अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ।। १४ ।।
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ।। १४ ।।
भाष्यम्
नित्ययुक्तस्य नित्योपायवतः । योगिनः परिपूर्णयोगस्य ।।
भावप्रदीपिका
नित्ययुक्तयोगिपदयोरर्थभेदमाह– नित्येति । अनयोर्हेतु-हेतुमद्भावादिति ।। १४ ।।
प्रमेयदीपिका
‘नित्ययुक्तस्य’ ‘योगिनः’ इत्येतयोरेकार्थतानिरासार्थमाह– नित्येति ।। नित्योपायवत्वेन सम्पूर्णयोगस्येत्यर्थः ।। १४ ।।
भावरत्नकोशः
नित्ययुक्तपदावैयर्थ्याय भाष्यभावमाह– नित्योपायत्वेनेति । प्रयोज्यप्रयोजकार्थत्वान्नानर्थक्यमिति भावः ।।
गीताक्षरार्थस्तु– अन्तकाले स्मरणं नित्याभ्यासशालिन एव भवति । भवच्च तत् मत्प्राप्ति-हेतुरित्युच्यते अनन्यचेता इति । सततम् अनन्यविषयचित्तः यो नित्यशो मां स्मरति, ‘सततम्’ इति नैरन्तर्यम्, नित्यशः ‘सङ्ख्यैकवचनाच्च वीप्सायाम्’ इति शस् । नित्यमिति दीर्घ-कालत्वमभिसंहितमिति आहुः । नित्ययुक्तस्य नित्योपायवतः योगिनः परिपूर्णयोगस्य नित्योपायत्वेन सम्पूर्णयोगस्येत्यर्थः । तस्य ‘कृत्यानां कर्तरि वा’ इति षष्ठी । सुलभः अकृच्छ्रेण लभ्यः ।। १४ ।।
भावदीपिका
योगित्वे नित्ययुक्त्वं हेतुरिति भावेनाह– नित्यापायत्वेनेति ।। नित्यम्अहरहः वायुजयादियोगरूपोपायानुष्ठातृत्वेनेत्यर्थः ।। १४ ।।
भावप्रकाशः
नित्ययुक्तपदवैयर्थ्यमाशङ्क्य योगित्वे कारणप्रतिपादकत्वान्न वैयर्थ्यमित्याह– नित्योपायवत्वेनेति ।। १४ ।।