न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ।। ३ ।।

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।

अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ।। ३ ।।

भाष्यम्

यथा स्थितस्तथा नोपलभ्यते । अन्तादिर्विष्णुः ।।

त्वमादिरन्तो जगतोऽस्य मध्यम्’ (८.१७.२८) इति भागवते ।

अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः’ इति च मोक्षधर्मे ।

असङ्गशस्त्रेण सङ्गराहित्यसहितेन ज्ञानेन । ‘ज्ञानासिनोपासनया सितेन’ (११.२८.१८) इति भागवते । छेदश्च विमर्श एव । ततश्च तस्यैवाबन्धकं भवति ।

भावप्रदीपिका

(प.टी.)जगतो दृश्यमानत्वात् ‘न रूपम् ’इत्येतत्कथम् ? इत्यत आह– यथेति । जगदन्तादि दृश्यमानं कथं न दृश्यते ? इत्यत आह– अन्तादि-रिति । विष्णोरज्ञेयत्वे प्रमाणमाह– अनादीति । असङ्गाख्यशस्त्रेणेति नेत्याह– असङ्गेति । ननु यदि संसारो ज्ञानेन छेद्यः तर्ह्येकस्य ज्ञानेन सर्वमोक्षः स्यात् इत्यत आह– छेदश्चेति ।

प्रमेयदीपिका

‘अस्य रूपं नोपलभ्यते’ इत्युक्ते प्रमाणबाधः । अत उक्तम्– तथेति ।। तत्सापेक्षमित्यतः पूरयति– यथेति ।। विकारित्वादिनेत्यर्थः । जगतो देशकालाभ्यां परिच्छेदस्योपलभ्यमानत्वात् ‘नान्तः’ इत्याद्युक्तमयुक्तमित्यत आह– अन्तादिरिति ।। ‘संहर्तृत्वादेः’ इति शेषः ।। अत्र सम्मतिमाह– त्वमिति ।। मध्यं स्थितेः कर्ता । तस्यानुपलभ्यमानत्वे प्रमाणमाह–अनादीति ।। आद्यन्तरहितम् । ‘असङ्ग एव शस्त्रम्’ इति व्याख्यानमसदिति भावेनाऽह – असङ्गेति ।। असङ्गः सङ्गराहित्यम् । तेन सहितं ज्ञानम् असङ्गशस्त्रम् । दध्योदनादिवद् वृत्तौ साहित्य-स्यान्तर्भावादप्रयोग इति भावः । प्रतीतार्थः कुतो नेत्यतो ज्ञानस्यैव तत्र कारणत्वे-नोक्तेरित्याह– ज्ञानेति ।।

छित्वा’ इत्यस्य ‘सबीजमुद्धृत्य’ इति व्याख्यानमसदिति भावेनाऽह– छेदश्चेति ।। चस्त्वर्थः । विमर्शः विवेकः । व्याख्यानान्तरपरित्यागेनैवं व्याख्याने को हेतुः? इत्यत आह– ततश्चेति ।। यतो विमर्श एव प्रकृत्यादेः विश्वस्य च्छेदः न सर्वथोद्धारणम् । तत एव तस्य एकस्य एव इदम् अबन्धकं भवति इति युज्यते । अन्यथा एकेन च्छेदे कृते सर्वमुक्तिः स्यादिति भावः ।।

भावदीपः

गीतायामन्वयमुखेन पदान्यनुपेक्ष्य पदानुपपत्तियुक्तिपूर्वं गीताशेषमवतारयति –अस्येति ।। विकारित्वादिनेति ।। वृद्धिह्रासविनाशादिरादिपदार्थः । जगद्वृक्षस्य प्रसविता विष्णुः कथम् अन्तादिः केन हेतुनेत्यत आह– संहर्तृत्वादेरिति शेष इति ।। संहर्तृत्वात् अन्तः, जनकत्वात् आदिः,स्थितिहेतुत्वात् सम्प्रतिष्ठा इत्युच्यत इत्यर्थः ।। दध्योदनादिवदिति ।। दधिसिक्तोदनो घृतसिक्त ओदन इत्याद्यर्थे दध्योदन घृतोदन इत्यादि प्रयोगस्तथेत्यर्थः ।। साहित्यार्थे पदप्रयोगे बीजमाह– वृत्ताविति ।। समासे साहित्यरूपार्थस्य सङ्गम्यमानत्वादित्यर्थः । उद्धृत्येति ।। विनाश्येत्यर्थः । विवेक इति ।। कार्यत्वात् स्वतन्त्रत्वादिज्ञानादित्यर्थः ।।

वाक्यार्थप्रदीपः

नन्वेवं अङ्गसहितशस्त्रेण इति सहितपदप्रयोगः स्यादित्यतः समासान्तर्भूतत्वात् तदप्रयोगो न दोषायेति अभिप्रेत्य यद् वृृत्तावन्तर्भूतं तदप्रयोगे सम्प्रतिपन्न-मुदाहरणमाह– दध्योदनादिवदिति ।। दध्योदनशब्देन क्रिया आपद्यते । नचान्तरेण क्रियायां द्रव्याणां परस्परं सम्बन्ध इति असामर्थ्यादत्र समासो न प्राप्नोति । अथ असत्यपि सामर्थ्ये अन्नेन व्यञ्जनमिति वचनात् समासः इहापि तर्हि प्राप्नोति । किं दध्ना ओदनो भुज्यता-मितीत्यनुपपत्तिपरिहाराय स्वभावादेव वृत्तावन्तर्भूता क्रियेति तद्द्वारकसम्बन्धसद्भावात् सामर्थ्य-मेवेत्याशयेन वृत्तौ क्रियायां अन्तर्भावादिति अन्नेन व्यञ्जनमिति सूत्रे वृत्तिकारेण समाधानात् दध्योदनशब्दे वृत्तौ क्रियाया अन्तर्भावादप्रयोगवदत्र साहित्यस्य वृृत्तावन्तर्भावादप्रयोगो युक्तः । क्रियाया अन्तर्भावः एकत्र अपरत्र साहित्यस्येति वैषम्यं चानुपयुक्तम् । अन्तर्भूतस्याप्रयोग इत्येतावन्मात्रस्योभयसाधारणत्वादिति भावः ।।

भावरत्नकोशः

जगद्वृक्षस्य प्रत्यक्षत एवोपलभ्यमानत्वादाह– प्रमाणबाध इति ।। ‘बाधः’ इत्यनन्तरम् ‘इति’ शब्दोऽध्याहार्यः । ‘उक्तम्’ इत्यनन्तरम् ‘गीतायाम्’ इति शेषः । तत् ‘तथा’ इति पदम् । यथाशब्दविवक्षितार्थोक्तिः– विकारित्वादिनेति ।। आदिपदेन नाशो वृद्धिर्ह्रासश्च गृह्यते । ऊर्ध्वमूलत्व अधःशाखत्वादिरादिपदार्थ इत्येके । ननु जगन्नाशादि-रूपत्वं विष्णोः कथम् इत्यत आह– संहर्तृत्वादेरिति ।। संहारकर्तृत्वात्, उत्पत्तिकर्तृत्वात्, स्थितिकर्तृत्वाच्च तत्तच्छब्दव्यपदेश्यत्वमिति भावः । अत्र अन्तत्वे आदित्वे प्रतिष्ठात्वे च । मध्यं स्थितेः कर्तेति ।। तथाच उत्पत्तिकर्तृत्वाद् आदिः, स्थितिकर्तृत्वाद् मध्यम्, संहार-कर्तृत्वाद् अन्त इति भागवतस्यात्रोक्तेऽर्थे सम्मतित्वमिति भावः । तस्य अन्तादिशब्दार्थस्य विष्णोः । आदिश्च अन्तश्च आद्यन्तौ, न विद्येते आद्यन्तौ यस्य स तथा इति विग्रहा-द्यभिप्रेत्य तदर्थमाह– आद्यन्तरहितमिति ।। देवा ऋषयश्च यदा न विदुः, तदा किमु वक्तव्यं ‘मनुष्यलोको न वेद’ इति प्रकृतार्थसिद्धिः ।

असङ्गः’ इति पुत्रवित्तलोकेषणाभ्युत्थानम्, तदेव शस्त्रं, तेनेति शङ्करभाष्यं निष्कृष्यानु-वदति– असङ्ग एव शस्त्रमितीति ।। छेदकत्वगुणयोगात् शस्त्रशब्दो ज्ञाने वर्तते इति भावेन ‘शस्त्रं ज्ञानम्’ इत्युक्तम् । ननु साहित्यस्य विवक्षायां तद्बोधकसहितपदमपि समासे प्रयोक्तव्यं स्यात् इत्यत आह– दध्योदनादिवदिति ।। ‘दधिसहित ओदनो दध्योदनः’, ‘घृतसहित ओदनो घृतौदनः’, ‘गुडेन मिश्रा धाना गुडधानाः’ इत्यादौ यथा साहित्यं समासीयाखण्डशक्ति-शब्दितया वृत्त्या भाति, तथा प्रकृतेऽपि’ ‘असङ्गशस्त्रेण’ इति समासवृत्त्यैव भातीति न तद्वाचकपदप्रयोग इत्यर्थः । अत्र ‘इदं च पररीत्या’ इत्यादि बहूक्तं कृष्णाचार्यैरिति तद्विचार-णीयम् । प्रतीतार्थः ‘असङ्ग एव शस्त्रम्’ इति परोक्तार्थः । ‘ज्ञानस्यैव’ इति वदन् एतच्छित्त्वा च हित्वा च ज्ञानेन परमासिना’ इति पुराणवचनम् उदाहरतः शङ्करस्यैव स्वव्याहतिरिति सूचयति । तत्र छेदे । ‘छित्त्वा संसारवृक्षं सबीजमुद्धृत्य इति शङ्करभाष्ये दूष्यभागमनुवदति– छित्त्वेतीति ।। विवेकः विवेचनम् कार्यत्वं परतन्त्रत्वादिविमर्श इति यावत् । तस्य विमर्शशालिनः । इदम् प्रकृत्यादिरूपं विश्वम् । अन्यथा सबीजमुद्धृत्य इत्यर्थत्वे ।

भावदीपिका

।। प्रमाणबाध इति ।। जगद्वृक्षस्वरूपस्य प्रत्यक्षे-णोपलभ्यमानत्वादित्यर्थः । तत्सापेक्षमिति ।। ‘तथा’ इत्येतद् यथाशब्दसापेक्षमित्यर्थः । यथा स्थितः तथा कुतो नोपलभ्यत इत्यत आह– सविकारित्वादिनेति ।। आदिपदेन नाशो ग्राह्यः । संहर्तृत्वादेरिति ।। तथा च ‘अस्य रूपं नोलभ्यते’ इत्येव न, किं नाम संहर्तृत्वात् स्रष्टृत्वात् स्थितिकर्तृत्वेन प्रतिष्ठापकत्वाच्चान्त आदिः प्रतिष्ठा च यो विष्णुर्मूलभूतः सोऽपि नोपलभ्यत इत्यर्थो द्रष्टव्यः । अत्रेति ।। भगवत अन्तादिशब्दप्रवृत्तिनिमित्तभूतसंहर्तृत्वादिसद्भाव इत्यर्थः । ननु तर्हि ‘असङ्गसहितशस्त्रेण’ इति स्यात् इत्यतो मध्यमपदलोपी समासोऽय-मित्याह– दध्योदनादिवदिति ।। ‘दधिसहितम् ओदनं दध्योदनम्’ इतिवदित्यर्थः । वृत्तौ समासव्याख्यनरूपे विग्रहवाक्ये । प्रतीतार्थः असङ्गस्यैव शस्त्रत्वरूपः । तत्र जगद्वृक्षच्छेदने । कारणत्वोक्तेरिति ।। सबीजमुद्धृत्येति ।। अविद्यारूपबीजसाहित्येन विनाश्येत्यर्थः । सबीजोद्धारे हि न पुनः वृक्षः प्ररोहतीति भावः । तस्यैकस्यैवेति ।। येन विमर्शः कृतस्तस्यैवेत्यर्थः । छेदे सबीजोद्धारे ।।

भावप्रकाशः

।। प्रमाणबाध इति ।। घटादिरूपजगद्वृक्षस्योपलब्धेरिति भावः । अत उक्तमिति ।। गीतायामिति शेषः । यथाशब्दपरामृश्यं दर्शयति– विकारि-त्वादिनेति ।। आदिपदेन नाशित्वग्रहः । ननु विष्णोर्जगन्नाशादिरूपत्वं कथमित्यत आह– संहर्तृत्वादेरिति ।। तत्कारणत्वात् तदैक्यव्यपदेश इति भावः । तर्हि साहित्यबोधार्थं समासे सहितशब्दप्रयोगः स्यादित्यत आह– दध्योदनादिवदिति ।। आदिपदेन गुडधानादिकं ग्राह्यम् । यथा ‘दध्योदन’ इत्यादौ दध्युपसिक्त ओदन इत्युपसेचनादिक्रिया समासीयाखण्डशक्त्या भातीति तद्वाचकशब्दाप्रयोगः तथा प्रकृतेऽपीत्यर्थः । इदं च पररीत्या । अन्यथा सुधायां तत्पुरुषस्य यौगिकत्वोक्तिविरोधादित्येके । अत एव ज्ञापकात् समासेऽखण्डशक्तिः । नच सुधाविरोधः । तस्य ‘राजपुरुषः’ इत्यादौ यत्र नापूर्वार्थभानं तन्मात्रविषयत्वादित्यन्यः । वस्तुतस्तु समासस्यासङ्गपदार्थे लक्षणया साहित्यस्यान्तर्भावादिति व्याख्याने न कश्चिद्दोष इति भाति ।। ३ ।।

Load More