योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।। ४८ ।।
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।। ४८ ।।
भाष्यम्
पूर्वश्लोकोक्तं स्पष्टयति– योगस्थ इति ।। योगस्थः उपायस्थः । सङ्गं फलस्नेहं त्यक्त्वा । तत एव सिद्ध्यसिद्ध्योः समो भूत्वा । स एव च मयोक्तो योगः ।। ४८ ।।
भावप्रकाशिका
ननु मा भूद् विधितः फलेच्छा । तथाऽपि स्नेहादेव तदिच्छति । तत्कथमसौ कर्मफलहेतुर्न स्यात्? इत्याशङ्कापरिहारत्वेनोत्तरं श्लोकमवतार्य व्याचष्टे– पूर्वश्लोकोक्तमिति ।। फलेच्छाविध्य-योगादितरफलोद्देशं विनैव कर्म कुर्वन्नेव मत्प्रसादायेत्युक्तं पूर्वत्र । तदेवमधुना स्पष्टयति । यदि फलस्नेहो न स्यात् तर्हि तत्सिद्धावसिद्धौ च समः पुमान् । समत्वमेव भगवत्प्रसादद्वारा ज्ञानो-पायः । अतस्तस्मिन्नुपाये मनःकृत्वा विहितानि कर्माणि कुर्वन्नेव फलस्नेहं त्यक्त्वेति ।। ४८ ।।
प्रमेयदीपिका
‘कर्मण्येव’ इत्यनेन ‘योगस्थः’ इत्यस्य गतार्थतापरिहारार्थमाह– पूर्वेति ।। निष्कामतादि- विशिष्टानि कर्माण्येव योगः । अतो ‘योगस्थः’ इत्यनेनैव लब्धं पुनः ‘कुरु कर्माणि’ इति किमर्थमुच्यते? इत्यत आह– योगस्थ इति ।। ज्ञानोपायमनुतिष्ठन् इत्यर्थः ।। ‘कर्मसम्बन्धं त्यक्त्वा कर्माणि कुरु’ इत्येद्व्याहतमित्यत आह– सङ्गमिति ।।
‘ईश्वरो मे प्रसीदतु’ इत्यभिसन्धिमपि ‘त्यक्त्वा’ इति व्याख्यानं पूर्वेणैव निरस्तम् । ‘तत एव’ इति परामर्शसौकर्याय ‘त्यक्त्वा’ इत्यनुवादः कृतः ।‘सङ्गं त्यक्त्वा’,‘सिद्ध्यसिद्ध्योः समो भूत्वा’ इति द्वयमुक्त्वा ‘समत्वं योग उच्यते’ इत्येकस्यैव ग्रहणमयुक्तम् । तथा सति सङ्गत्यागस्यायोगत्वप्रसङ्गादित्यत आह– तत एवेति ।। सङ्गत्यागादेव । एतयोः कार्यकारण-भावात् कार्ये गृहीते कारणमर्थाद् गृहीतमेवेति भावः । ननु समत्वयोगयोर्भेदः केन शङ्कितः? येन ‘समत्वं योग उच्यते’ इति तयोरैक्यमुच्यत इत्यत आह– स एवेति ।। ‘योगस्थः’ इत्युक्ते को योगः? इत्यपेक्षायां भगवता ‘सङ्गं त्यक्त्वा’, ‘सिद्ध्यसिद्ध्योः समो भूत्वा’ इति योगो व्याख्यातः । मन्दास्तु पृथगेव एते विशेषणे कल्पयिष्यन्तीति तदनुजिघृक्षयेदमुदितमिति भावः । स एव ‘यत् समत्वम्’ इति शेषः । योगैकदेशे योगशब्दः ।। ४८ ।।
भावबोधः
पूर्वेणेति ।। ‘इच्छा च तस्य’ इत्यादिनेत्यर्थः । ‘सङ्गपदस्यैव व्याख्येयत्वात् ‘त्यक्त्वा’ इति किमर्थं गीतापदानुवाद इत्यत आह– तत एवेतीति ।। अन्यथा सङ्गत्यागादेवेति वक्तव्यम् । तच्च शब्दतो गुर्विति भावः । मन्दास्त्विति ।। सङ्गत्यागसमभवनयोरेव योगत्वेन योगस्थः सङ्गं त्यक्तवा, ‘सिद्ध्यसिद्ध्योः समो भूत्वा इत्यनेन पुनरुक्तिपरिहाराय व्याख्यान-व्याख्येयभावाश्रयणे सङ्गत्याग समभवनयोः योगत्वं सुमतीनां सिद्धमेवेत्यतो मन्दा इत्युक्तम् । पृथगेवेति ।। योगस्थत्वरूपविशेषणापेक्षया पृथगेवैते सङ्गत्यागसमभवने इत्यर्थः । ‘त्यक्त्वा’ इति क्त्वाप्रत्ययेन समभवनापेक्षया फलतत्स्नेहत्यागस्य पूर्वकालीनत्वप्रतीत्या कार्यकारणभाव-सिद्धौ ए(न) तयोः पृथग्विशेषणत्वं बुद्धिमन्तः कल्पयिष्यन्तीति भावः । यत्समत्वमिति ।। ‘शैत्यं हि यत्सा प्रकृतिर्हिमस्य’ इतिवदिदं ज्ञातव्यम् । नन्वङ्गिनः कर्मकरणस्यैवानुक्तेः कथं स एव’ इत्युक्तमित्यत आह– योगैकदेश इति ।। ४८ ।।
भावदीपः
पूर्वेणैवेति ।। ‘इच्छा च तस्य युक्ता’ इत्यादिग्रन्थेनैवेत्यर्थः । ‘यतः’ इत्याद्यागमसत्वेपि तस्य प्रत्येकमेव योगविशेषणे व्यावर्तके इत्यर्थः ।। इदमिति ।। ‘समत्वं योगः’ इत्येतदित्यर्थः ।। यद्वा– कर्म कुर्वतो योगस्थत्वमिव सङ्गत्यागसमत्वेऽपि तस्य विशेषणे एव, न तु योग-शब्दार्थोक्तिपरे इति कल्पयिष्यन्तीति मन्दानुग्रहेच्छायेदमुक्तमित्यर्थः ।। तर्हि सङ्गत्यागविशिष्टं समत्वमिति वाच्यमित्यत आह– योगैकदेश इति ।। यद्वा– निवृत्तकर्मण एव ज्ञानोपायत्वेन योगत्वात् त्यागसमत्वयोः तदेकदेशत्वात् कथं समत्वम्? अर्थाद् गृहीत(सङ्ग)त्यागत्वयोग इत्युक्तिरित्यतो वा भगवद्भक्तेरपि योगत्वाद्वा आह– योगैकदेश इति ।। ४८ ।।
वाक्यार्थप्रदीपः
स एव यत्समत्वमिति शेष इति ।। उद्विश्यमानप्रतिदृश्यमानयोः ऐक्यमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गानि भवन्तीति परिभाषेयं नाधिकार इति गुणवृद्धिसूत्रे पदमञ्जर्या-मुक्तत्वात् योगशब्दाभिप्रायेण स एवेति पुंलिङ्गप्रयोग इति भावः ।।
भावरत्नकोशः
गतार्थतेति ।। उपायस्थः ज्ञानोपायभूतं कर्माधिकुर्वन् इत्यस्य ‘कर्मण्येव अधिकारः’ इत्यनेन अर्थातिशयाभावादिति भावः । ‘परिहारायार्थमाह–’ इति पाठे परिहारायेत्यनन्तर-मवतारं वदन्निति शेषः । फलाभिसन्धिं विना मत्प्रसादाद्युद्देशेनैव कर्म कुर्विति ‘कर्मण्येव’ इति पूर्वश्लोके यदुक्तं तदेवानेन ‘योगस्थः’ इति श्लोकेन स्पष्टयतीति भाष्यार्थः स्पष्टत्वान्नोक्तः । ‘निष्कामतादि’ इत्यादिशब्देन फलसिद्ध्यसिद्ध्योः समत्वस्येश्वरार्पणस्य च ग्रहः । योगस्य पुरुषं प्रत्यधिकरणत्वाभावात् तात्पर्यमाह– ज्ञानोपायमिति ।। योगशब्दस्योपायमात्रार्थत्वेऽपि ज्ञानस्य योग्यतया सम्बन्ध इति भावेन ज्ञानोपायमित्युक्तम् । ‘कुरु कर्माणि’ इति ‘सङ्गं त्यक्तवा’ इति कर्मणां सन्निधानात् सङ्गशब्दितसम्बन्धप्रतियोगित्वमिति मन्यमान आह– कर्म-सम्बन्धमिति ।।
‘त्यक्तवा कर्मफलासङ्गम्’ इत्यादौ फलसङ्गस्यैव त्याज्यत्वावेदनादत्रापि सङ्गशब्देन फलस्नेह एव ग्राह्य इति भाष्ये फलेत्युक्तमिति भावः । तत्रापीश्वरो मे तुष्यत्विति सङ्गं त्यक्त-वेति शङ्करभाष्यमनुवदति– ईश्वर इति ।। पूर्वेणैव ‘इच्छा च तस्य युक्ता’ इति भगवत्प्रसाद-कामनायाः कर्तव्यताप्रतिपादनेनैवेत्यर्थः । त्यक्त्वेति गीतापदं भाष्ये किमित्यव्याख्यायानूद्यत इत्यतस्तत्तात्पर्यमाह– तत एवेति ।। एकस्यैव समत्वस्यैव । तथा सति समत्वस्यैकस्यैव ग्रहणे सति । एतयोः समत्वसङ्गत्यागयोः । कार्ये समत्वे । कारणं सङ्गत्यागः । को योगः ज्ञानोपायः क इत्यपेक्षायामित्यर्थः । मयेत्यस्यार्थो भगवतेति ।। मन्दास्त्विति ।। ‘योगस्थः’ इति व्याख्येयं पदम् । ‘सङ्गं त्यक्तवा’, ‘सिद्ध्यसिद्ध्योस्समो भूत्वा’ इति पदद्वयं तद्व्याख्यानमिति वक्तव्यम् । अन्यथा सङ्गत्यागसमभवनयोर्योगत्वेन पुनरुक्त्यापत्तेरिति पर्यालोचने सङ्गत्याग-समभवनयोर्योगत्वं प्रेक्षावतां सिद्धमेव इत्यतो ‘मन्दाः’ इत्युक्तम् । पृथगेवेति ।। योगस्थत्वं कर्म कुर्वतो यद् विशेषणं तस्मादिति शेषः । एते सङ्गत्यागसमभवने योगस्थत्वादन्ये एव विशेषणे कर्म कुर्वत इति कल्पयिष्यन्तीत्यर्थः । इदं ‘समत्वं योग उच्यते’ इत्येतत् । यत् समत्वमिति ।। ‘सा वैश्वदेव्यामिक्षा’ इतिवदिदं ज्ञातव्यम् ।
ननु निष्कामतादिविशिष्टकर्माण्येव योगः । सङ्गत्यागसमभवने तु तदेकदेशभूते । अतः कथं ‘समत्वं योग उच्यते’ इत्यत्र यत् समत्वमिति स एव योग इत्युक्तिरित्यत आह– योगैकदेश इति ।। ‘योगस्थः’ इत्यत्र योगो नाम क इत्यपेक्षायां सङ्गत्यागसमभवने एव योगशब्दार्थत्वेनात्र विवक्षिते । न तु विशेष्यभूतकर्माण्यपि । तथा च ‘योगस्थः योगैकदेशसङ्गत्यागसमभवन-निष्ठस्सन् कर्माणि कुरु’ इति भगवतोऽभिसन्धिरिति भाष्याभिप्राय इति भावः । अनेन ‘योगस्थः कुरु कर्माणि’ इति किमर्थमुच्यत इति कृतचोद्यं परिहृतं भवति । यत्तु ‘योगो हि सङ्गत्यागसमभवनरूपतया भगवतैव व्याख्यात इत्युक्तम् । तत्र द्वयं योग उच्यत इति वक्तव्ये समत्वं योग इति कथमुच्यत इत्यत आह– ‘योगैकदेश इति’ इत्यवतारणं, तत्तु ‘कार्ये गृहीते कारणमर्थाद् गृहीतम्’ इति टीकाननुगुणम् ।।
गीताक्षरार्थस्तु– कर्मण्येवेत्यनेनोक्तं स्पष्टीक्रियते– योगस्थ इति ।। योग उपायः । ज्ञानोपायमनुतिष्ठन् सङ्गं फलस्नेहं त्यक्तवा तत एव फलरागत्यागत एव सिद्ध्यसिद्ध्योः स्वर्गादिफलप्राप्त्यप्राप्त्योः समः उन्नाहमनुन्नाहं चाप्राप्नुवन् केवलमीश्वरप्रसादाय कर्माणि स्वविहितधर्मान् कुरु । ‘योगस्थः’ इत्युक्ते को योग इत्यपेक्षायां भगवता ‘सङ्गं त्यक्तवा सिद्ध्यसिद्ध्योस्समो भूत्वा’ इति योगो व्याख्यातः । मन्दास्तु पृथगेवैते विशेषणे कल्पयिष्य-न्तीति तदनुजिघृक्षयेदमुच्यते– समत्वमिति ।। कार्ये गृहीते कारणमर्थाद् गृहीतमेवेति त्याग-हेतुकसमभवनमेव योग उच्यते ज्ञानिभिरिति ।। ४८ ।।
भावदीपिका
।। कर्माण्येव योग इति ।। तं कुर्वाणो योगस्थ इत्युच्यत इति शेषः ।। लब्धमिति ।। पूर्वश्लोकोक्तस्पष्टनं लब्धमित्यर्थः ।। पूर्वमेवेति ।। इच्छा च तस्य युक्ता इत्यादिना भगव-त्प्रसादकामनायाः कर्तव्यताप्रतिपादनादित्यर्थः । ननु त्यक्त्वेत्यस्य व्याख्यानाभावात् किमर्थं भाष्ये तदनुवाद इत्यत आह– तत एवेतीति ।। अन्यथा सङ्गत्यागादेवेति वक्तव्यत्वप्राप्त्या गौरवापत्तेरिति भावः । तथा सति एकस्य ग्रहणे सति । एतयोः समत्वसङ्गत्यागयोः ।। को योग इति ।। ज्ञानोपायः क इत्यर्थः ।। पृथगेव त इति ।। सङ्गत्यागः समभवनं च योगस्थत्व-रूपविशेषणापेक्षया पृथक् स्वतन्त्रं विशेषणान्तरमेव, नतु योगस्वरूपव्याख्यानरूपमिति मन्दाः कल्पयिष्यन्तीत्यर्थः । सङ्गत्यागसमभवनयारेेव वस्तुगत्या योगत्वाद् ‘योगस्थः सङ्गं त्यक्त्वा’, ‘सिद्ध्यसिद्ध्योः समो भूत्वा’ इत्यनयोः पुनरुक्तिपरिहाराय व्याख्यानव्याख्येयभावाश्रयणे सङ्गत्यागसमभवनयोर्योगत्वं सुमतयः कल्पयिष्यन्तीति सिद्धत्वान्मन्दा इत्युक्तम् । यत् समत्वं स एवेति ‘शैत्यं हि यत् सा प्रकृतिर्जलस्य’ इतिवद् द्रष्टव्यम् । ननु निष्कामनादिविशिष्ट-कर्मकरणस्यैव ज्ञानोपायरूपयोगत्वादत्र च सङ्गत्यागसमभवनयोरेवोक्तत्वेनाङ्गिनः कर्मकरण-स्यानुक्तेः कथं स एवेत्युक्तमित्यत आह– योगैकदेश इति ।। ४८ ।।
भावप्रकाशः
उपायस्याधिकरणत्वाभावादाह– ज्ञानोपायमिति ।। पूर्वेणैवेति ।। इच्छा च तस्य युक्ते-त्यादिनेत्यर्थः । सङ्गशब्दव्याख्यानार्थं फलस्नेहमित्येव वक्तव्ये यत्त्यक्त्वेत्यधिकमुक्तं तस्य कृत्यमाह– तत एवेतीति ।। अन्यथा तत एवेत्यनेन भाष्योक्तपरामर्शायोगाद्गीतोक्तसङ्गत्या-परामर्शे कार्ये परामर्शस्यायाससाध्यत्वं स्यादिति भावः । त्यागमात्रपरामर्शे यत्किञ्चित्त्याग-स्यापि समभवनहेतुत्वं भाति तच्चायुक्तम् अननुभवादित्यत आह– सङ्गत्यागादेवेति ।। मन्दा-स्त्विति ।। सङ्गं त्यक्त्वा सिद्ध्यसिद्ध्योः समो भूत्वा कर्माणि कुर्वित्युक्ते सङ्गत्यागसमभवनयोः कर्माङ्गत्वं ज्ञायते क्त्वाप्रत्ययात् । कर्माङ्गस्य च योगत्वं सुमतीनां सिद्धमेवेत्यतो मन्दा इत्युक्तम् । यद्वा योगस्थ इति व्याख्येयम् । सङ्गं त्यक्त्वा सिद्ध्यसिद्ध्योः समो भूत्वेति तद्व्याख्यानम् अन्यथा सङ्गत्यागसमभवनयोर्योगविशेषत्वेन पुनरुक्तेः इति पर्यालोचने सङ्गत्यागसमभवनयोः योगत्वं सुमतीनां सिद्धमेवेत्यतो मन्दा इत्युक्तम् । पृथगेवेति ।। योगस्थत्वविशेषणादिति शेषः ।। एते ।। सङ्गत्यागसमभवने । तथा च सङ्गत्यागादिकं नाङ्गं नाप्यङ्गि किन्तु योगादन्यदेवेति कल्पयिष्यन्तीत्यर्थः । यत्समत्वमिति ।। शैत्यं हि यत् सा प्रकृतिर्जलस्येत्यादिवदिदं ज्ञातव्यम् । ननु निष्कामतादिविशिष्टकर्मैव योगः । तत्राङ्गिनः कर्मणः सङ्कल्पत्यागादेरङ्गान्तरस्य चानुक्तेः कथं स एवेत्युक्तमित्यत आह– योगैकदेश इति ।। ४८ ।।
।। इति श्रीमद्भगवद्गीतायामष्टचत्वारिंशः श्लोकः समाप्तः ।।
।। श्रीकृष्णार्पणमस्तु ।।
।। श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मीहयग्रीवाय नमः ।।
श्रीश्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं