भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ।। ४ ।।
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ।। ४ ।।
भाष्यम्
प्रतिज्ञातं ज्ञानमाह– भूमिरित्यादिना ।। महतोऽहङ्कार एवान्तर्भावः ।।
भावप्रदीपिका
उत्तरप्रघट्टकमवतारयति– प्रतिज्ञातमिति । नन्वादिकार्यं महत्तत्वं कुतो नोच्यते ? इत्यत आह– महत इति ।। ४ ।।
भावप्रकाशिका
‘रसोऽहम्’ इत्यतः प्राक्तनग्रन्थसन्दर्भमवतारयति– प्रतिज्ञातमिति ।। महतः किं कारणे प्रकृतावन्तर्भावः कार्ये वाऽहङ्कार इति संशये सत्याह– महत इति ।। ४ ।।
प्रमेयदीपिका
‘मनुष्याणाम्’ इतिवदुत्तरमप्यन्यार्थमिति प्रतीतिनिरासार्थं प्रतिज्ञातयोरुभयोः किमादावुच्यते? इत्यपेक्षायां चाह– प्रतिज्ञातमिति ।। असङ्गति-परिहारायानन्यार्थताज्ञापनाय च ज्ञानस्य प्राथम्ये हेतुसूचनाय च प्रतिज्ञातम् इत्युक्तम् । प्रतिज्ञातत्वेन सङ्गतं प्रतिज्ञातमेव । नतु तदर्थम् । प्राथम्येन प्रतिज्ञातम् । ‘रसोऽहम्’ इत्यतः प्राक्तनग्रन्थसङ्ग्रहाय आदिपदम् । महत्तत्वमत्र नोपात्तम् । तत् किं नास्त्येव ? इत्यत आह– महत इति ।। अहङ्कारे अहङ्कारशब्दार्थेऽन्तर्भावः । कार्यवाचिनाऽहङ्कारशब्देन कारणस्य महतोऽप्युपलक्षणमेव । न त्वभाव इत्यर्थः ।। ४ ।।
भावबोधः
ननु कार्ये कारणस्य कथमन्तर्भाव इत्यत आह– अहङ्कारशब्दार्थ इति ।। ननु तथाप्यनुपपत्तिः । अहङ्कारशब्दस्योभयवाचकत्वाभावादित्यत आह– कार्यवाचिनेति
।। ४ ।।
भावदीपः
प्राथम्ये हेतुसूचनं शेषोक्त्या व्यनक्ति– प्राथम्येन प्रतिज्ञातमिति ।।४।।
भावरत्नकोशः
।। इतिवदिति । ‘मनुष्याणाम्’ इति वचनं यथाऽऽदरजननार्थं तथा ‘भूमिरापः’ इत्याद्युत्तरमित्यर्थः । ‘इत्यपेक्षायां च’ इत्यत्र चशब्देन ‘यत्किञ्चिदिदं कथमुच्यते’ इत्यसङ्गतिशङ्कायां चेति समुच्चीयते । असङ्गतत्वमन्यार्थत्वं किमादावुच्यत इति च कृतशङ्कात्रयं तद् भाष्यारूढं परिहर्तुमाह– असङ्गतीति ।। हेत्वर्थगर्भं विशेषणमिति भावेनोक्तं– प्रतिज्ञातत्वेनेति । ‘सर्वं वाक्यं सावधारणम्’ इति भावेन एवशब्दं संयोज्य तद्व्यावर्त्यमाह– न तु तदर्थमिति ।। प्रतिज्ञातार्थवचनार्थम्, तच्छेषतया नात्रान्यदुच्यत इत्यर्थः । प्राथम्ये हेतुसूचनं शेषोक्त्या व्यनक्ति– प्राधान्येनेति । ‘सविज्ञानम्’ इत्युक्त्या विज्ञानस्याप्राधान्यलाभः । समासान्तर्वर्तितृतीयायाः ‘सहयुक्ते अप्रधाने’ इत्यप्राधान्ये विहितत्वात्, प्रथमोपस्थितावचने कारणाभावाच्चेति भावः ।
भाष्ये आदिपदेन सङ्ग्राह्यानुक्तौ ‘रसोऽहम्’ इत्याद्यपि ज्ञानप्रकरणमिति प्रतीतिः स्यात् । तथा च ‘रसोऽहमित्यादि विज्ञानम्’ इति भाष्यविरोध इत्यतः सङ्ग्राह्यमाह– रसोऽहमित्यत इति ।। महत्तत्त्वमेव नास्ति किमिति प्रश्ने, गर्वेऽन्तर्भावभाषणमननुरूपम् इत्यतो नैतद्गीतोक्ताहङ्कारशब्दार्थो गर्वः, किन्त्वहङ्कारतत्त्वमेव । तत्रान्तर्भावश्च तच्छब्दार्थतयोपादाने वचनवृत्त्यभावाच्च लक्षणा वक्तव्या । तत्र च कार्यकारणभाव एव सम्बन्धबीजमिति भावेनाह– अहङ्कार इत्यादि । यद्वा ‘महत्तत्त्वं किमिति नोपात्तम्’ इति चोद्यस्याहङ्कारान्तर्भावकथनेन कथं परिहार इत्यतोेऽहङ्कारशब्देन महतोऽपि ग्रहणमिति भाष्यभावं स्फोरयितुं तद्व्याचष्टे– अहङ्कारशब्दार्थ इति । तेन तद्ग्रहणमुप-पादयति– कार्यवाचिनेति । ‘महतोऽपि’ इत्यपिपदं न केवलमहङ्कारशब्दो अहङ्कारतत्त्वस्याभि-धायकः, किन्तु महत्तत्त्वस्योपलक्षकोऽपीति व्याख्येयम् । कृतप्रश्नपरिहारं दर्शयितुमुक्तम्– न त्वभाव इति ।। प्राचीनटीकायां तु ‘महतोऽहङ्कार एव’ इति भाष्यं महत्तत्त्वस्य किं कारणे प्रकृतावन्तर्भावः, कार्ये अहङ्कारे वेति संशये सत्याह’ इत्यवतारितम् ।। ४ ।।
गीताक्षरार्थस्तु- ‘माहात्म्यविशेषयुक्तं ज्ञानम्’ इति प्रतिज्ञातं ज्ञानमुच्यते भूमिरित्यादिना ‘रसोऽहम्’ इत्यतः प्राक्तनग्रन्थेन । अनलः अग्निः, खम् आकाशः, मनो बुद्धिश्च तत्त्वे, कार्यवाचिना अहङ्कारशब्देन तत्कारणं महत्तत्त्वमप्युपलक्ष्यत इत्येवमष्टधा भिन्ना प्रकृतिर्मे मदधीना । मत्प्रेरिता प्रकृतिरेव पृथिव्यादिकार्यभावमापन्नाऽस्तीति प्रकृतिपे्ररकत्वादिमाहात्म्योक्तिः ।। ४ ।।
भावदीपिका
।। अन्यार्थं दौर्लभ्यार्थम् ।। अनन्यार्थतां प्राधान्यम् । प्राथम्ये प्रथमतो निरूपणे । असङ्गतिपरिहारः कथमित्यत आह– प्रतिज्ञातत्वेनेति ।। कथमनन्यार्थ-ताज्ञापनमित्यत आह– प्रतिज्ञातमेवेति ।। न तु तदर्थमिति ।। ‘अन्यत् किञ्चिदवाप्यते’
इति शेषः । प्राथम्ये कथं हेतुसूचनमित्यतः ‘प्राथम्येन’ इति पदाध्याहारेण तत्सिद्धिरिति भावेनाह– प्राथम्येनेति ।। ‘ज्ञानं तेऽहम्’ इति प्राथम्येन प्रतिज्ञातत्वात् प्रथमतो निरूपणमिति भावः । ‘प्राधान्येन’ इत्यपि क्वचित्पाठः । तत्र ‘सविज्ञानम्’ इति विज्ञानस्य साहित्योक्त्याऽप्राधान्यप्राप्तौ ज्ञानस्य प्राधान्यं सिद्ध्यतीति भावः । ननु कारणस्य कार्ये कथमन्तर्भाव इत्यत आह– अहङ्कारशब्दार्थ इति ।। ननु तथाऽप्यनुपपत्तिः, अहङ्कारशब्दस्योभयवाचकत्वाभावादित्यत आह– कार्यवाचिनेति ।। ४ ।।
भावप्रकाशः
ननु कार्ये कारणस्य कथमन्तर्भाव इत्यत आह– अहङ्कारशब्दार्थ इति ।। ननु तथाऽप्यनुपपत्तिः । अहङ्कारशब्दस्योभयावाचकत्वादित्यत आह– कार्यवाचिनेति
।। ४ ।।