दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ।। ५१ ।।

अर्जुन उवाच–

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।

इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ।। ५१ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु विश्वरूपगोपनेन कृष्णरूपं दर्शयता भगवता आश्वासितोऽस्मि इत्युच्यते– अर्जुन उवाच– दृष्ट्वेदमिति ।। किञ्चिन्मनुष्यवद् दृश्यमानत्वाद् मानुषं सौम्यम् अक्रूरम् । ‘न जायते, अर्दयति संसारमिति च जनार्दनः’ इति पूर्वमेव भाष्यकृता जनार्दनशब्दो व्याख्यातः । सचेताः प्रसन्नचित्तः संवृत्त जातः अस्मि । प्रकृतिं स्वस्थतां गतः । ‘गत्यर्थाकर्मक’ इति कर्तरि क्तः । गतवानस्मि ।। ५१ ।।