यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ।। २३ ।।

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ।। २३ ।।

भाष्यम्

यत्कालाद्यभिमानिदेवतागता आवृत्त्यनावृत्ती गच्छन्ति ता आह– यत्रे-त्यादिना ।। ‘कालः’ इत्युपलक्षणम् । अग्न्यादेरपि वक्ष्यमाणत्वात् ।। २३ ।।

भावप्रदीपिका

पूर्वं भगवद्भक्तानामपुनरावृत्तिरन्येषां पुनरावृत्तिश्चोक्ता । तद्द्वयं केन पथा गतानाम् ? इत्यत उत्तरश्लोकान् सङ्ग्रहेण व्याचक्षाणोऽवतारयति– यदिति ।। गीतायां ‘काल’पदस्यैव श्रवणात् किमर्थम् आदिपदम् ? इत्यत आह– काल इति ।। २३ ।।

प्रमेयदीपिका

‘यस्मिन् काले मृता आवृत्त्यनावृत्ती यान्ति तत्प्रतिपादनार्थ-मुत्तरोग्रन्थः’ इत्यन्यथाप्रतीतिनिरासार्थमाह– यदिति ।। याश्च ताः कालाभिमानिन्यश्चेति विग्रहः ।। देवतागता इति ।। तदधिष्ठितमार्गाभ्यां गता इत्यर्थः । ‘कालः’ इत्युक्तत्वात् कथमादिपदप्रक्षेपेण व्याख्यानम्? इत्यत आह– काल इति ।। कुतः? इत्यत आह– अग्न्यादेरिति ।। अग्निज्योतिर्धूमानाम् ।। २३ ।।

भावदीपः

आदिपदार्थमाह– अग्निज्योतिर्धूमानामिति ।। २३ ।।

भावरत्नकोशः

ताः इत्युत्तरत्र भाषणात् तत्सामानाधिकरण्यानुकूलविग्रहं दर्शयति– याश्च ता इति ।।

गीताक्षरार्थस्तु– यत्कालाग्निज्योतिर्धूमलोकाभिमानिदेवताधिष्ठितमार्गाभ्यां गता आवृ-त्त्यनावृत्ती गच्छन्ति ता उच्यन्ते यत्रेत्यादि त्रिश्लोक्या ।। यत्र यत्कालाभिमानिदेवताऽधिष्ठित-मार्गेषु धूमादिलोकाभिमानिदेवताऽधिष्ठितमार्गेषु च मृत्यनन्तरं च प्रयाता योगिनः ज्ञानयोगिनः कर्मयोगिनश्च अनावृत्तिम् आवृत्तिं चैव यान्ति तं कालं कालाभिमानिदेवताधिष्ठितमार्गम् । अग्निज्योतिर्धूमानाम् अकालत्वेऽपि कालाभिमानिनां बाहुल्याद् अल्पसलिलयुतपयसि पयःपदस्य सलिलोपलक्षकत्ववत् कालपदस्येतरगम्यदेवताधिष्ठितमार्गोपलक्षकत्वाशयेन ‘कालम्’ इत्येवोक्तम् ।। २३ ।।

भावदीपिका

।। याश्चेति ।। ‘यस्य कालादेः’ इत्यर्थत्वे ‘ता आह’ इत्यनुपपन्नं स्यादिति भावः । भाष्ये काल इत्युपलक्षणं मार्गाभिमानिदेवतोपलक्षणमित्यर्थः । आदिशब्देन ज्योतिर्धूमौ ग्राह्यावित्याशयेनाह– अग्निज्योतिर्धूमानामिति ।। मार्गाभिमानि-देवानामित्यर्थः ।। २३ ।।

भावप्रकाशः

यश्चासौ कालादिश्चेति कृते ता आहेत्यनुपपन्नमत आह– याश्च ता इति । अग्न्यादेरित्यादिपदेनाहरादेरपि ग्रहणे कालशब्दस्य तदुपलक्षकत्वमयुक्तम् । अहरादेः कालशब्दशक्त्यैव लाभादित्यत आह– अग्निज्योतिर्धूमानामिति ।। २३ ।।