महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ।। ६ ।।

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।

मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ।। ६ ।।

भाष्यम्

पूर्वे सप्तर्षयः । ‘मरीचिरत्र्यङ्गिरसौ पुलस्यः पुलहः क्रतुः । वसिष्टश्च महातेजाः’ इति मोक्षधर्मोक्ताः । ते हि सर्वपुराणेषूच्यन्ते । चत्वारः प्रथमाः स्वायम्भुवाद्याः ।। तेषां हि इमाः प्रजाः । न हि भविष्यतां इमाः प्रजा इति युक्तम् । विभागः प्राधान्यं च प्राथमिकत्वादेव भवति । गौतमखिलेषु चोक्तम्

स्वायम्भुवं स्वारोचिषं रैवतं च तथोत्तमम् । वेद यः स प्रजावान्’

इति । पूर्वेभ्यो ह्युत्तरा जायन्त इत्येषां प्राधान्यम् । अजातेषु च ज्यैष्ठ्यम् ।।

भावप्रदीपिका प्रतिमन्वन्तरं सप्तर्षिभेदात् केऽत्र विवक्षिताः ? इत्यत आह– पूर्व इति ।। विशेषणादित्यर्थः । सावर्णिसञ्ज्ञाश्चत्वारो भविष्यन्मनव इति नेत्याह– चत्वार इति ।। कुतो न भविष्यन्ति ? इत्यत आह– तेषामिति ।। इतश्च स्वायम्भुवाद्या एव चत्वार इत्याह– विभाग इति ।। चतुर्दशमनुषु चतुर्णां विभागेन ग्रहणं प्राधान्याभिप्रायेणैव । तच्च प्राथमिकत्वादेव युक्तमित्यर्थः । चतुर्णां प्राधान्यमेव कुतः । यदर्थं प्रथमाद्यूह्यत इत्यत आह– गौतमेति ।। इतश्च पूर्वेषां प्राधान्यमित्यत आह– पूर्वेभ्य इति ।। पूर्वसम्भवादित्यर्थः । तर्ह्यन्यसन्ततिजातेभ्यो नैतेषां प्राधान्यमित्यत आह– अजातेष्वति ।। प्राधान्यहेतुः इति शेषः ।

प्रमेयदीपिका

‘महर्षयः सप्त भृग्वादयः’ इति सङ्करः । तदसत् । ‘पूर्वे’ इति विशेषणेन प्रथममन्वन्तरस्थानामेव ग्रहणस्योचितत्वात् । मोक्षधर्मसंवादाच्चेति भावेनाऽह– पूर्व इति ।। इतोऽपि मरीच्यादय एवेत्याह– ते हीति ।। ‘निरुपपदेन सप्तर्षिशब्देन’ इति शेषः । ‘पूर्वे’ इत्यस्योत्तरत्र सम्बन्धेऽप्येतत् सिद्धमिति भावेनानेक-प्रमाणोपन्यासः ।। ‘ब्रह्मसावर्ण्यो रुद्रसावर्ण्यो धर्मसावर्ण्यो दक्षसावर्ण्य इति भविष्यन्त-श्चत्वारो मनवः’ इत्यन्ये । तदसदिति भावेनाऽह– चत्वार इति ।। स्वायम्भुव-स्वारोचिषरैवतोत्तमाः । प्रथमातिक्रमे कारणाभावादिति भावः ।।

किञ्च ‘येषां लोक इमाः प्रजाः’ इति विशेषणमेष्वेव सम्भवति । नेतरेषु । अतोऽप्येवमित्याह– तेषां हीति ।। इमाः वर्तमानाः प्रजाः अपत्यानि ।। ननु चतुर्दश मनवः । तेषु चतुर्णां यत् पृथक्करणं तत्र कारणेन भाव्यम् । अस्ति च तत्परोक्तेषु सञ्ज्ञासाम्यम् । नतु स्वायम्भुवादिषु । अतः कथमेतत्? इत्यत आह– विभाग इति ।। ‘प्राधान्यादेव’ इति शेषः । सञ्ज्ञासाम्यस्याप्रयोजकत्वात् । अन्यथा मेरु-सावर्णेरपि ग्रहणप्रसङ्गादिति भावः । अस्त्वेवम् । प्राधान्यं च परोक्तानामेवेत्यत आह– प्राधान्यं चेति ।। ‘स्वायम्भुवादीनाम्’ इति शेषः ।।

किञ्च श्रुतौ स्वायम्भुवादीनामेव पृथक्करणात् त एवात्रेत्याह– गौतमेति ।। ‘पृथक्करणेन फलम्’ इति शेषः । प्राथमिकत्वादेव प्राधान्यं भवतीत्युक्तम् । तत्कथम् इत्यत आह– पूर्वेभ्यो हीति ।। तत्सन्ततावित्यर्थः । तेषां पूर्वेषामुत्तरान् प्रति । तत्सन्ततावजातान् प्रति प्रथमानां कथं प्राधान्यम् ? इत्यत आह– अजातेष्विति ।। विषयसप्तमीयम् । ज्यैष्ठ्यं प्रथमानां प्राधान्यमित्यर्थः ।।

भावबोधः

।। पूर्व इत्यस्योत्तरत्रेति ।। मनुविशेषणत्वेऽपीत्यर्थः । संज्ञासाम्यमिति ।। सावर्ण्यशब्दस्य सर्वत्र सत्वादित्यर्थः ।।

भावदीपः

शङ्कते– चतुर्णामिति ।। ब्रह्मसावर्ण्यादीनामित्यर्थः ।। ‘गौतम-खिलेषूक्तं च’ इत्यत्र विशेष्यमाह– पृथक्करणेन फलमिति शेष इति ।।

भावरत्नकोशः

।। भृग्वादय इति ।।

भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ।

 अतिनामा सहिष्णुश्च सप्तैतेऽत्र महर्षयः ।। चाक्षुषस्यान्तरे तात ।’

इति शास्त्रोक्ताः गीतायां महर्षिशब्देन ग्राह्या इति आहुः । ते हीतीति ।। तथा च मोक्षधर्मे ‘सप्त ब्राह्मणा इत्येते पुराणे निश्चयं गताः’ इति । शङ्करः रामानुजश्च तथैवाभाषतेति सोऽपि तद्ग्रहणेनैव गृहीतः । भाष्ये ‘पूर्वे’ इति विशेषणोपादानतात्पर्यमाह– इति विशेषणेनेति ।। उत्तरत्र ‘पूर्वे चत्वारः’ इत्युत्तरत्र । एतत् निरुपपदसप्तर्षिपदेन मरीच्यादीनामेव ग्रहणम् । अनेकेति ।। मोक्षधर्मसर्वपुराणरूपानेकप्रमाणेत्यर्थः । तत्र ‘मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृताः ।।’इत्युपलक्षणत्वेन ब्राह्मवचनमुदाहृतं तात्पर्यनिर्णये । तथा च हरिवंशेषु

मरीचिरत्रिर्भगवान् अङ्गिराः पुलहः क्रतुः ।

 पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ।।’ इति ।

ब्रह्मसावर्ण्य इति ।। यद्यपि भागवतेऽष्टमस्कन्धे सावर्णिशब्द इकारान्तः पठ्यते । वक्ष्यति च ‘मेरुसावर्णेरपि’ इति । तथापि शङ्करभाष्ये ‘सावर्ण्या इति प्रसिद्धा’ इत्युक्तेरेवमुक्तम् । तथा च विष्णुपुराणे ‘पूर्वजस्य सवर्णोऽसौ सावर्ण्यस्तेन कथ्यते’ इत्यादि । ‘स्वायम्भुवाद्याः’ इति भाष्याभिप्रेतानाह– स्वायम्भुवेति ।। यद्यपि ‘स्वायम्भुवस्वारोचिषउत्तमरैवताः’ इति निर्देशः कार्यः । भागवते स्वायम्भुवमाद्यत्वेनोक्त्वा

स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत् ।’

तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ।’

चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तापसः ।’

पञ्चमो रैवतो नाम मनुस्तापससोदरः ।’ इति क्रमावेदनात् ।

किञ्च तापसस्य चतुर्थत्वावगमेन उत्तमस्य चतुर्थतया पाठो न युक्तः । तथापि ‘तापसस्य भगवदवतारत्वादनुक्तिः’ इति भाष्ये वक्ष्यमाणतया तस्येहाग्राह्यत्वात्, ‘स्वायम्भुवं स्वारोचिषं रैवतं च तथोत्तमम्’ इति भाष्योपात्तप्रमाणानुसाराच्चैवं निर्देशः कृतः । क्रमस्तु भागवतोक्त एवेति अभियुक्ताः ।

भाष्यगतप्रथमपदतात्पर्यमाह– प्रथमेति ।। एष्वेव स्वायम्भुवादिषूक्तेषु चतुर्थेष्वेव इतरेषु परोक्तेषु ब्रह्मसावर्ण्यादिषु । भाष्यभाषितभाविदूषणसौकर्याय इदंशब्दार्थमाह– इमा इति ।। ‘अयं घटः’ इत्यादौ वर्तमानकालोल्लेखानुभवादिति भावः । ‘प्रजा स्यात् सन्ततौ जने’ इत्यभिधानात् प्रजाशब्देन जनग्रहणे ‘लोक इमाः’ इत्यनन्वितम् । ‘लोकस्तु भुवने जने’ इति लोकशब्दस्य जनार्थत्वात् ? इत्यत आह– प्रजा अपत्यानीति ।। सन्ततिरत्र प्रजाशब्दार्थ इति भावः । चतुर्दशमनवः स्वायम्भुव, स्वारोचिष, उत्तम, तापस, रैवत, चाक्षुष, वैवस्वत, सावर्णि, दक्षसावर्णि, ब्रह्मसावर्णि, धर्मसावर्णि, मेरुसावर्णि. देवसावर्णि. इन्द्रसावर्णिनामानः चतुर्दशभागवतोक्तमनवः । हरिवंशविष्णुपुराणयोस्तु देवसावर्णीन्द्रसावर्णी त्रयोदशचतुर्दशमनू रौच्यभौत्यशब्दाभ्यां निर्दिष्टौ । चतुर्णां ब्रह्मसावर्ण्यादीनां सञ्ज्ञासाम्यं सर्वत्र सावर्ण्यशब्दानु-स्यूतेरिति भावः ।

स्वायम्भुवादिषु स्वायम्भुव, स्वारोचिष, रैवत, उत्तमेषु । एतद् व्याख्यानम् । भाष्ये ‘विभागः’ इत्यस्य ‘पृथक्करणम्’ इत्यर्थः । मेरुसावर्णेरपीति ।। भागवते विष्णुपुराणे च सावर्णिशब्दगृहीतस्य अष्टमस्य मनोरेव मेरुसावर्णिशब्देनापि ग्रहणमभ्युपगम्यैवमुक्तम् । मेरुरिव सावर्णिर्मेरुसावर्णिरिति तदर्थ इति केचित् । ‘भविता मेरुसावर्णी राजन् द्वादशमो मनुः’ इति भागवतकोशविशेषे, ‘रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति । तस्य चेन्मेरुसावर्णिः’ इति मत्स्यपुराणे, हरिवंशे सप्तमेऽध्याये ‘तथैव मेरुसावर्णिः मनवस्तु चतुर्दश ।’ इति मेरुसावर्णे-रुपात्तत्वात् तस्यापि सञ्ज्ञासाम्याद् ग्रहणप्रसङ्गादित्यर्थः । भागवते वेदसावर्णीन्द्र-सावर्ण्योरुपात्तत्वेऽपि,

त्रयोदशो रौच्यनामा भविष्यति मुने मनुः ।

 भौत्यश्चतुर्दशश्चात्र मैत्रेय भविता मनुः ।।’

इति विष्णुपुराणे नामान्तरेण त्रयोदशचतुर्दशयोर्ग्रहणाद् विष्णुपुराणोक्तस्यैव परैर्गृहीतत्वा-देवमुक्तिर्युक्ता । तथा चाष्टमनवमदशमैकादशानां ब्रह्मसावर्ण्य, रुद्रसावर्ण्य, धर्मसावर्ण्य, दक्ष-सावर्ण्यानां भविष्यतां मनूनां ग्रहणे भागवतोक्तमेरुसावर्णेरपि नामसाम्यात् ग्रहणप्रसङ्गो दुर्वार इति भावेनैवमुक्तमित्यपि आहुः ।

एवं प्राधान्यात् पृथक्करणमित्येवमस्तु परोक्तानां सावर्ण्यानाम् । तथा च स्वायम्भुवादिषु हेतुरसिद्ध इति भावः । भाष्ये चशब्दो युक्त्यन्तरसमुच्चायक इति भावेनाह– किञ्चेति ।। अत्र ‘ग्राह्याः’ इति शेषः । ‘वेद यः स प्रजावान्’ इति श्रवणादाह– फलमितीति ।। ननु स्वायम्भुवपुत्रः प्रियव्रतः, तत्पुत्राः उत्तम, तापस, रैवता इति भागवतादौ प्रसिद्धम् । तत्कथं ‘पूर्वेभ्य उत्तरा जायन्ते’ इत्युक्तिः इत्यत आह– तत्सन्ततावित्यर्थ इति ।। प्राधान्यं सप्रतियोगिकमिति तद् दर्शयति– उत्तरान् प्रतीति ।। तत्सन्ततावजातान् प्रति स्वारोचिषादीन् प्रति । स्वारोचिषोऽग्नेः पुत्रः, चाक्षुषः चक्षुषः सुतः, वैवस्वतसावर्णी सूर्यपुत्रौ, दक्षसावर्णिर्वरुणपुत्रः, ब्रह्मसावर्णि उपश्लोकात्मज इत्यस्य भागवते प्रसिद्धेरिति भावः । विषयसप्तमीति ।। तथा चाजातविषये पूर्वेषां वयसा ज्यैष्ट्यमेव प्राधान्यप्रयोजकमिति भाष्यार्थ इति भावः ।

भावदीपिका

‘सर्वपुराणेषु’ इति ‘अनेकप्रमाणेषु’ इत्यनेकप्रमाणोपन्यास-प्रयोजनमाह– पूर्व इत्यस्येति ।। उत्तरत्रेति ।। ‘चत्वारो मनव’ इत्यत्रेत्यर्थः । एतत्सिद्ध-मिति ।। निरुपपदसप्तर्षिशब्देन ‘प्रथममन्वन्तरस्थानां मरीच्यादीनामेव ग्रहणं कार्यम््’ इत्येतत् सर्वपुराणसम्मत्या सिद्धमित्यर्थः । स्वायम्भुव, स्वारोचिष, उत्तम, तामस, रैवतादिक्रमेण भागवते यद्यपि गणिताः । तथाऽपि वक्ष्यमाणं गौतमखिलवचनं हृदि निधायाह– स्वायम्भुवे-त्यादिना ।। ननु स्वायम्भुवादिचतुर्णां ग्रहणे को हेतुः इत्यत आह– प्रथमेति ।। संज्ञासाम्यमिति ।। चतुर्णां परोक्तानां सावर्ण्यान्तशब्दवाच्यत्वादिति भावः । विभाग इतीति ।। पृथक्वरणं विभागशब्दार्थः । मेरुसावर्णेरपीति ।। तस्यापि सावर्ण्यान्तशब्द-वाच्यत्वादिति भावः । अस्त्वेवमिति ।। प्राधान्यात् पृथक्वरणमित्यर्थः । प्राधान्यम् उत्तमत्वम् । आहेति ।। उपपादयतीत्यर्थः । ‘पूर्वेभ्यः’ इत्यस्य ‘प्राथमिकेभ्यः’ इत्यर्थः । स्वायम्भुवादिभ्यः स्वारोचिषादीनां साक्षादुत्पत्त्यभावात्, अतः ‘पूर्वेभ्य’ इत्यस्याभिप्रायमाह– तत्सन्तताविति ।। प्राधान्यम् स्वामित्वम् ।

भावप्रकाशः

 ।। सप्त भृग्वादय इति ।। भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा । अतिनामा सहिष्णुश्च सप्तैतेऽथ महर्षयः । चाक्षुषस्यन्तरे तातेत्युक्ता इत्यर्थः । उत्तरत्रेति ।। चत्वारो मनव इत्यत्रेत्यर्थः । रुद्रसावर्ण्य इति ।। यद्यप्यष्टमस्कन्धे रुद्रसावर्ण्यो नोक्तः । सावर्णिशब्दश्चेकारन्तो दृश्यते । तथाऽपि पुराणान्तरानुसाराद् उक्तं युक्तम् । रैवतोत्तमा इति ।। यद्यपि रैवतस्योत्तमानन्तरत्वादेवं निर्देशो युक्तः । तथाऽपि रैवतं च तथोत्तममित्यग्रिमप्रमाणानुसारादेवमुक्तम् । ‘प्रजा स्यात् सन्ततौ जन’ इत्युक्तेः प्रजाशब्देन जनग्रहणे येषां लोक इत्यादिकं जनस्वामित्वेन ब्रह्मसावर्ण्यादिष्वपि सम्भवतीत्यत आह– अपत्यानीति ।।

।। मेरुसावर्णेरपीति ।। यद्यपीन्द्रसावर्णिवेदसावर्ण्योरपि ग्रहणमुचितम् । तयोरपि त्रयोदशचतुर्दशमनुत्वेनाष्टमस्कन्धोक्तेः । तथाऽपि त्रयोदशो रौच्यनामा भविष्यति मुने मनुः । भौच्यश्चतुर्दशश्चात्र मैत्रेयो भविता मनुः’ इति विष्णुपुराणे सञ्ज्ञान्तरोक्तेः । सञ्ज्ञासाम्यरूप-परोक्तहेतोरसत्त्वात् मेरुसावर्णिरित्येवोक्तम् । ननु योऽष्टमस्कन्धे द्वादशो मनुर्मेरुसावर्णिरुक्तः । ‘स एव रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशे मनुः’ इति विष्णुपुराणे रुद्रसावर्णित्वेनोक्तः । तस्य च चतुर्षु परिगणनात् कथमियमतिप्रसङ्गोक्तिः । सत्यम् । मेरुरिव सावर्णिः मेरुसावर्णिरिति व्युत्पत्त्या सूर्यपुत्रस्याष्टममनोः सूर्यसावर्णेर्ग्रहणादतिप्रसंगोपपत्तिरिति व्याचक्ष्यते । ननु स्वायम्भुवपुत्रः प्रियव्रतः तत्पुत्राः उत्तमतापसरैवता इत्यादौ प्रसिद्धम् । तत्कथं पूर्वेभ्य उत्तरा जायन्त इत्युक्तमित्यत आह– तत्सन्ततावित्यर्थ इति ।। स्वारोचिषादीन् प्रतीत्यर्थः । स्वारोचिषः अग्निपुत्रः चाक्षुषः चक्षुःपुत्रः, वैवस्वतसावर्णी सूर्यपुत्रौ, दक्षसावर्णिर्वरुणपुत्रः, ब्रह्म-सावर्णिरुपश्लोकसुत इत्यादेः भागवतप्रसिद्धेरिति भावः । ज्यैष्ठ्यमिति ।। वयोज्यैष्ठ्यमित्यर्थः । प्राधान्यमिति ।। प्राधान्यप्रयोजकमित्यर्थः । इत्यर्थ इति ।। इतिशब्दात् परमनुवृत्त्येति शेषः । अर्थशब्दानन्तरमनुसन्धेय इति ।।

Load More