इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः।। १२ ।। यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्।। १३ ।। अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः।। १४ ।।
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः।। १२ ।।
यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्।। १३ ।।
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः।। १४ ।।
भाष्यम्
हेत्वन्तरमाह– अन्नादिति ।। यज्ञः पर्जन्यान्नत्वात् तत्कारणमुच्यते । पूर्वयज्ञविवक्षायां तस्य चक्रप्रवेशो न भवति । तद्धि आपाद्यं कर्मविधये । नतु साम्यमात्रेणेदानीं कार्यम् ।।
भावप्रदीपिका
उत्तरप्रघट्टकं तत्रोदाहरति– हेत्वन्तरमिति ।। यज्ञोद्देश्य-पर्जन्यस्य कथं यज्ञादुद्भवः ? इत्यत आह– यज्ञ इति ।। पर्जन्यपदप्रापकयज्ञोऽत्र तत्कारणतयोच्यते इति किं न स्यात् ? इत्यत आह– पूर्वेति ।। तदा तस्य चक्रप्रवेश आसीदेवेत्यत आह–तद्धीति ।। तच्च कर्मविध्युपयोगितयैवापाद्यम् । न त्वितिहासरूपेण कथने कर्मविधिर्भवतीत्यर्थः । पर्जन्यकृतकर्मणा चक्रप्रवेशो जातः । अतस्त्वयाऽपि कर्म कार्यमिति कर्मविध्युपयोग इत्यत आह– नत्विति ।। पर्जन्यकर्मण एव चक्रप्रवर्तकत्वे नेदानीं कर्म कार्यम् । न हीष्टानिष्टप्राप्तिपरिहारसाधनतावबोधं विना कर्मतामात्रेण कर्मणि प्रवृत्तिरित्यर्थः ।।
भावप्रकाशिका
तस्मिन्नेवार्थे तदुत्तरं प्रघट्टकमवतारयति– हेत्वन्तर-मिति ।। ननु पूर्वसिद्धदेवताया एव यज्ञोद्देश्यत्वात् कथं यज्ञात् पर्जन्यो भवति ? इत्यत आह– यज्ञ इति ।। आहुतिरूपत्वात् तदन्नत्वात् तत्कारणमुच्यते । न तु तज्जनकत्वा-दित्यर्थः । ननु पर्जन्यपदप्रापकतत्कृतपूर्वयज्ञविवक्षया ‘यज्ञाद्भवति पर्जन्यः’ इत्याद्युक्तिः किं न स्यात् ? इत्यत आह– पूर्वेति ।। न ह्यर्जुनादिभिः सर्वै पर्जन्यपदप्रापकयज्ञः क्रियते । अतस्तस्य चक्रप्रवेशाभावप्रसङ्गात् नासौ ‘यज्ञाद्भवति पर्जन्यः’ इत्यत्र विवक्षित इत्यर्थः । ननु यज्ञत्वेन पर्जन्यपदकारणतत्कृतपूर्वयज्ञसमानजातीयत्वादिदानीन्तनसर्वपुरुषानुष्ठेय-यज्ञस्य सामान्यतः, स चक्रप्रविष्टः किं न स्यात् ? इत्यत आह– तद्धीति ।। तच्चक्रं कर्मविध्युपयोग्येवापाद्यम् । नतु पर्जन्यपदकारणस्यार्जुनाद्यनुष्ठेययज्ञत्वसाम्यमात्रेणेदानीं चक्रमापाद्यम् । अर्जुनाद्यनुष्ठितयज्ञेन पर्जन्यादिद्वारा भूतोद्भवाभावात्, तदभावे भूत-विनाशाभावाच्च । न कर्मविध्युपयोग्येवंविधचक्रकरणमिति भावः ।।
प्रमेयदीपिका
‘अन्नात्’ इत्यादेः सङ्गतिमाह– हेत्वन्तरमिति ।। ‘अत्र’ इत्यनुवर्तते । अत्र पर्जन्यो मेघ आदित्यश्च विवक्षितौ । तत्रादित्यस्य पूर्वसिद्धस्य कथं ‘यज्ञाद् भवति पर्जन्यः’ इति यज्ञः कारणत्वेनोच्यते? इत्यत आह– यज्ञ इति ।। यद्यपि ‘यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः’ इति वक्ष्यति । तथाऽप्यत्र परित्यज्यमानं द्रव्यं गृह्यते । तस्य पर्जन्यान्नत्वात् पर्जन्योपभोग्यत्वात् । उपभुक्तेन च तस्य बलाद्युपचयाद् यज्ञः तस्य पर्जन्यस्य कारणमुच्यते ।।
ननु पर्जन्यो देवतात्मा येन यज्ञेन पर्जन्यत्वं प्राप्तः स यज्ञो विविक्षितोऽत्रास्तु । तथासति यज्ञात् पर्जन्योद्भवो मुख्य एव सम्पत्स्यत इति । नेत्याह– पूर्वेति ।। तस्य पर्जन्यपदप्राप्तिहेतोः । ‘यज्ञस्य’ इति शेषः ।।
ननु तदा चक्रं प्रवृत्तमेव । अतः कथं पूर्वयज्ञस्य चक्राप्रवेशः? इत्यत आह– तद्धीति ।। तत् चक्रमापाद्यं ह्यत्र विविक्षितम् । नतु प्रागापादितम् । कुतः? कर्मविधये ह्येतदुच्यते । यदि विहितं कर्म करिष्यसि तर्हि जगच्चक्रप्रवृत्तिर्भविष्यति । अन्यथा तद्विघातः । अतस्त्वया कर्म कर्तव्यमिति । कर्मविध्युपयोगिता चापाद्यस्यैव, न त्वापादि-तस्य । आपाद्ये च यज्ञव्यक्तिविशेषस्य पर्जन्यपदप्राप्तिहेतोर्न प्रवेश इत्यर्थः ।।
प्राक् पर्जन्येन कर्म कृतम् । तेन च यज्ञादिद्वारा चक्रं प्रवृत्तम् । अतस्त्वयापि कर्म कर्तव्यमित्येवं प्रागापादितचक्रोक्तिरपि कर्मविध्युपयोगिनी भवतीति चेन्मैवम् । ‘अतः’ इति कोऽर्थः? त्वत्कर्मणापि चक्रप्रवृत्तिसम्भवादिति वा? कर्मत्वादिति वा? नाद्यः । इदानीन्तनपुरुषकर्मजेन यज्ञेन पर्जन्योत्पत्त्यसम्भवेन चक्राप्रवृत्तेः । न हि सर्वेऽपि कर्मकारिणः पर्जन्यत्वं प्राप्नुवन्ति । द्वितीयं दूषयति– न त्विति ।। फलरहितेन कर्मत्वसाम्येनेदानीं कर्म कार्यं न भवति । स्वयं क्लेशरूपत्वादिति ।।
भावबोधः
।। अत्र पर्जन्य इति । ‘मेघचक्राभिमानी च पर्जन्य’ इत्युत्तर-भाष्यानुरोधान्मेघ इत्युक्तम् । ननु ‘यज्ञः पर्जन्यान्नत्वात्’ इत्यादिना ‘मेघचक्राभिमानी च पर्जन्यः’ इत्यादिना च मुख्यमेव पर्जन्यस्य भवनं प्रतिपाद्यते । अतः कथं ‘प्रकारान्तरेण’ इत्युक्तम्? इत्यत आह– प्राक्पर्जन्यस्येति ।
भावदीपः
।। अत्रेत्यनुवर्तत इति ।। तदर्थस्तु प्रागुक्त एवेति भावः ।। प्राचीनस्यापि चक्रप्रवेशमाशङ्कते– प्राक् पर्जन्येनेति ।। स्वकीयमिति ।। ‘स्वकीयमुदकं नद्यः समुद्रे नैव जानते । वायुस्तु तत् पृथग् ज्ञात्वा मेघे कृत्वा प्रवर्षति’ इति स्मृतावुच्यत इत्यर्थः ।।
भावरत्नकोशः
।। अत्रेत्यनुवर्तत इति । वर्णाश्रमोचितकर्मणः सर्वथा कर्तव्यत्वे जगच्चक्रप्रवर्तकत्वरूपं हेतुम् अर्थवादहेतोरन्यम् आह गीताकार इति भाष्यं योजनीय-मिति भावः । ‘पर्जन्यादन्नसम्भवः । यज्ञाद् भवति पर्जन्यः’ इति गीतायां पर्जन्यशब्देन आदित्यमात्रविवक्षायां ‘मेघचक्राभिमानी पर्जन्यः’ इत्युत्तरभाष्यानानुगुण्यादाह– अत्र पर्जन्य इति ।। ‘पर्जन्यौ रसदब्देन्द्रौ’ इत्यादिलौकिकप्रसिद्ध्या, ‘स्वगोभिर्भोक्तुमारेभे पर्जन्यः काल आगतः’ इत्यादिवैदिकप्रसिद्ध्या च, मेघादित्ययोः प्रतीतेरुभावपि विवक्षितावित्यर्थः । तत्र तथासति । ‘आदित्यस्य’ इत्यस्य ‘यज्ञः कारणत्वेनोच्यते’ इत्यनेन सम्बन्धः । पूर्वकालवर्तिन एव कारणत्वाद् यज्ञस्य पश्चात्तनस्य न कारणत्वं युक्तमिति भावः । पर्जन्यान्नत्वं, तत्कारणत्वं चोपपादयितुमाह– यद्यपीति ।। अत्र गीताभाष्ययोः । पर्जन्योपभोग्यत्वात् यत्र यज्ञे पर्जन्यो देवता तत्र दत्तस्य हविषः पर्जन्योपभोग्यत्वादित्यर्थः ।
।। देवतात्मा प्राप्तदेवपदः ।। पर्जन्यत्वं पर्जन्यपदम् ।। अत्र ‘यज्ञाद् भवति पर्जन्यः’ इत्यत्र । विवक्षायाः फलोक्तिः– तथा सतीति ।। मुख्य एवेति ।। पूर्वत्र तु बलाद्युपचयद्वारा गौण उद्भवः कल्प्य इति भावः । ‘पूर्वयज्ञविवक्षायाम्’ इत्यनन्तरं ‘चक्रप्रवेशः’ इत्यतः पूर्वं भाष्येऽपेक्षितमध्याहरति– तस्येति ।। ‘इति शेष’ इत्यन्वयः । कृतचोद्यपरिहारस्फोरणाया-ध्याहृतस्य ‘तस्य’ इत्यस्यार्थमाह– पर्जन्यपदप्राप्तिहेतोर्यज्ञस्येति ।। भाष्य एव ‘तस्य’ इति पाठ इति पक्षस्तु टीकाऽननुगुणः । तदा पर्जन्येन स्वपदप्राप्तये यदा यज्ञोऽनुष्ठीयते तदा । ‘तत्’ इत्यस्यार्थः– चक्रमिति ।। जगच्चक्रमित्यर्थः । ‘हि’शब्दं व्यत्यस्य संयोजयन्नपेक्षितं पूरयति– आपाद्यं ह्यत्र विवक्षितमिति ।। आपादितं पर्जन्यानुष्ठितम् ।
‘कर्मविधये’ इत्येतद् ‘हि’शब्दमनुवर्तयन्नवतारयति– कुत इति ।। ‘उच्यते’ इति शेष-पूरणम् । उपपादयति– यदीति ।। अन्यथा विहितकर्माकरणे । तद्विघातः जगच्चक्रप्रवृत्ति-विघातः । ‘त्वया कृतो भविष्यति’ इति शेषः । त्वया अर्जुनोपलक्षितेनाधिकारिणा । कर्मविधिः कर्मविधानम् । आपाद्ये अनुष्ठेये चक्रे । ‘यज्ञव्यक्तिविशेषस्य’ इत्येतद्विवरणं– पर्जन्येति ।। कर्मविधानानुपयोगित्वान्न चक्रे प्रवेश इत्युक्तोेपयोगं शङ्कते– प्राक् पर्जन्येनेति ।। ‘यज्ञादिद्वारा’ इत्यत्र आदिशब्देन पर्जन्यादिग्रहणम् । पर्जन्योत्पत्त्यसम्भवेनेति ।। कार्यत्वस्य पश्चात्तनत्वरूपत्वादिति भावः । पर्जन्योद्भवो नाम पर्जन्यत्वप्राप्तिः । स च प्रकृते न सम्भवतीत्याह– न हीति ।। द्वितीयं ‘कर्मत्वात््’ इति द्वितीयपक्षम् । मात्रपदतात्पर्यमाह– फलेति ।। क्लेशरूपत्वादिति ।। फलरहितत्वादेवेति भावः ।।
भावदीपिका
।। अत्रेतीति।। वर्णाश्रमोचितकर्मणः कर्तव्यत्व इत्यर्थः । ‘मेघचक्राभिमानी च पर्जन्यः’ इत्युत्तरभाष्यानुसारेण ‘मेघः’ इत्युक्तम् ।। इति वक्ष्यतीति ।। अनुपदमेवेति शेषः । तथा च परित्यागरूपक्रियायाः पर्जन्योपभोग्यत्वमयुक्तमिति भावः । ‘पर्जन्येनाद्यते’ इति पर्जन्यान्नमिति व्युत्पत्तिमभिप्रेत्य व्याचष्टे– पर्जन्योपभोग्यत्वादिति ।। ननु पर्जन्योपभोग्यत्वेऽपि कथं पर्जन्यकारणत्वम्? इत्यत आह– उपभुक्तेन चेति ।। तस्य पर्जन्यस्य, ‘यद्बलाद्’ इत्यस्योपचयादित्यर्थः । पर्जन्यत्वम् पर्जन्यपदम् ।। स यज्ञ इति ।। पर्जन्यपदप्राप्तिहेतुभूतो यज्ञ इत्यर्थः । चक्रमापाद्यमिति ।। ‘अन्नाद् भवन्ति’ इत्याद्युक्तक्रमेण सम्पाद्यमित्यर्थः । आपाद्यस्यैवेति ।। ‘यज्ञाद् भवति’ इत्यापाद्यचक्रस्यैवेत्यर्थः । मूलं योजयति– आपाद्ये चेति ।। सम्पाद्ये, ‘चक्रे’ इति शेषः । अत इति कोऽर्थ इति ।। ‘अतस्त्वयाऽपि कर्म कर्तव्यम्’ इत्यत्र हेतुत्वेनोक्तस्य ‘अतःशब्दस्य कोऽर्थः’ इत्यर्थः ।। चक्रप्रवृत्तीति ।। त्वयाऽपि कर्म कृतं चेत् तेनापि यज्ञादिद्वारा चक्रप्रवृत्तिर्भविष्यतीति भावः ।। कर्मत्वादिति ।। चक्रप्रवृत्तिरूपफलं भविष्यतीति बुद्ध्या कर्म न कर्तव्यम् । किं नाम? पर्जन्यकृतकर्मणा त्वया क्रियमाणकर्मणः कर्मत्वेन साम्यात् त्वयाऽपि कर्म कर्तव्यमित्यर्थः ।। पर्जन्योत्पत्त्यसम्भवे-नेति ।। अत्र हि पर्जन्यशब्देन देवताऽभिप्रेता । तथैव पूर्वं शङ्कितत्वात् । तथा चेदानीन्तनेना-स्मदादिकर्मणा देवतोत्पत्त्यसम्भवेन ‘यज्ञाद् भवति पर्जन्यः’ इत्यस्यायोगाच्चक्राप्रवृत्तिरित्यर्थः ।
ननु न चक्राप्रवृत्तिः । यथा पर्जन्यकृतयज्ञेन पर्जन्यस्य पर्जन्यत्वं जातम्, एवस्मत्कृत-यज्ञेनाप्यस्माकं पर्जन्यत्वं भविष्यति । तथा च ‘यज्ञाद् भवति पर्जन्यः’ इत्यस्य सम्भवेन युक्ता चक्रप्रवृत्तिरिति चेत्, तत्राऽह– न हीति ।। कर्मकारिणः कर्मकर्तारः । तस्य नियताधिकारि-साध्यत्वादिति भावः । कर्मत्वसामान्येन कर्मत्वसाम्येन ।
भावप्रकाशः
पर्जन्यशब्देनादित्यमात्रविवक्षयां ‘मेघचक्राभिमानी च पर्जन्यः’ इत्युत्तरभाष्यानानुगुण्यादाह– अत्र पर्जन्य इति ।। वक्ष्यतीति ।। अत्रैवाध्यायेऽग्रिमग्रन्थ इति शेषः । ननु यज्ञस्य कथं पर्जन्यान्नत्वं? चर्व्यत्वाभावादित्यत आह– पर्जन्योपभोग्यत्वादिति ।। ननु पर्जन्यस्य यज्ञादुत्पत्यभावात् कथं तयोर्जन्यजनकता? इत्यत आह– उपभुक्तेन चेति ।।