

वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ।। ३६ ।।

भाष्यम्

 नच कदाचित् स्वयमेव मनो नियम्यते । ‘शुभेच्छारहितानां च द्वेषिणां च रमापतौ ।  नास्तिकानां च वै पुंसां सदा मुक्तिर्न युज्यते’ इति निषेधाद् ब्राह्मे

।। ३६ ।।

भावप्रदीपिका

ननु किमभ्यासवैराग्याभ्याम् ? मत्तमातङ्गवन्मनसः स्वयमेवो-परमादित्याशङ्कां परिहर्तुमुत्तरश्लोकं तात्पर्यतः सप्रमाणकं व्याचष्टे– नचेति ।। ३६ ।।

भावप्रकाशिका

ननु कालतः स्वयमेव मनो नियम्यते । किं तत्राभ्यासेन ? वैराग्येण वा ? इत्यत आह– नचेति ।। सदा इत्यस्यादितस्त्रिष्वपि सम्बन्धः । अनेन ‘असंयत...’ इति श्लोकस्य तात्पर्यमुक्तं भवति ।। ३६ ।।

प्रमेयदीपिका

‘असंयत’ इति श्लोको व्यर्थ इव प्रतीयते । तन्निवर्त्यामाशङ्कां सूचयंस्तात्पर्यमाह– नचेति ।। ‘यथा मत्तमातङ्गः स्वयमेव श्रान्तः शान्तो भवति तथा विषयैस्तृप्तं मनः कदाचित् स्वयमेव नियतं भवति । किमभ्यासादिना’ इत्येतत् नैवेत्यर्थः । कुतः? इत्यत आह– शुभेति ।। सदा इति पूर्वेण सम्बन्धः । अनेनात्र शुभेच्छादिकमप्युप-लक्षितम् इति सूचितम् । मुक्तिबीजत्वात् मनोनियमनस्य मुक्तिरित्युक्तम् ।। ३६ ।।

भावबोधः

ननु वैराग्यादिना विना मनो न नियम्यत इत्यत्र शुभेच्छादिरहितानां मुक्तिर्न जायत इति वचनं कथं प्रमाणमित्यत आह– अनेनेति ।। अत्र ‘अभ्यासेन’ इति गीता-वाक्ये । मुक्तिबीजत्वादिति । मुक्तिशब्देन तद्बीजमनोनियमनं लक्ष्यते । शुभेच्छादीनां साक्षान्मुक्तिहेतुत्वासम्भवादिति भावः ।। ३६ ।।

भावदीपः

।। अनेनात्र शुभेच्छादिकमप्युपलक्षितमिति ।। अत्र गीतायां ‘वश्यात्मना तु यतता’ इत्यनन्तरं ‘शुभमिच्छता हरिद्वेषनास्तिक्याभ्यां हीनेन’ इत्युपलक्षितमित्यर्थः । ‘मनोनियमनं न जायते’ इति वक्तव्ये ‘मुक्तिर्न जायते’ इत्युक्तिरयुक्तेत्यतः प्रकृतार्थसंवादाय मुक्तिपदेन मुक्तिहेतुर्मनोनियतिरेव ग्राह्येति भावेनाऽह– मुक्तिबीजत्वादिति ।। ३६ ।।

भावरत्नकोशः

।। व्यर्थ इवेति । आपाततः तथाप्रतीतेः ‘इव’ इत्युक्तम् । मत्तमातङ्गः मत्तगजः । ‘अभ्यासादिना’ इत्यत्रादिशब्देन वैराग्यग्रहः । पूर्वेणेति । सदा शुभेच्छारहितानाम्, सदा रमापतौ द्वेषिणाम्, सदा नास्तिकानामित्येवं पूर्वेण सम्बध्यत इत्यर्थः । अत्र ‘वश्यात्मना तु यतता’ इति गीतावाक्ये, सदाऽपि शुभेच्छा, सदा रमापतावद्वेषः, आस्ति-कत्वं च योगावाप्तिं कामयमानस्य विशेषणान्यपेक्षितानि इति वश्यात्मपदेनोपलक्षितानि ज्ञातव्या-नीति सूचितमित्यर्थः ।

अभ्यासेन तु कौन्तेय’ इति गीतावाक्ये अभ्यासवैराग्यपदाभ्यां शुभेच्छादिकं लक्षणीयमिति सूचितमिति अपरे । ‘अभ्यासादिकं विना मनो नियन्तुं न शक्यते’ इति प्रकृतेऽर्थे ‘मुक्तिर्न जायते’ इत्युक्तिः कथं प्रमाणमित्यतः अत्र मुक्तिशब्देन लक्षणया मनोनियमनमेव ग्राह्यम् इति भावेन लक्षणाबीजं शक्यसम्बन्धं दर्शयति– मुक्तिबीजत्वादिति ।। ‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’ इत्यादिशास्त्रादिति भावः ।। ३६ ।।

यथा मत्तमातङ्गः स्वयमेव श्रान्तः शान्तो भवति, तथा विषयैस्तृप्तं मनः कदाचित् स्वयमेव नियतं भवति, किमभ्यासेन वैराग्येण चेत्यत उक्तम्– असंयतात्मनेति । असंयतात्मना अभ्यासवैराग्याभ्याम् अवशीकृतचित्तेन योगो दुष्प्रापः दुःसम्प्राप्यः, अप्राप्य इति, मे मतिः । उपायतः अभ्यासादिरूपात् वश्यात्मना अभ्यासवैराग्याभ्यां वशत्वमापादित आत्मा मनो यस्य तेन तु यतता यतमानेन अवाप्तुं शक्यः ।। ३६ ।।

भावदीपिका

।। पूर्वेणेति ।। ‘सदा शुभेच्छारहितानाम्, सदा रमापतौ द्वेषिणाम्, सदा नास्तिकानाम्’ इति पूर्वेण सम्बन्ध इत्यर्थः । ननु ‘अभ्यासादिना विना मनो न नियम्यते’ इत्यत्र ‘शुभेच्छारहितानां मुक्तिर्न जायते’ इति वाक्यं कथं प्रमाणमित्यत आह– अनेनेति ।। अत्र ‘अभ्यासेन तु कौन्तेय’ इति गीतावाक्ये । तथा चाभ्यासेन वैराग्येण शुभेच्छया रमापतौ स्नेहेन आस्तिक्यबुद्ध्या च मनो नियम्यत इति गीतायां ग्राह्यमिति भावः । तर्हि ‘मनो-निग्रहो न जायते’ इति वक्तव्ये, ‘मुक्तिर्न जायते’ इति कथमुक्तं प्रमाणमित्यत आह– मुक्ति-बीजत्वादिति ।। शुभेच्छादीनां साक्षान्मुक्तिहेतुत्वासम्भवात् मुक्तिशब्देन तद्बीजं मनोनियमनं लक्ष्यत इति भावः । लक्षणाबीजसम्बन्धोपपादनाय ‘मुक्तिबीजत्वात्’ इत्युक्तमिति ध्येयम् ।।३६।।

भावप्रकाशः

।। अभ्यासादिनेति ।। आदिपदात् वैराग्यसङ्ग्रहः । पूर्वेणेति ।। शुभेच्छारहितानामित्यादिनेत्यर्थः । अत्रेति ।। ‘अभ्यासेन तु कौन्तेय’ इति गीतावाक्य इत्यर्थः । नन्वभ्यासादिकं विना मनो न नियम्यत इत्यत्र मुक्तिर्न जायत इत्युक्तिः कथं प्रमाणमित्यत आह– मुक्तिबीजत्वादिति ।। ३६ ।।