यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ।। १९ ।।

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।

स सर्वविद्भजति मां सर्वभावेन भारत ।। १९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एवं प्रतिपादिते क्षराक्षरोत्तमत्वे तात्पर्य-द्योतनाय वेदितुः फलमुच्यते– यो मामेवमिति ।। ‘एवम्’ इत्यस्य व्यावृत्तिनिरासः– असम्मूढ इति ।। न पुनरश्वकर्णादिशब्दवत् संज्ञामात्रत्वेनेत्यर्थः । स सर्ववित् अस्यैव सर्वशास्त्रार्थत्वात् सर्वशास्त्रार्थस्य वेदिता । सर्वभावेन सर्वप्रकारेण ।। १९ ।।