अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत् तत् तामसमुच्यते ।। २५ ।।

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।

मोहादारभ्यते कर्म यत् तत् तामसमुच्यते ।। २५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अनुबन्धमिति ।। अनुबध्यत इति अनुबन्धः । तत् पश्चाद्भावि शुभाशुभं क्षयं वित्तस्य, हिंसां परपीडां पौरुषं पुरुषसामर्थ्यं च अनवेक्ष्य अपर्यालोच्य मोहाद् ‘अहमेव कर्ता’ इति मिथ्याज्ञानाद् यत् कर्मारभ्यते तत्ताम-समुच्यते ।। २५ ।।