यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ।। १७ ।।

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।

आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ।। १७ ।।

भाष्यम्

तर्ह्यतीव मनस्समाधानमपि न कार्यमित्यत आह– यस्त्विति ।। रमणं परदर्शनादिनिमित्तं सुखम् । तृप्तिः अन्यत्रालम्बुद्धिः । सन्तोषः तज्जनकं सुखम् । ‘सन्तोषस्तृप्तिकारणम्’ इत्यभिधानात् ।।

भावप्रदीपिका

ननु यदि कर्माकरणेऽघायुष्ट्वं तर्हि नेश्वरेऽत्यन्तमन-स्समाधानं कार्यम् । कर्मलोपापातादित्याशङ्क्य, उत्तरत्वेन श्लोकमवतारयति– तर्हीति ।। रत्यादिशब्दान् सामान्यतो व्याचष्टे– रमणमिति ।। ‘तोष’‘रमण’शब्दयोरर्थभेदे प्रमाणमाह– सन्तोष इति ।।

भावप्रकाशिका

नन्वेवं चेदसम्प्रज्ञातसमाधौ सत्यां तत्कालीनकर्मलोपेना-घायुष्ट्वप्रसङ्गात्, हरावतीव मनःसमाधानमपि न कार्यमित्याशङ्क्याह– तर्हीति ।। तत्र तावत् ‘तृप्ति’ ‘सन्तोष’ शब्दयोरर्थभेदोऽप्यस्तीति सप्रमाणकं वदति । ‘तृप्ति’ ‘सन्तोष’ शब्दार्थानसाधारणानाह– रमणमित्यादिना ।।

प्रमेयदीपिका

‘एवमज्ञानिनः कर्म कर्तव्यमित्युक्तम् । इदानीं ज्ञानिनः कर्तव्याभावमाह’ इति परव्याख्यानमसदिति भावेन सङ्गतिमाह– तर्हीति ।। यद्येवं कर्माकरणे हानिः, तत्करणे च लाभः, तर्हीत्यर्थः । परमेश्वरे अतीवमनस्समाधानम् असम्प्रज्ञातसमाधिरित्यर्थः । न कार्यं ‘प्रसज्येत’ इति शेषः । तत्र कर्मलोपस्यावश्यम्भा-वादिति भावः ।।

अत्र रतितृप्तिसन्तोषशब्दांस्तावद्व्याचष्टे– रमणमिति ।। ‘पर’ इति स्वरूपकथनम् । न शब्दार्थान्तर्भूतम् । तथाच पञ्चमेऽभिधानं वक्ष्यते । तथात्वे आत्मशब्देन जीवनिराकरणं च व्यर्थं स्यात् । यद्दर्शनादिनिमित्तं सुखं ततो अन्यत्र । तज्जनकं तृप्तेर्जनकम् । तृप्तिकारणं ‘सुखम्’ इति शेषः ।।

भावबोधः

ननु सुखनिमित्तदर्शनविषयस्य परस्य रतिशब्दार्थान्तर्गतत्वे ‘आत्मरतिः’ इत्यत्र दर्शनविषयपरात्मेति पदमनन्वितं स्यादित्यत आह– परेति स्वरूप-कथनमिति ।। पञ्चम इति ।। ‘दर्शनस्पर्शसम्भाषाद्यत् सुखं जायते नृणाम् । आराम’ इत्यत्र दर्शनादिमात्रग्रहणादिति भावः । ‘पर’ इत्यस्य रतिशब्दार्थान्तर्गतत्वे बाधकं चाह– तथात्व इति ।। दर्शननिमित्तकसुखस्यैव रतिशब्दार्थत्वे दर्शनविषयतया आत्मशब्देन जीवस्यापि प्राप्तौ ‘परमात्मदर्शनादिनिमित्तम्’ इति ‘परमात्मरतिश्च’ इति च करिष्यमाणमात्मशब्दार्थत्वेन जीवनिराकरणं व्यर्थं स्यादिति भावः ।।

भावदीपः

उत्तरश्लोकसङ्गतिभाष्यमवतारयितुं परमतमाह– एवमित्यादिना ।। इत्युक्तमिति ।। ‘अन्नात्’ इत्यादि श्लोकैरित्यर्थः । ‘न कर्मणामनारम्भात्’ इत्यादेस्तात्पर्या-र्थोक्तिः– कर्माकरणे हानिरिति ।। ‘सहयज्ञाः’ इत्यादेः भावार्थोक्तिस्तत्करणे च लाभ इति ।।

दर्शनस्पर्शसम्भाषाद्यत् सुखं जायते नृणाम् ।

 आरामः स तु विज्ञेयः सुखं कामक्षयात्’

इति पञ्चमे (५.२४ नारदीयवचनम्) वक्ष्यमाणवचनाविसंवादायाऽह– परेतीति ।। परत्वस्यापि रतिपदार्थान्तर्गतौ बाधकं चाह– तथात्व इति ।। परत्वस्य रतिपदार्थान्तर्भूतत्वे वा ‘परदर्शन’ इत्युक्त्यैव स्वात्माख्यजीवदर्शनसुखस्य निरासप्राप्तेरुत्तरभाष्ये ‘परमात्मदर्शनादि’ इत्यादिना आत्मपदस्य जीवपरत्वभ्रमनिराकरणं च व्यर्थं स्यात् । न केवलं वक्ष्यमाणाभिधान- विसंवाद इति वाऽर्थः ।। ‘अन्यत्र’ इत्यत्रावधिमाह– यद्दर्शनेत्यादि ।। ‘तज्जनकम्’ इत्यत्र तच्छब्दार्थमाह– तज्जनकं तृप्तेर्जनकमिति ।।

भावरत्नकोशः

।। इति परव्याख्यानमिति।। तथा च सङ्करभाष्यम् ‘यज्ञार्थात्’  इत्यादिना ‘मोघं पार्थ स जीवति’ इत्यनेनाधिकृतस्यानात्मविदः कर्मानुष्ठाने बहु कारणमुक्तम् । तदकरणे दोषश्चोत्कीर्तितः । अथेदानीमात्मज्ञाननिष्ठानां तन्निष्ठाव्यतिरेकेण नान्यत् कर्तव्य-मस्तीति ‘यस्त्वात्मरतिः’ इत्यनेन आह’ इति ।

असम्प्रज्ञातसमाधिः बाह्यार्थज्ञानशून्यतया भगवति मनःप्रणिधानम् । तेन ‘निर्द्वन्द्वो नित्यसत्त्वस्थः’ इति गीतायामेव कर्मकरणकाले भगवति मनोऽवस्थापनस्योक्तत्वात् कथ-मापादनमेवं कृतम् ? इति चोद्यं निरसनीयमित्युक्तं भवति । तथा च वक्ष्यति ‘असम्प्रज्ञात-समाधिस्थस्यैव’ (३.१७) इति भाष्ये । तत्र असम्प्रतज्ञातसमाधौ क्रियमाणे । अत्र गीतायाम् । रतितृप्तिसन्तोषशब्दानिति ।। रतिशब्दः तृप्तसन्तुष्टशब्दप्रकृतिभूतौ चेत्यर्थः । परमात्मदर्शनादि-निमित्तं सुखं प्राप्त इत्यादिरूपेण आत्मरत्यादिशब्दार्थस्य वक्ष्यमाणत्वात् ‘तावत्’ इत्युक्तम् । अन्यथा ‘सन्तोषस्तृप्तिरापूर्तिः प्रीतिः पर्यायवाचकाः’ इति ‘रतिः कामप्रियाप्रीत्योः’ इति चाभिधानेन शब्दानां पुनरुक्तिः स्यादिति भावः । ‘स्वरूपकथनम्’ इत्येतत्कुतः ? इत्यत आह– तथा चेति ।।

दर्शनस्पर्शसम्भाषाद् यत्सुखं जायते नृणाम् ।

 आरामः स तु विज्ञेयः ।। (नारदीये)’

इत्यभिधाने दर्शनादिभेदग्रहमात्रग्रहणात् तन्निमित्तं सुखमेव रतिशब्दार्थो दर्शनादि-कर्मतयाऽन्वितः, परन्तु तत्र परिचायकतयोक्त इत्यर्थः । परस्यापि शब्दार्थत्वे आत्मनि रतिर्यस्येति विग्रहे परस्यान्वयायोग इति भावः । ‘आरामः परदर्शनादिनिमित्तं सुखम्’  इति पञ्चमभाष्ये वक्ष्यमाणत्वाद् आरामशब्देन रमणपर्याया रतिरेव प्रतिपिपादयिषितेति न तद्भाष्यविसंवादशङ्काऽवकाशः ।

पर’ इत्यस्य रतिशब्दार्थान्तर्गतत्वे बाधकमप्याह– तथात्व इति ।। सुखदर्शनादेरिव परस्यापि शब्दार्थत्वाय प्रवेशेऽङ्गीक्रियमाणे ‘परमात्मदर्शनादि’ इत्यग्रिमभाष्ये करिष्यमाणं जीवनिराकरणं व्यर्थं स्यात् । ‘पर’ इत्यनेनैव स्वाख्यजीवनिराकरणात् । असम्प्रज्ञातसमाधि-स्थत्वेनान्यदर्शनप्रसक्तेरभावाच्चेति भावः । चशब्दस्य ‘तथात्वे’ इत्यनेन सम्बन्धः । ‘न केवलं वक्ष्यमाणाभिधानविसंवाद इति चशब्द’ इति स्वस्थान एव चशब्दं योजयन्ति च । भाष्ये ‘अन्यत्र’ इत्यस्य प्रतियोग्याकाङ्क्षां पूरयति– यद्दर्शनेति ।। ‘तज्जनकम्’ इत्यत्र तच्छब्देन सन्तोषग्रहणे स्वस्य स्वजनकत्वं विप्रतिषिद्धम् । परदर्शनादिनिमित्तसुखग्रहणे दूरस्थत्वम् । ‘सन्तोषस्तृप्तिकारणम्’ इत्यभिधानविसंवादश्च, इत्यतस्तच्छब्दार्थमाह– तज्जनकं तृप्तेर्जनक-मिति ।। अभिधाने ‘तृप्तिकारणम्’ इत्यनन्तरं प्रकृतार्थान्वयित्वाय शेषमाह– तृप्तिकारण-मिति ।। भाष्याभिधानयोर्भिन्नकर्तृकत्वाद् भाष्यस्थं सुखपदं नानुवर्तयितुं शक्यमिति टीकायां ‘शेष’ इत्युक्तम् ।

भावदीपिका

।। हानिरिति ।। चक्रविघातेन प्रत्यवायरूपा । ननु कर्मा-करणकरणयोर्हानिलाभसद्भावेऽसम्प्रज्ञातसमाधिः कुतो न कार्यः? इत्यत आह– तत्रेति ।। असम्प्रज्ञातसमाधावित्यर्थः ।। कर्मलोपस्येति ।। तथा च प्रत्यवायप्रसङ्ग इति भावः । व्याचष्ट इति ।। ‘पौनरुक्त्यपरिहाराय’ इति शेषः । कुतः? इत्यत आह– तथा चेति ।। पञ्चम इति ।। ‘योऽन्तःसुखोऽन्तरारामः’ इत्येतद्व्याख्यानसमये

 दर्शनस्पर्शसम्भाषाद् यत् सुखं जायते नृणाम् । आरामः स तु विज्ञेयः ।’ (नारदीये)

 इत्यत्र दर्शनमात्रग्रहणात् तद्विरोधः स्यादिति भावः । ‘पर’ इत्यस्य रतिशब्दार्थान्तर्गतत्वे बाधकं चाऽह– तथात्व इति ।। दर्शननिमित्तकसुखस्यैव रतिशब्दार्थत्वाङ्गीकारे ‘आत्मरतिः’ इत्यत्र दर्शनविषयतया आत्मशब्देन जीवस्यापि प्राप्तौ ‘परमात्मरतिश्चात्र विवक्षिता’ इति व्याकरिष्यमाणम् आत्मशब्दार्थत्वेन जीवनिराकरणं सार्थकं स्यात् । अन्यथा रतिशब्दार्थान्त-र्गतेन परमात्मवाचिपरशब्देनैव जीवस्य निराकृतत्वात् पुनरात्मशब्दार्थतया जीवनिराकरणं व्यर्थं स्यादिति भावः । ‘अन्यत्र’ इत्यस्यावधिसापेक्षत्वात् तं दर्शयति– यद्दर्शनादीति ।।

भावप्रकाशः

 ननु कर्मणोऽवश्यकर्तव्यत्वे परमेश्वरेऽतीवमनःसमाधानमपि न कार्यं स्यात् इत्यापदनमयुक्तम् । ‘निर्द्वन्द्वो नित्यसत्वस्थः’ इत्यादिगीतायां नित्यसत्वस्थ इत्यादिना कर्मकरणकाल एव परमेश्वरे अतीवमनस्समाधानस्य विहितत्वेन तयोर्विरोधाभावात् इत्यत आह– असम्प्रज्ञेति ।। साधने प्रमाणबाध इत्यत आह– प्रसज्येतेति शेष इति ।। व्याचष्ट इति ।। अन्यथा ‘सन्तोषस्तृप्तिरापूर्तिः प्रीतिः पर्यायवाचकाः’ इत्यभिधानात् तृप्ति-सन्तोषशब्दयोरेकार्थत्वेन ‘रतिः कामप्रियाप्रीत्योः’ इति कोशाद् रतिशब्दस्य तृप्तिपर्याय-प्रीतिवाचकत्वेन च पुनरुक्तिप्रसङ्गादिति भावः । ‘पर’ इति स्वरूपकथनमित्येतत् कुतः ? इत्यत आह– तथा च पञ्चम इति ।।

दर्शनस्पर्शसम्भाषाद्यत् सुखं जायते नृणाम् । आरामः’

इत्यभिधानमित्यर्थः । तथा च वक्ष्यमाणाभिधाने दर्शनादिमात्रग्रहणात् ‘परेति स्वरूप-कथनम्’ इत्युक्तं भवति । ‘पर’ इत्यस्य रतिशब्दार्थान्तर्गतत्वे बाधकं चाह– तथात्व इति ।। परदर्शनादिजन्यसुखस्य रतिशब्दार्थत्वे ‘परमात्मदर्शनात्’ इत्यग्रिमभाष्येण करिष्यमाणं जीव-निराकरणं व्यर्थं स्यादित्यर्थः । ‘पर’ इत्यनेनैव स्वाख्यजीवनिराकरणात् असम्प्रज्ञातसमाधि-स्थत्वेनान्यजीवदर्शनप्रसक्तेरभावाच्चेति भावः । अभिधानस्थं तृप्तिकारणपदमनूद्य शेषं पूरयति– तृप्तिकारणमिति ।।

Load More