अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ।। २९ ।।

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।

पितॄणामर्यमा चास्मि यमः संयमतामहम् ।। २९ ।।

भावरत्नकोशः

अनन्त इति ।। नागानाम् अनेकशिरसाम् अनन्तः शेषः । यादसां जलजन्तूनां वरुणः अस्मीति । विजातीयश्रैष्ठ्यदविभूतिः । अर्यमा अर्यमनामकपितृराजः । संयमतां संयमप्रातिपदिकात् क्विप्, संयमनं कुर्वन्तः संयमन्तः, तेषां मध्ये यमः अस्मि ।। २९ ।।