सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ।। १५ ।।

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।

असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ।। १५ ।।

भाष्यम्

सर्वेन्द्रियाणि गुणांश्चाभासयतीति सर्वेन्द्रियगुणाभासम् । इन्द्रिय-वर्जितत्वाद्यर्थ उक्तः पुरस्तात् ।। १४ ।।

भावप्रदीपिका

सर्वेन्द्रिय... इत्येतद्व्याचष्टे– सर्वेति । सेन्द्रियं सगुणं ब्रह्म कथमिन्द्रयादिरहितमुच्यत इति । तत्राह– इन्द्रियेति ।

प्रमेयदीपिका

‘अहं परा शक्तिः यस्य’ इति व्याख्याने अर्थासम्भवं कश्चिद् अन्यथा प्राह । ‘ब्रह्मणः सर्वविशेषप्रतिषेधेनैवात्र विजिज्ञापयिषितत्वात् शक्तिमत्वप्रतिपादनं विरुद्धम्’ इति । तदसत् । अत्र विशेषत्त्वस्य दर्शनादिति भावेनाऽह– सर्वेति ।। गुणान् तद्विषयान् आभासयति प्रत्याययति प्रत्येतीति वा । भासतेः पचाद्यच् । एवं ‘सर्वतः पाणिपादं तत्’ ‘सर्वभृत्’ ‘गुणभोक्तृ च’ इत्यादिक-मप्युदाहार्यम् । कथं तर्हि ‘सर्वेन्द्रियविवर्जितम्’ ‘निर्गुणम्’ ‘अचरम्’ (१३.१६) इत्याद्युक्तमित्यत आह– इन्द्रियेति ।। आदिशब्दात् परं ‘शब्द’ इत्यध्याहार्यम् । पुरस्तात् द्वितीये ।। १४ ।।

भावबोधः

।। शब्देत्यध्याहार्यमिति ।। इन्द्रियवर्जितत्वप्रतिपादकशब्दस्य प्राकृतेन्द्रियराहित्यादिरूपोऽर्थ उक्तः, नत्विन्द्रियवर्जितत्वादिरूप इत्यर्थः ।। १५-१८ ।।

वाक्यार्थप्रदीपः

।। भासतेः पचाद्यचिति ।। तथाच गुणाभासमित्युपपन्नम् ।अन्यथा गुणाभाः इत्येव स्यादिति भावः ।।

भावरत्नकोशः

।। कश्चित् शङ्करः । तथा च तदीयं भाष्यम् ‘न त्वर्थः सम्भवति । ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञापयिषितत्वात् । ‘न सत् तन्नासदुच्यते’ इति विशिष्टशक्तिमत्त्वप्रदर्शनविशेषप्रतिषेधश्चेति विप्रतिषिद्धम्’ इति । तदिदं सङ्क्षिप्यानुवदति– ब्रह्मण इति ।। विजिज्ञापयिषितत्वात् विशेषेण ज्ञापयितुमिष्टत्वात् । ‘विषयान्वेत्ति’ इति तात्पर्यनिर्णयोक्तं हृदि कृत्वाऽऽह– गुणान् विषयानिति, प्रत्येतीति वेति च ।। पचाद्य-जिति ।। ‘प्रत्याययति’ इत्यर्थपक्षे आङ्पूर्वाद् हेतुमण्यन्ताद्भासतेः ‘नन्दिग्रहिपचादिभ्यो ल्युणिनि अचः’ इति सूत्रविहितः कर्तरि अच्प्रत्ययः । प्रत्येति इत्यर्थे तु स्वार्थे ण्यन्तात् । उभयत्रापि ‘णेरनिटि’ इति णिलोप इति भावः । इत्यादिकमिति ।। अत्रादिशब्देन ‘भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च’ इत्यादिगुणावेदकवाक्यग्रहः । तर्हि यदि सविशेषत्व-मभिसन्धित्सितम्, तर्हि । नन्विन्द्रियवर्जितत्वादेः अशब्दत्वेनार्थाबोधकत्वादाह– शब्देत्य-ध्याहार्यमिति ।। ‘इन्द्रियवर्जितम्’, ‘निर्गुणम्’ ‘अचरम्’ इत्यादिरूपस्येन्द्रियविवर्जितत्वादि-प्रतिपादकशब्दस्य प्राकृतेन्द्रियवर्जितत्वादिरूपोऽर्थः । ‘वदन्ति च लौकिकवैलक्षण्ये अभाव-शब्दम्’ इत्यादिना द्वितीयाध्याये उक्त इति नैतद्वचनजातं सविशेषत्वविरोधीति भाव इत्यभिसन्धिः ।। १४ ।।

 गीताक्षरार्थस्तु– अपि च सर्वेन्द्रियगुणाभासम् इन्द्रियाणि गुणाः विषयाश्च इन्द्रियगुणाः, सर्वे च ते इन्द्रियगुणाश्च सर्वेन्द्रियगुणाः । सर्वाणि इन्द्रियाणि, सर्वांश्च गुणान् विषयान् आभासयति प्रत्याययति प्रत्येति वेति, भासतेः पचाद्यच् सर्वेन्द्रियगुणाभासम् । प्राकृतैर्भिन्नैर्वा इन्द्रियैर्विहीनत्वात् सर्वेन्द्रियविवर्जितम् । सर्वं बिभर्तीति सर्वभृत् । सर्वभृदपि असक्तं निर्लेपम् । निर्गतं गुणेभ्यः सत्त्वादिभ्य इति निर्गुणम् । गुणभोक्तृ शुभसाराणां भोक्तृ च ।। १५ ।।

भावदीपिका

।। भासतेरिति ।। भासधातोः ‘नन्दिग्रहि’ इत्यादिना कर्त्रर्थकपचाद्यच्प्रत्यये ‘भास’ इत्यकारान्तः साधुरित्यर्थः । एवं सविशेषत्वप्रतिपादनपरतया । कथं तर्हीत्यादि ।। सर्वतः पाणिपादादिमतः सर्वेन्द्रियवर्जितत्वाचरत्वयोः, गुणभोक्तुः निर्गुण-त्वस्य चायोगादिति भावः । इन्द्रियवर्जितत्वादिरूपार्थस्यानुक्तेराह–शब्देतीति ।। द्वितीय इति ।। ‘वदन्ति च लौकिकाद्वैलक्षण्येऽभावशब्दम् इत्यादिनेत्यर्थः ।। १५ ।।

भावप्रकाशः

।। पचाद्यजिति ।। आद्यपक्षे आङ्पूर्वाद्धेतुमण्ण्यन्ताद्भासतेः पचाद्यच् । द्वितीये स्वार्थे ण्यन्तात् । उभयत्रापि ‘णेरनिटि’ इति णिलोप इति बोध्यम् । गुणभोक्तृ चेत्यादिकमिति ।। आदिपदेन ‘ग्रसिष्णु प्रभविष्णु च’ इत्यादिसङ्ग्रहः । कथं तर्हीति ।। सर्वेन्द्रियवर्जितत्वस्य ‘सर्वतःपाणिपादम्’ इत्यादिना निर्गुणत्वस्य ‘सर्वभूत’ इत्यादिगुणोक्त्या ‘चरगतिभक्षणयोः’ इति धातोर्भक्षणादिशून्यत्वरूपस्याचरत्वस्य ‘गुणभोक्तृ च’ इत्यादिना विरोधादिति भावः । नन्विन्द्रियवर्जितत्वाद्यर्थ इत्यस्य कर्मधारयत्वे ‘उक्त’ इत्यनु-पपन्नम् । इन्द्रियवर्जितत्वादेः प्रागनभिधानात् षष्ठीसमासत्वे बाधः । अर्थस्य वाच्या-भावादित्यतोऽन्त्यमङ्गीकृत्याह– शब्देत्यध्याहार्यमिति ।। इन्द्रियवर्जितत्वादिप्रतिपादकशब्दस्य प्राकृतेन्द्रियवर्जितत्वादिरूपार्थ इत्यर्थः ।। १५ ।।