इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ।। १९ ।।

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।

मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ।। १९ ।।

भाष्यम्

विकारान्तर्भावाज्ज्ञानसाधनं प्रथमत उक्तम् । बहुत्वात् साधना-त्युपयोगात् प्रभावः ।।

भावप्रदीपिका

‘यतश्च यत्’ इति पूर्वप्रतिज्ञातमनुक्त्वा, ज्ञानसाधनं प्रथमतः कथमुच्यत इत्यत आह– विकारेति । तथाऽप्युद्देशक्रममुल्लङ्घ्य लक्षणप्रभावौ किमित्यादावुदितौ इत्यत आह– बहुत्वादिति ।।

प्रमेयदीपिका

ननु ब्रह्मणि प्रतिपादिते केन साधननेेदं बुद्ध्यारूढं भवेदित्याकाङ्क्षायां साधनं पश्चाद् वक्तव्यम् । तत्कुतः प्रथमत उक्तम्? इत्यत आह– विकारेति ।। विकारेष्वन्तर्भावं ज्ञापयितुं तदनन्तरमुपोद्घातप्रक्रिययोक्तमिति भावः । उद्देशक्रमानुसारेण ‘यतश्च यत्’ (१३.४) इति प्रथममनुक्त्वा ‘स च यो यत्प्रभावश्च’ (१३.४) इत्येतत् कुत उक्तम्? इत्यत आह– बहुत्वादिति ।। सूचीकटाहनिर्माणादौ बहुत्वस्य प्राथम्यव्यभिचाराद् हेत्वन्तरोक्तिः । अलौकिकस्य प्रभावस्य बुद्ध्यारोहे हि साधनानामत्युपयोगो नतु तावान् लौकिकस्य प्रेरकत्वस्यानुभवारोह इति ज्ञापयितुं ज्ञानसाधनानन्तरमेव प्रभाव उक्तः । तत्प्रसङ्गेन स्वरूपं चेति भावः ।। १९ ।।

भावदीपः

।। साधनमिति ।। अमानित्वादिज्ञेयब्रह्मसाधनं ‘ज्ञेयं यत्तत्’ इत्याद्युक्त्यनन्तरं वक्तव्यमित्यर्थः ।। विकारेष्विति ।। इच्छाद्वेषादिष्वित्यर्थः ।। तदनन्तरम् इच्छाद्युक्त्यनन्तरम् ।। हेत्वन्तरेति ।। ‘साधनात्युपायात्’ इत्यादिहेत्वन्तरोक्तिरित्यर्थः ।। तावानिति ।। साधनानामत्युपयोग इत्यर्थः ।। पे्ररकत्वस्येति ।। ‘यतो यत्’ इत्यत्र ‘यतः’ इत्यनेन उक्तप्रेरकत्वस्येत्यर्थः ।। १९ ।।

भावरत्नकोशः

।। कुतः कस्मात् प्रयोजनात् किमर्थमिति यावत् । भाष्येऽन्तर्भावशब्दस्तज्ज्ञापनलक्षकः । पञ्चमी ल्यब्लोपनिमित्ता । तथा च ‘अन्तर्भाव-ज्ञापनमुद्दिश्य’ इति लभ्यत इति भावेन तत्र निर्गलितं दर्शयति– विकारेष्वन्तर्भावं ज्ञापयितु-मिति ।। तदनन्तरं विकारनिरूपणानन्तरम् । उपोद्धातेति ।। अलौकिकब्रह्मतद्धर्मान् बुद्धिमारोहयितुम् अमानित्वादिसाधनं ज्ञेयनिरूपणात् पूर्वमित्यर्थः । बहुत्वस्य अनल्पत्वस्य । हेत्वन्तरोक्तिः ‘साधनात्युपयोगात्’ इति हेत्वन्तरोक्तिः ।

भाष्योक्तमत्युपयोगं दर्शयति– अलौकिकस्येति ।। सर्वलोकविलक्षणतया आगमैकवेद्यस्य आदिमद्देहेन्द्रियगुणकर्मादिवर्जितत्वरूपस्य प्रभावस्य । साधनानाम् अमानित्वादीनाम् । अत्युपयोगः मानदम्भादियुक्तपुरुषाणां भगवत्प्रभावो न बुद्धिमारोहतीति प्रमाणैरावेदनादिति भावः । लौकिकस्य ‘दारुयन्त्रमयप्रतिमादौ यन्तुः, अमात्यादौ राजादेः प्रेरकत्वस्य च । लौकिकप्रमाणसिद्धस्यानुभवारोहे साधनात्युपयोगो न’ इति ज्ञापयितुम् । ‘प्रभावः’ इत्यतः पूर्वं शेषोक्तिः– ज्ञानसाधनानन्तरमेवेति ।। ‘उक्तम्’ इति पूर्वभाष्यपदस्य लिङ्गव्यत्ययेनान्वय इति भावेनोक्तम्– उक्त इति ।। लौकिकस्य वेदेतरप्रमाणगृहीतव्याप्तिकानुमानसिद्धस्य । अनुमानं चेत्थम् ‘विमतं क्षेत्रं केनचिन्नियतम् अस्वतन्त्रत्वाद्, असर्वज्ञत्वाद् अपर्याप्तशक्तिकत्वाच्च यथा रथादि इत्यपि आहुः । नन्वेवं ज्ञानसाधननिरूपणानन्तरं प्रभावस्य निरूप्यत्वमस्तु ।स च यः इतिप्रेरकस्वरूपनिरूपणस्य तु का सङ्गतिः इत्यत आह– तत्प्रसङ्गेनेति ।। प्रभावनिरूपणं हि प्रभाविनिरूपणानुबद्धम् । अतस्तत्प्रसक्ततया प्रभाविनः प्रेरकस्य स्वरूपं प्रेरणोप-योगिधर्मवैशिष्ट्यलक्षणमुक्तमित्यर्थः ।।

गीताक्षरार्थस्तु– उक्तमुपसंहृत्य तज्ज्ञानं स्तूयते– इति क्षेत्रमिति ।। इति ‘महाभूतानि’ इत्युक्तप्रकारेण क्षेत्रम्, ज्ञानम् अमानित्वादिनोक्तं ज्ञानसाधनम् ।तथाशब्दः समुच्चये ।ज्ञेयं यत् तत् इत्यादिनोक्तं तद् ब्रह्म च समासतः सङ्क्षेपेणोक्तम् । एतत् क्षेत्रादि विज्ञाय विशेषेण ज्ञात्वा मद्भावाय मय्यर्पितस्थितये उपपद्यते अर्हो भवति ।। १९ ।।

भावदीपिका

।। विकारेष्विति ।। अमानित्वादिधर्माणामपि विकार-त्वादिति भावः । तदनन्तरम् विकारनिरूपणानन्तरम् । उपोद्घातेति ।। ब्रह्मणस्तद्धर्मणः बुद्ध्यारोहसम्पादकत्वेन आदावुक्तमित्यर्थः । प्रथममिति । ‘स च यः’ इत्याद्यपेक्षया प्रथमं ‘यतश्च यत् ’ इति प्रतिज्ञा, तस्योत्तरम् ‘उपद्रष्टा’ इति प्रथममनुक्त्वेत्यर्थः । इत्येतत्कुत इति ।। इत्येतयोः प्रतिज्ञातयोः उत्तरम् ‘अनादिमत्परं ब्रह्म इत्यादिना कुत उक्तमित्यर्थः । बहुत्वस्येति ।। अनल्पत्वस्येत्यर्थः । हेत्वन्तरोक्तिः– ‘साधनात्युपयोगात्’ इति ।। तद्विवरणम्– अलौकिकस्येत्यादि ।। ‘यावान्’ इति शेषः । अनादिमत्त्वादिरूपालौकिक-प्रभावस्य अमानित्वादिधर्मरहितानां पुंसां लौकिकरीत्या बुद्धावनारोहेण अमानित्वादिसाधनानां प्रभावस्य बुद्ध्यारोहेऽत्युपयुक्तत्वात् ज्ञानसाधनामानित्वादिनिरूपणानन्तरमेव प्रभावो निरूपितः । राजादेर्लोकप्रेरकत्वस्य दर्शनेन लोकरीत्या कथंचित्प्रेरकत्वस्य अमानित्वादिधर्मशून्यानामपि पुंसां बुद्ध्यारोहसम्भवेनामानित्वादेः प्रेरकत्वस्य बुद्ध्यारोहेऽत्युपयोगाभावाद् ज्ञानसाधनामानित्वादि-निरूपणानन्तरमेव उद्देशक्रमानुसारेण प्राप्तमपि ‘यतश्च यत् इत्यस्योत्तरं नोक्तमित्याशयः । नन्वेवं ज्ञानसाधननिरूपणानन्तरं प्रभावस्य निरूपणमस्तु । ‘स च यः’ इत्युक्तप्रेरकस्वरूपस्य तदनन्तरं निरूपणे का सङ्गतिः? इत्यत आह– तत्प्रसङ्गेनेति ।। प्रभावनिरूपणप्रसङ्गेनेत्यर्थः । ‘अनादिमत् इत्यादिप्रभावप्रतिपादकशब्दस्य विशेष्यापेक्षायां ‘परं ब्रह्म’ इत्युक्तौ ‘स च यः’ इति प्रेरकस्वरूपनिरूणं च तेन लब्धमिति भावः ।। १९ ।।

भावप्रकाशः

अन्तर्भावशब्दस्तज्ज्ञानलक्षकः । ल्यब्लोपनिमित्ता पञ्चमी । ततश्चान्तर्भावज्ञानमुद्दिश्येति पर्यवस्यतीति भावेन व्याचष्टे– अन्तर्भावं ज्ञापयितुमिति ।। अलौकिकस्येति ।। वेदैकगम्यस्येत्यर्थः । लौकिकस्येति ।। वेदे शब्देतरप्रमाणगृहीत-व्याप्तिकानुमानसिद्धस्येत्यर्थः । अनुमानं चेत्थम् । विमतं केनचिन्नियतम् अपर्याप्तशक्त्यादि-मत्त्वात् रथादिवदिति । तर्हि स्वरूपोक्तिरसङ्गतेत्यत आह– तत्प्रसङ्गेनेति ।। १९ ।।