श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ।। १२ ।।

श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद् ध्यानं विशिष्यते ।

ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्  ।। १२ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– ‘ध्यानालाभे ज्ञानम्, तदलाभे शास्त्राभ्यासः’ इत्येतत् समर्थ्यते– श्रेयो हीति ।। ज्ञानं श्रवणमननजन्यपरोक्षतत्त्वनिश्चयरूपम्, अभ्यासात् केवलाभ्यासात्, अज्ञानपूर्वकात् श्रवणमननावृत्तिलक्षणशास्त्राभ्यासात्् श्रेयः श्रेष्ठम् । ज्ञानात् ज्ञानमात्रात् ध्यानं ज्ञानसहितध्यानं विशिष्यते श्रेयः । ‘ध्यानात्कर्मफलत्यागो विशिष्यते’ इत्यनेन त्यागस्य प्रशस्तत्वलक्षणा स्तुतिरेवाभिप्रेयते, न तु प्रतीतोऽर्थो ग्राह्य इति व्याख्यानं भाष्यटीकयोः स्पष्टम् । अथवा ध्यानात् केवलात् त्यागरहितात् ध्यानात् कर्मफल-त्यागः कर्मफलरागत्यागसहितं ध्यानमिति लक्षणया ग्राह्यम् । ‘सर्वाधिकं ध्यानमुदाहरन्ति’ इति शास्त्रात् । यद्वा कर्मफलत्यागः ध्यानसाहित्येनोपस्कृतो विशिष्यत इति योज्यम् । त्यागात् कर्मफलत्यागात्् अनन्तरम् अपरोक्षज्ञानमात्रव्यवधाने शान्तिः मोक्षो भवति ।। १२ ।।

भाष्यम्

अज्ञानपूर्वादभ्यासाद् ज्ञानमेव विशिष्यते । ज्ञानमात्रात् सज्ञानं ध्यानम् । तथाच सामवेदे अनभिम्लानशाखायाम्–

अधिकं केवलाभ्यासाज्ज्ञानं तत्सहितं ततः ।

 ध्यानं ततश्चापरोक्षं ततः शान्तिर्भविष्यति ।।’ इति ।

ध्यानात् कर्मफलत्यागः’ इति तु स्तुतिः । अन्यथा कथमसमर्थोऽ-सीत्युच्येत?  तयोऽस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते’ इति चोक्तम् ।

सर्वाधिकं ध्यानमुदाहरन्ति ध्यानाधिके ज्ञानभक्ती परात्मन् ।

कर्माफलाकाङ्क्षमथो विरागः त्यागश्च न ज्ञानकलाफलार्हः’

इति काषायणशाखायाम् ।

भावप्रदीपिका

ज्ञानेन सम्भवतोऽभ्यासस्य कथं ज्ञानसाधनत्वमुच्यते ? ध्यानसाध्यज्ञानस्य च कथं तदवमत्वं श्रेयो हि इत्यनेनेत्यत एतत्सप्रमाणकं व्याचष्टे– अज्ञानेति । तत्सहितं ततो ध्यानमिति । ज्ञानमात्रात् ज्ञानसहितं ध्यानमधिक-मित्यर्थः । ध्यानात् कर्मफलत्यागः इत्यन्यथाप्रतीतिमुपपत्तिवचनाभ्यां वारयति– ध्यानादिति ।

प्रमेयदीपिका

ननु ज्ञानमभ्यासस्य साधनम् । तत्कथं ततः श्रेयः? इत्यत आह– अज्ञानेेति ।। एवेति ।। केवलम् । ‘ज्ञानाद् ध्यानं विशिष्यते’ इत्यसत् । सध्यानस्यापि ज्ञानस्य सम्भवात् । अज्ञानपूर्वस्य ध्यानस्य सम्भवाच्चेत्यत आह– ज्ञानमात्रादिति ।। उपपत्तिलब्धमर्थं श्रुत्याऽपि द्रढयति – तथा चेति ।। तत्सहितं ज्ञानसहितं ध्यानम् । ततो ज्ञानमात्राद् अधिकम् । ध्यानात् कर्मफलत्यागो विशिष्यत इत्येतद् अन्यथाप्रतीतिनिरासाय व्याख्याति– ध्यानादिति ।।

त्यागस्य प्रशस्तत्वमेवानेन लक्ष्यते । न प्रतीतार्थे तात्पर्यमित्यर्थः । कुतः ? इत्यत आह– अन्यथेति ।। ‘अथैतदप्यशक्तोऽसि कर्तुम्’ इति । ध्यानात् प्रत्यवरे कर्मयोगेऽप्यशक्तस्य कर्मफलत्यागः कथमन्यथा ध्यानादाधिक्ये सत्युपदिश्येतेत्यर्थः । कर्मसन्न्यासात् कर्मफलरागसन्न्यासात् कर्मयोगोऽपि विशिष्यते । किमुत ध्यानयोगः । वक्ष्यमाणकर्मादिसर्वाधिक्यम् । परात्मन् परमात्मनि विषये । विरागः शोभनाध्यासा-भावः ।।

भावबोधः

‘ज्ञानाद्ध्यानं विशिष्यते’ इत्यत्र ज्ञानमात्रात्् सज्ञानं ध्यानमिति भाष्ये ज्ञानध्यानशब्दयोः किमथर्ं विशेषपरत्वमुच्यत इत्यतस्तन्निवर्तनीयाशङ्कामाह– ज्ञानाद्ध्यानमितीति ।। असत् बाधितार्थकमित्यर्थः । कुत इत्यत आह– सध्यान-स्यापीति ।। केवलज्ञानवत् सध्यानस्यापि ज्ञानस्य पुरुषविशेषे सम्भवात् सामान्यवाचकज्ञान-शब्दस्य सध्यानज्ञानपरत्वे ततः केवलस्य विशिष्टस्य वा ध्यानस्योत्तमत्वासम्भवात् इति भावः । नन्वस्तु तत एव बाधकाद् ज्ञानशब्दः केवलज्ञानपर इति चेत्, तथाप्यनुपपत्तिरित्याह– अज्ञानपूर्वस्येति ।। कस्मिंश्चित्पुरुष इत्यर्थः । ततश्च सामान्यवाचकध्यानशब्दस्याज्ञान-पूर्वध्यानपरत्वे ‘अज्ञात्वा ध्यायिनो ध्यानाद् ज्ञानमेव विशिष्यते’ इत्यज्ञानिध्यानतः केवलज्ञानस्योत्तमत्वप्रतिपादकप्रमाणविरोधेन अज्ञानपूर्वध्यानस्य केवलज्ञानादुत्तमत्वासम्भवादिति भावः । उपपत्तिलब्धमिति ।। पूर्वोक्तान्यथानुपपत्तिरूपोपपत्त्या ज्ञानाद्ध्यानमित्यत्र ज्ञान-शब्दस्य केवलज्ञानपरत्वं ध्यानशब्दस्य सज्ञानध्यानपरत्वं लब्धमित्यर्थः । ‘तयोस्तु कर्मसन्न्यासाद्’ इति गीतावाक्यं प्रकृतोपयोगितया व्याचष्टे– कर्मफलरागसन्न्यासादिति ।। अफलाकाङ्क्षमित्यनेनैकार्थतापरिहाराय विरागशब्दार्थमाह– शोभनाध्यासाभाव इति ।।

भावदीपः

एवशब्दः केवलार्थ इत्याह– एवेति ।। केवलमिति ।। ध्यानं विना कृतमित्यर्थः ।। उपपत्तीति ।। ज्ञानपूर्वाभ्यासात् केवलज्ञानस्य, सद्ध्यानज्ञानात् केवल-ध्यानस्य श्रेयस्त्वायोगरूपोपपत्त्या अज्ञानपूर्वाद् अभ्यासादज्ञानं केवलज्ञानात् सज्ज्ञानध्यानं श्रेय इत्यर्थो लब्ध इत्युपपत्त्या लब्धमित्युक्तम् ।। अन्यथा इति भाष्यानुवादः,ध्यानादाधिक्ये सति इति व्याख्या ।। प्रकृतोपयोगाय अनूद्यार्थमाह– कर्मसन्न्यासादिति ।। वक्ष्यमाणेति ।। उत्तरार्धे वक्ष्यमाणं यत्कर्मविरागत्यागाख्यं सर्वं ततोऽधिकमित्यर्थः ।। अफलाकाङ्क्षम् इत्यनेन त्यागपदेन वा एकार्थनिरासायाह– विराग इति ।।

भावरत्नकोशः

ननु श्रवणमननात्मकशास्त्राभ्यासात् तज्जन्यतत्त्वनिर्णयात्मक-ज्ञानस्य फलरूपत्वादाधिक्यं सिद्धमेव । तत्किमर्थं ‘श्रेयो हि ज्ञानमभ्यासात्’ इत्यत्राभ्यासपदं विशेषपरतया भाष्ये व्याख्यायते इत्याशङ्क्य व्याख्यानबीजमाक्षेपं प्रदर्शयति– ननु ज्ञान-मभ्यासस्येति ।। ज्ञानं श्रवणमननजन्यपरोक्षतत्त्वनिश्चयः । अभ्यासो नाम शास्त्राभ्यासः, उपासनापरपर्यायः । ‘सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी’ इत्युक्तेः । स च द्विविधः श्रवणमननजन्यतत्त्वज्ञानपूर्वभावी तदुत्तरभावी चेति । तत्राद्यः श्रवणमननरूपः । तथा च तत्वप्रकाशिका– ‘यामाहुः श्रवणमनने’ इति । द्वितीयो निदिध्यासनावान्तरलक्षणः ।

‘.... निदिध्यासनया भवेत् ।

 द्विविधा सा च सम्प्रोक्ता विष्णुशास्त्रावमर्शनम् । एकं ध्यानं हरेरन्यत् ...’

इति तन्त्रसारसङ्ग्रहवचनात् । अत्र च द्वितीय एवाभ्यासशब्देन ग्राह्यः । तथा च ज्ञानमभ्यासस्य साधनमिति युज्यत इति ज्ञातव्यम् । कथमिति  न हि फलात् साधनं श्रेय इति भावः । ‘केवलाभ्यासात्’ इत्युपरितनवचनानुसारेणाह– एवेति केवलमिति ।। ध्यानं विना कृतमित्यर्थः । ज्ञानपूर्वः ज्ञाननिष्पन्नः, स न भवतीति अज्ञानपूर्वः, तस्मादिति भाष्यार्थः ।

ननु श्रवणजन्यतत्त्वज्ञानाद् ध्यानस्योत्तमत्वं सिद्धमेव । अपरोक्षज्ञानान्तरङ्गत्वात् । तत्कुतो भाष्ये ज्ञानध्यानशब्दौ विशेषपरौ व्याख्यायेते इत्यतस्तन्निवर्त्यशङ्कां दर्शयति– ज्ञानाद्ध्यानं विशिष्यत इत्यसदिति ।। ज्ञानमात्रस्य ध्यानादधमत्वम्, तस्यैव तस्मादुत्तमत्वं चायुक्त-मित्यर्थः । अधमत्वायोगे युक्तिमाह– सध्यानस्यापीति ।। अत्र सर्वत्र ज्ञानशब्देन श्रवण-मननजन्यतत्त्वनिर्णयो ग्राह्य इत्युक्तमेव । उत्तमत्वायोगे युक्तिमाह– अज्ञानपूर्वस्येति ।। ‘श्रवणमननसमकालीनस्य’ इत्यर्थ इति आहुः ।

केचित्तु ‘सध्यानस्यापि ज्ञानस्य सम्भवात्, अज्ञानपूर्वस्य ध्यानस्यासम्भवाच्च’ इत्यपि पाठो दृश्यते, तत्र सध्यानस्य ध्यानासहितस्येत्यर्थः । ध्यानं च निरन्तरचिन्तनम् । तच्च ज्ञानमन्तरा न सम्भवत्येवेति भाव इति अपरे । केचित्तु ‘ज्ञानमभ्यासस्य साधनम्’ इत्यत्र ज्ञानशब्देन ध्यानप्रकारज्ञानं ग्राह्यम् । तच्च ज्ञानस्य साधनमित्यर्थः । भाष्ये ‘अज्ञानपूर्वादभ्यासात्’ इत्यत्र ध्यानप्रकारज्ञानशून्याद् ध्यानावृत्तिरूपाभ्यासादित्यर्थः । ‘ज्ञानाद् ध्यानम्’ इत्यत्रापि ध्यान-प्रकारज्ञानाद् ध्यानमित्यर्थः । तथा च षष्ठाध्याये न्यायदीपिका– ‘सम्यग्ध्यानप्रकाराज्ञस्य ध्यानतो ध्यानप्रकारज्ञानमेवोत्तमम्, ध्यानप्रकारज्ञानसहितं ध्यानं ध्यानप्रकारज्ञानमात्रतोऽधिकम्’ इति व्याचक्षते । तदभव्यम् । ‘अभ्यासस्य साधनम्’ इत्यत्राभ्यासपदास्वारस्यात् । अभ्यास-पदस्य ध्यानावृत्तिपरत्वे च ‘तदभावे चाभ्यासयोगेन मां जानीहि’ इति न्यायदीपिकाविरोधः । नहि ध्यानावृत्त्या भवदभिमतं ध्यानप्रकारज्ञानं भवति । ‘ज्ञानं ध्यानस्य साधनम्’ इति टीकावाक्यविन्यासापातः । शास्त्राभ्यासेऽभ्यासशब्दस्येव ध्यानावृत्तौ तस्याप्रयोगाद्, ध्यानाभि-प्रायकत्वे ‘श्रेयो हि ज्ञानमाध्यानात्’ इति गीतापाठापत्तिश्चेति अपरे । भावप्रदीपिकायाम् ज्ञानेन सम्भवतोऽभ्यासस्य कथं ज्ञानसाधनत्वमुच्यते । ध्यानसाध्यज्ञानस्य च कथं तदवमत्वं ‘श्रेयो हि’ इत्यनेनोच्यते इत्येतत् सप्रमाणकं व्याचष्टे– ‘अज्ञानपूर्वादभ्यासादिति’ इत्यादिभाष्य-मवतारितम् ।

उपपत्तिलब्धमिति ।। ज्ञानध्यानशब्दयोः सामान्यपरत्वाभावे या उपपत्तिरभिहिता तया लब्धं ज्ञानमात्रात् सज्ञानध्यानमित्यर्थः । पदानां व्यवहितत्वाद् विवक्षितमन्वयं दर्शयति– तत्सहितमित्यादि । ‘कस्य स्तुतिरिति न ज्ञायते’ इत्यतोऽन्वयप्रतियोगिप्रदर्शनपूर्वं स्तुति-शब्दार्थमाह– त्यागस्य प्रशस्तत्वमेवेति ।। एतत् ‘कर्मपरमः’ इति प्रकृतं कर्म । ‘कर्म कर्तुमशक्तः’ इति सम्बन्ध इत्यभिसन्धानेन ‘कर्तुम्’ इत्यन्तमुपात्तम् । प्रत्यवरे अत्यधमे । ‘अन्यथा’ इत्यनुवादः, ‘ध्यानाधिक्ये सति’ इति व्याख्या । ननु सन्न्यासकर्मयोगयोर्मध्ये कर्मसन्न्यासात् कर्मानुष्ठानविषये द्वेषादिवर्जनरूपात् कर्मयोगः भगवदर्पणबुद्ध्या कर्मानुष्ठानलक्षणो विशिष्ट इत्येवमेतस्य वचनस्य पञ्चमे व्याख्यातस्य कथं प्रकृतार्थप्रत्यायकत्वम् इत्याशङ्क्य प्रकृतोपयोग्यर्थान्तरमाह– कर्मफलरागसन्न्यासादिति ।। सन्न्यासः त्यागः, कर्मयोगः भगव-दर्पणबुद्ध्या कर्मानुष्ठानं विशिष्यत इत्युक्तिमात्रेण प्रकृतार्थस्य ध्यानयोगोत्तमत्वस्यालाभात् तद्घटनायाह– किमुत ध्यानयोग इति ।। वक्ष्यमाणेति ।। उत्तरार्धे कर्मविरागत्यागानां वक्ष्यमाणत्वात् तदपेक्षया ध्यानमधिकमित्यर्थः । सम्बुद्धिभ्रान्तिनिरासायाह– परमात्मनीति ।। ‘कर्माफलाकाङ्क्षम्’ इत्यनेन अपौनरुक्त्यायाह– शोभनाध्यासाभाव इति ।। अशोभने विषये शोभनत्वभ्रान्ती रागः, विशब्दश्च नञर्थः । नञश्चाभावोऽर्थ इति भावः । ‘न ध्यानकलाफलार्हा’ इति भाष्यस्य, ध्यानस्य या कला, तस्याः यत्फलम्, तदपि कर्मविरागत्यागापादयितु-मर्हन्तीत्यर्थः ।

भावदीपिका

।। अभ्यासः ध्यानम् । तत्कथमिति ।। न हि फलात् साधनं श्रेय इति भावः । एवेति केवलमिति ।। ध्यानप्रकारमज्ञात्वा कृताद् अभ्यासाद् ध्यानाद् ज्ञानमेव केवलम् ध्यानप्रकारज्ञानमेव विशिष्यत इत्यर्थः । अत्र सर्वत्रापि ज्ञानशब्देन ध्यानप्रकारज्ञानमेव विवक्षितमिति ध्येयम् । ननु ‘ज्ञानमात्रात् सज्ञानं ध्यानम्’ इति भाष्येण ‘ज्ञानाद्ध्यानं विशिष्यते’ इत्यत्रत्ययोर्ज्ञानध्यानशब्दयोः किमिति विशेषपरत्वमुच्यते इत्यतः तन्निवर्तनीयामाशङ्कामाह– ज्ञानाद्ध्यानमितीति ।। असद् बाधितार्थकमित्यर्थः । कुत इत्यत आह– सध्यानस्यापीति ।। केवलज्ञानवत् सध्यानस्यापि ज्ञानस्य पुरुषविशेषे सम्भवेन सामान्यवाचकज्ञानशब्दस्य सध्यानज्ञानपरत्वे, ततः केवलस्य ध्यानस्योत्तमत्वासम्भवादिति भावः । नन्वस्तु तर्हि अत एव बाधकाद् ज्ञानशब्दः केवलज्ञानपर इति चेत् तथाप्यनुपपत्तिरित्याह– अज्ञानपूर्वस्येति ।। कस्मिंश्चित्पुरुष इत्यर्थः । ततश्च सामान्यवाचकध्यानशब्दस्य अज्ञान-पूर्वध्यानपरत्वे ‘अज्ञात्वा ध्यायिनो ध्यानात् ज्ञानमेव विशिष्यते’ इत्यज्ञानिध्यानतः केवल-ज्ञानस्यैवोत्तमत्वप्रतिपादकप्रमाणविरोधेन ज्ञानपूर्वध्यानस्य केवलज्ञाना-दुत्तमत्वासम्भवादिति भावः ।

उपपत्तिलब्धमिति ।। पूर्वोक्तान्यथानुपपत्तिरूपोपपत्त्या ‘ज्ञानाद्ध्यानम्’ इत्यत्र ज्ञान-शब्दस्य केवलज्ञानपरत्वम्, ध्यानशब्दस्य सज्ञानध्यानपरत्वं लब्धमित्यर्थः । प्रत्यवरे अत्यन्तनीचे इत्यर्थः । ध्यानादाधिक्ये सति कर्मफलत्यागस्येत्यर्थः । ‘कथमुपदिश्येत’ इत्यन्वयः । नीचत्वाभिप्रायेण ‘अन्ते’ इति शेषः । किन्तु ‘अभ्यासयोगेन’ इत्यतः पूर्वं त्यागस्योपदेशः स्यादिति भावः । ‘तयोस्तु कर्मसन्यासात्’ इति वाक्यं प्रकृतोपयोगितया व्याचष्टे– कर्मफलरागसन्यासादिति ।। कर्मयोगोऽपीति ।। ध्यानात्प्रत्यवरोऽपीत्यर्थः । वक्ष्यमाणेति ।। ‘कर्माफलाकाङ्क्षम्’ इत्यत्रेत्यर्थः । ‘अफलाकाङ्क्षम्’ इत्यनेनैकार्थ्यपरिहाराय विरागशब्दार्थमाह– शोभनेति ।। ‘विषयेषु’ इति शेेषः ।

भावप्रकाशः

 ननु श्रवणमननात्मकशास्त्राभ्यासात् तज्जन्यतत्त्वनिर्णयात्मक-ज्ञानस्याधिक्यं सिद्धमेव । तत्किमर्थं श्रेयो हि ज्ञानमभ्यासादित्यभ्यासपदं विशेषपरतया भाष्ये व्याख्यातमित्याशङ्क्य व्याख्यानबीजमाक्षेपं दर्शयति– ननु ज्ञानमिति ।। श्रवणमननजन्य-स्तत्त्वनिर्णय इत्यर्थः । अभ्यासो नाम शास्त्राभ्यासः । स द्विविधः । श्रवणमननजन्यतत्त्व-ज्ञानपूर्वभावी तदुत्तरभावी च । आद्यः श्रवणमननरूपः । ‘यामाहुः श्रवणमनने’ इति तत्त्वप्रकाशिकोक्तेः । अन्त्यो निदिध्यासनावान्तररूपः ।

‘..............निदिध्यासनया भवेत् ।

 द्विविधा सा च सम्प्रोक्ता विष्णुशास्त्रावमर्शनम् ।

 एकं ध्यानं हरेरन्यच्चत्वार्यङ्गानि तत्र च’

इति तन्त्रसारोक्तेः । तत्रान्त्यः ‘अभ्यासस्य’ इत्यनेन ग्राह्यः । एवञ्च ज्ञानस्याभ्यास-हेतुत्वलाभ इति बोध्यम् । ननु श्रवणादिजन्यतत्त्वज्ञानाद्ध्यानस्योत्तमत्वं सिद्धमेव । तत्कुतो भाष्ये ज्ञानध्यानशब्दयोः विशेषपरत्वव्याख्यानमित्यतस्तन्निवर्त्यशङ्कामाह– ज्ञानात् ध्यान-मितीति ।। ज्ञानसामन्यस्याधमत्वं ध्यानसामान्यस्योत्तमत्वं चायुक्तमित्यर्थः ।

अधमत्वायोगे हेतुमाह– सध्यानस्यापीति ।। अत्र सर्वत्र ज्ञानशब्देन श्रवणमनन-जन्यतत्त्वनिर्णयो विवक्षित इत्यवधेयम् । उत्तमत्वायोगयुक्तिमाह– अज्ञानपूर्वस्येति ।। श्रवणादिसमकालध्यानस्येत्यर्थः । अन्ये तु । ज्ञानमभ्यासस्येति ।। ध्याप्रकारज्ञानं ध्यानस्य साधनमित्यर्थः । भाष्ये ‘अज्ञानपूर्वादभ्यासात् ’ इत्यस्य ध्यानप्रकारज्ञानशून्याद्ध्यानादित्यर्थः । ज्ञानाद्ध्यानमिति ।। ध्यानप्रकारज्ञानात् ध्यानमित्यर्थः । एवं ज्ञानस्येति ।। ‘अज्ञानपूर्वस्य’ इत्यपि व्याख्येयम् । तदुक्तं न्यायदीपिकायां षष्ठे । सम्यग्ध्यानप्रकारज्ञानस्य ध्यानतो ध्यानप्रकारज्ञानमेवोत्तमम् । ध्यानप्रकारमानसहितध्यानं ध्यानप्रकारमात्रतोऽधिकमिति ततो युक्तमुक्तमित्याहुः ।।

उपपत्तीति ।। ज्ञानध्यानशब्दयोः सामान्यपरत्वाभावे या युक्तिरुक्ता तल्लब्धं ज्ञानमात्रात् सज्ञानं ध्यानमित्यर्थः । ननु स्तुत्यर्थवादत्वेऽपि आप्तोक्तगीतायाः कथं प्रामाण्यं प्रतीतार्थ-बाधादित्यत आह– त्यागस्येति ।। तथाच लक्ष्यार्थे प्रामाण्यमिति भावः । प्राशस्त्य-लक्षणाप्रकारश्च प्रागेवोपपादितः । ननु कर्मसंन्यासो नाम यदि कर्माननुष्ठानं तदा ‘ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति’ गीताविरोधः इत्यत आह– कर्मफलरागेति ।। ‘अफलाकाङ्क्षम्’ इत्यनेन पुनरुक्तिनिरासायाह– शोभनेति ।।

Load More