रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ।।२२।।

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।

गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ।।२२।।

भावरत्नकोशः

गीताक्षरार्थस्तु किञ्च रुद्रादित्या विश्वे देवाः ऊष्मपाः पितरः असुराः तद्योग्यासुराः विस्मिताः विस्मयमापन्नाः सन्तः ।। २२ ।।