मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ।। ३४ ।।

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।

कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ।। ३४ ।।

भावरत्नकोशः

मृत्युरिति ।। सर्वहरो मृत्युश्च भविष्यताम् उत्पत्स्यमानानाम् उद्भवः उत्पत्तिः, भविष्यतां भाविकल्याणानां प्राणिनाम् उद्भवः उदयः अहम् अस्मीति । नारीणां मध्ये कीर्तिः श्रीः इत्यादयः सप्त देवतारूपस्त्रियोऽप्यहमेव ।। ३४ ।।