रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ।। ६४ ।।

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ।। ६४ ।।

भाष्यम्

इन्द्रियजयफलमाहोत्तराभ्यां श्लोकाभ्याम् ।।

भावप्रदीपिका

नन्वेवं रागादिजये किं फलम् ? इत्याशङ्कोत्तरत्वेनोत्तर-श्लोकद्वयमवतार्य व्याचष्टे– इन्द्रियेति ।। रागादिजयादिन्द्रियजयाख्यं फलमाद्यश्लोके । इन्द्रियजयस्य फलं द्वितीय इति ज्ञेयम् ।

भावप्रकाशिका

रागादिदोषपरिहारस्य किं फलम् ? इत्याकाङ्क्षोत्तर-त्वेनोत्तरश्लोकमवतार्य व्याचष्टे– इन्द्रियजयफलमिति ।। इन्द्रियजयाख्यं फलं इन्द्रिय-जयस्य फलमिति च । तत्र रागद्वेषपरिहारस्येन्द्रियजयाख्यं फलं प्रथमश्लोकेनाह । इन्द्रिय-जयस्य फलं सर्वदुःखहानिं द्वितीयेन ।। ६४ ।।

प्रमेयदीपिका

‘रागद्वेष’इति श्लोकद्वयस्य तात्पर्यमाह– इन्द्रियेति ।। इन्द्रियजयश्च तत्फलं च इन्द्रियजयफलम् । इन्द्रियजयस्य फलं इन्द्रियजयफलम् । अस्त्वेवं रागद्वेषपरिहारः । ततः किम् ? इत्याकाङ्क्षायां रागद्वेषपरिहारस्येन्द्रियजयाख्यं फलमाह– इन्द्रियजयेन किं भवति? ‘वशे हि यस्येन्द्रियाणि’इति ज्ञानं भवतीत्युक्तमिति चेत्–  सत्यम् । तत्किं साक्षादिन्द्रियजयफलम्? उत व्यवहितम्? इत्याकाङ्क्षायामिन्द्रियजयस्य फलं ज्ञानं यथा भवति तथाऽऽहेत्यर्थः ।।

भावबोधः

‘आत्मवश्यैर्विधेयात्मा’ इति तृतीयपादे रागद्वेषपरिहार-फलस्येन्द्रियजयस्य तदुत्तरपादपञ्चकेन प्रसादादेरिन्द्रियजयसाध्यस्योक्तेः तदनुरोधेन भाष्यं द्वेधा व्याचष्टे – इन्द्रियजयश्च तदित्यादिना ।। इन्द्रियजयस्य फलं ज्ञानं यथा भवतीति ।। यथा येन प्रकारेण मनःप्रसादद्वारेणेति यावत् । तथा तं प्रकारं ज्ञानस्य मनःप्रसादद्वारेन्द्रिय-जन्यत्वरूपं प्रसादमधिगच्छति । ‘प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठति’ इत्येनेन आह इत्यर्थः । तथा च ‘वशे हि’ इत्युक्तविवरणरूपत्वान्न पुनरुक्ततेति भावः ।

भावदीपः

‘यदा’ इत्यस्य प्रतिसम्बन्ध्युक्त्या अर्थोक्तिः तदा दोषादृष्टेः इति । गीतायां पूर्वोत्तरभागोक्तार्थानुरोधेन भाष्यस्यापि द्वेधाऽर्थमाह– इन्द्रियजयश्च तदिति ।। कर्मधारयतत्पुरुषयोः तन्त्रेणायं निर्देशो भाष्य इति भावः ।। इन्द्रियजयाख्यफलोक्ताववसर-सङ्गतिमाह– अस्त्वेवमिति ।। उत्तरार्धे इन्द्रियजयस्य फलोक्तेरप्याकाङ्क्षालक्षणसङ्गतिमाह– इन्द्रियजयेन किमिति ।। ‘फलम्’ इत्यनुषङ्गः ।। किं फलंं भवतीति पृष्टे ‘वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा’ (२.६१) इति प्रागुक्तज्ञानरूपफलमाशङ्क्य तदङ्गीकारेण स्वप्रश्नाभिप्रायं विविच्याऽह– ‘वशे हि’ इत्यादिना ‘इति’ इत्यन्तेन ।। यथेति ।। येन प्रकारेण मनःप्रसादद्वारा भवति तथाऽह इत्यर्थः । तथा चेन्द्रियजयेन ज्ञानोदयप्रकारोक्ति-परत्वादस्य ‘वशे हि’ इत्यनेन न गतार्थतेति भावः ।।

भावरत्नकोशः

‘रागद्वेष’ इत्यादि त्रिपाद्या रागद्वेषपरिहारस्येन्द्रियजयाख्यं फलमुच्यते । ‘प्रसादमधिगच्छति’ इत्यादिना चेन्द्रियजयस्य फलम् । अतस्तदुभयानुरोधेन भाष्यं द्वेधा व्याचष्टे– इन्द्रियजयश्च तत्फलमित्यादिना ।।

भावदीपिका

‘आत्मवश्यैर्विधेयात्मा’ इति तृतीयपादेन रागद्वेषपरिहार-फलस्येन्द्रियजयस्य तदुत्तरपादपञ्चकेन प्रसादादेरिन्द्रियजयसाध्यत्वस्य चोक्तेस्तदनुरोधेन भाष्यं द्वेधा व्याचष्टे – इन्द्रियजयश्च तदित्यादिना ।। उक्तमितीति ।। ‘वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता’ इत्युक्तत्वादिति भावः ।। यथा भवति तथाऽऽहेति ।। यथा येन प्रकारेण, मनःप्रसादद्वारेणेति यावत्, तथा तं प्रकारं ज्ञानस्य मनप्रसादद्वारेन्द्रियजयजन्यत्वरूपं ‘प्रसाद-मधिगच्छति । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठति’ इत्यनेनाऽहेत्यर्थः । तथाच ‘वशे हि’ इत्युक्तविवरणरूपत्वान्न पुनरुक्तिरिति भावः ।।

भावप्रकाशः

 ‘आत्मवश्यैर्विधेयात्मा ’ इत्यन्तेन रागद्वेषपरिहारस्येन्द्रिय-जयाख्यं फलमुच्यते ‘प्रसादमधिगच्छति’ इत्यादिना चेन्द्रियजयस्य फलम् । अतस्त-दुभयानुगुण्याय व्याचष्टे– इन्द्रियजयश्च तदित्यादिना ।।

Load More