तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ।। २४ ।।

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ।। २४ ।।

ओं तत्सदिति श्रीमगद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पत्ति(सम्पद्विभाग)योगो नाम षोडशोऽध्यायः ।। १६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु तस्मादिति ।। यस्माच्छास्त्रविहितधर्मानुष्ठाने ज्ञानादिश्रेयःप्राप्तिः तदतिक्रमे नैहिकपारत्रिकसुखप्राप्तिः, तस्माद् ‘इदं कार्यम्’ ‘इदमकार्यम्’ इत्यस्यां व्यवस्थितौ व्यवस्थायां शास्त्रं श्रुतिस्मृतिइतिहासपुराणादिरूपं ते तव प्रमाणं प्रमितिजनकम् । अतः शास्त्रविधानोक्तं शास्त्रस्य विधानं ‘कुर्यात्’ ‘न कुर्यात्’ इत्येवं रूपं नियोजनं तेनोक्तं प्रमापितं ज्ञात्वा इह कर्माधिकारवर्गे स्थितः त्वं कर्म भगवत्प्राप्त्युद्देश्यकं स्वयं कर्तृत्वाध्यवसायहीनं कर्तुमर्हसि । तन्मूलत्वात् सत्त्वशुद्धितत्त्वज्ञानभक्तिमुक्तीनामिति ।। २४ ।।

आर्यस्वान्ताम्भोजहंसायमानौ संसाराम्भोराशिनावौ समानौ ।

भूयास्तां तौ भूतये भूरिमानौ वेदव्यासानन्दतीर्थाभिधानौ ।।

नमस्ते नमस्ते नमस्ते दयालो नमस्ते नमस्ते नमः श्रीनृसिंह ।

नमस्ते नमस्ते नमस्ते मुरारे नमस्ते नमस्ते नमो व्यास राम ।।

।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सुरेन्द्रतीर्थपूज्यपादशिष्यसुमतीन्द्रतीर्थविरचितायां प्रमेयदीपिकाव्याख्यायां भावरत्नकोशसमाख्यायां षोडशोऽध्यायः ।।