अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ।। २८ ।।
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ।। २८ ।।
भाष्यम्
तदेव स्पष्टयति– अव्यक्तादीनीति ।। २८ ।।
प्रमेयदीपिका
स्पष्टनं च जन्ममरणस्वरूपनिरूपणेन ।। २८ ।।
भावबोधः
जन्ममरणस्वरूपनिरूपणेनेति ।। अनेन अव्यक्तं प्रकृतिरादिर्देहकारणं येषां तानि अव्यक्तादीनीति प्राकृतशरीरप्राप्तिलक्षणं जननम् । व्यक्तं प्रकृतिकार्यं शरीरं मध्यं सुखदुःख-भोगहेतुर्येषां तानि व्यक्तमध्यानीति स्थितिः । अव्यक्ते प्रकृतौ निधनं देहलयो येषां तानि अव्यक्तनिधनानीति मरणमिति इति श्लोको व्याख्यातः ।।
भावदीपः
जन्ममरणस्वरूपनिरूपणेनेति ।। अव्यक्तं प्रधानमादिः उत्पत्तेः पूर्वरूपं येषां तानि अव्यक्तादीनि । भूतानि जीवशरीराणि । अव्यक्ते निधनं नाशो(लयो)येषां तानि अव्यक्त-निधनानीत्येवं रूपेणेत्यर्थः ।। २८ ।।
भावरत्नकोशः
जन्ममरणेति ।। अव्यक्तं कारणीभूतं शरीरमादिर्येषां तानि तथा । व्यक्तं कार्यं शरीरं मध्यं मध्यप्राप्तं येषां तानि तथा । पूर्वं कारणीभूतलिङ्गशरीरविशिष्टान्येव भूतानि सृष्ट्यादौ कार्यदेह-युक्तानि भवन्तीति यावत् । अनेन देहयोग एव जन्मेति निरूपितम् । अव्यक्ते कारणीभूतशरीर एव निधनं कार्यदेहलयो येषामिति मृत्युशब्दितदेहवियोगलक्षणमरणस्वरूपं निरूपितमिति विवेकः ।।
गीताश्लोकाक्षरार्थः– जन्ममरणस्वरूपनिरूपणेन नियतत्वमेव विशदीक्रियते अव्यक्ता-दीनीति । अव्यक्तं प्रधानमादिर्देहकारणं येषां तानि तथा । व्यक्तं प्राकृतं कार्यं शरीरं मध्यं मध्यमिव येषां तानि तथा । अनेन पूर्वं कारणीभूतलिङ्गशरीरविशिष्टानां भूतानां सृष्ट्यादौ कार्यदेहयोगरूपजन्माभिहितम् । अव्यक्ते निधनं लयो येषामिति व्यधिकरणबहुव्रीहिः । एवेति नियतत्वम् । तत्र नियतजन्ममरणग्रस्तेषु का परिवेदना? को वा प्रलापः? शोको न कार्य इति यावदिति ।। २८ ।।
भावदीपिका
स्पष्टनम् अशोकस्पष्टनम् ।। जन्ममरणेति ।। अनेनाव्यक्तं प्रकृतिरादिर्देहकारणं येषां तान्यव्यक्तादीनीति प्राकृतशरीरप्राप्तिलक्षणं जननम् । व्यक्तं प्रकृतिकार्यं शरीरं मध्यं सुखदुःखभोगे हेतुर्येषां तानि व्यक्तमध्यानीति स्थितिः । अव्यक्ते प्रकृतौ निधनं देहलयो येषां तान्यव्यक्तनिधनानीति मरणमिति जन्ममरणस्वरूपनिरूपणेनेत्यर्थः ।। २८ ।।
भावप्रकाशः
जन्ममरणस्वरूपेति ।। अव्यक्तं कारणीभूतं शरीरं आदि येषान्तानि अव्यक्तादीनि । आद्यत्वार्थकादिशब्दस्य विशेष्यनिघ्नतयाऽमरप्रसिद्धेः । अव्यक्तं कार्यं शरीरं मध्यं मध्यप्राप्तं येषां तानि अव्यक्तमध्यानि । पूर्वं कारणीभूतलिङ्गदेहविशिष्टान्येव भूतानि सृष्ट्यादौ कार्यदेहयुक्तानि भवन्तीति यावत् । अनेन देहयोग एवजन्मेति निरूपितम् । अव्यक्ते कारणीभूतशरीर एव निधनं कार्यदेहलयो येषामिति मरणस्वरूपनिरूपणमिति विवेक्तव्यम् ।। २८ ।।
आश्चर्यवत् पश्यति कश्चिदेनम्
आश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाऽप्येनं वेद न चैव कश्चित् ।। २९ ।।
गीताक्षरार्थस्तु– एनं पूर्वप्रकृतं जीवं यः कश्चिदीश्वराधीनत्वसूक्ष्मत्वादिना पश्यति स द्रष्टा पुमानाश्चर्यवद् आश्चर्य एव । अन्यो यः कोऽपि तथैव उक्तप्रकारेणैव वदति अन्यो यः कोऽपि उक्तरूपेणैव शृणोति च स आश्चर्याे दुर्लभ एव । सर्वेषामात्मदर्शनादिसद्भावात् कथमात्म-दर्शनादिमान् दुर्लभ इत्यत उक्तमुपपाद्यते– श्रुत्वाऽपीति ।। दृष्ट्वा उक्तवाऽपीति ग्राह्यम् । सामान्यतो दर्शनादिसद्भावेऽपि ईश्वराधीनत्वादिना कोऽपि जीवं सम्यङ् न वेत्तीति हेतोरुक्त-मुपपन्नम् । यत्प्रतिबिम्बस्य जीवस्य द्रष्टापि दुर्लभः किं तत्सामर्थ्यं वर्णनीयमितीश्वरसामर्थ्यमनेन दर्शितं भवति । तेन चेश्वरसरूपत्वेऽपि कथमनाश इत्याशङ्का परिहृता वेदितव्येति ।। २९ ।।