भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ।। १९ ।।
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ।। १९ ।।
भाष्यम्
मां प्राप्य न पुनरावृत्तिरिति स्थापयितुमव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति– सहस्रयुगेत्यादिना ।। सहस्रशब्दोऽनेकवाची । ब्रह्म परम् । ‘सा विश्वरूपस्य रजनी’ इति श्रुतिः । द्विपरार्धप्रलय एवात्र विवक्षितः । ‘अव्यक्ताद् व्यक्तयः सर्वाः’इत्युक्तेः ।।
भावप्रदीपिका
कुतस्त्वां प्राप्यैवापुनरावृत्तिर्नान्यप्राप्त्या ? इत्याशङ्क्य, उत्तर-श्लोकसन्दर्भमवतारयति– मामिति । ‘सहस्र’शब्दस्य प्रातीतिकोऽर्थोऽत्र न भवतीत्याह– सहस्रेति । ननु विरिञ्चाहोरात्रयोः सहस्रयुगात्मकत्वात् किमित्येवं व्याख्या ? इत्यत आह– ब्रह्मेति । ननु परब्रह्मणः कथं रात्रिः ? इत्यत आह– सेति । सा प्रलयवेला पूर्णरूपस्य हरे रजनीत्यर्थः । ननु ‘सहस्रयुग’शब्दश्रवणात् कल्पप्रलय एवायं किं न स्यात् ? इत्यत आह– द्विपरार्धेति ।
प्रमेयदीपिका
उत्तरप्रकरणस्यासङ्गतिमाशङ्क्याऽह– मां प्राप्येति ।। ‘अवस्थितानाम्’ इति शेषः । प्रतिज्ञामात्रेण हि तदुक्तम् । अव्यक्तसामर्थ्यस्यात्र कथनात् कथम् ‘आत्म’ इत्युच्यत इत्यत उक्तम्– अव्यक्ताख्येति ।। प्रलयादीति ।। तत्कारणत्व-मात्मनः । सृष्टिप्रलययोरिदम्पूर्वत्वाभावज्ञापनाय गीतामुल्लङ्घ्योक्तम् । अत्र सहस्रशब्दो दशशतवाचीति प्रतीतिनिरासायाऽह– सहस्रेति ।। बहुशब्दपर्यायोऽयम् । नतु प्रसिद्धार्थः ।।
विरिञ्चाहोरात्रयोः प्रसिद्धस्य सहस्रचतुर्युगपर्यन्तत्वात् कथमेतत्? इत्यत आह– ब्रह्मेति ।। तथाच द्विपरार्धप्रलयस्याऽदिसृष्टेश्चात्र विवक्षितत्वादुक्तं युक्तम् । ननु परस्य ब्रह्मणो नित्यत्वादहोरात्रे न स्तः । तत्कथं तत्परमेतत्? इत्यत आह– सेति ।। सा निर्व्यापारावस्था परिपूर्णरूपस्यापि हरेः रजनी इत्यर्थः । अनेनाहरपि सिद्धम् ।। भवेदेतत्, यद्यत्र द्विपरार्ध-प्रलयस्य आदिसृष्टेश्च विवक्षेत्यत्र प्रमाणं स्यादित्यत आह– द्विपरार्धेति ।। एवमादिसृष्टेश्चेत्यपि ग्राह्यम् । न ह्यवान्तरसृष्टिप्रलययोः सर्वकार्योत्पत्तिविनाशाविति भावः ।।•
भावबोधः
।। अवस्थितानामिति शेष इति । तेन प्राप्येत्यस्य समानकर्तृ-कतेत्यर्थः । गीतामुल्लङ्घ्येति । अन्यथा ‘प्रभवन्त्यहरागमे’ इति सृष्टेः प्रागुक्तत्वात् सृष्ट्यादीति वक्तव्यमित्यर्थः । याश्चेति । यस्य कालादेरित्यर्थत्वे ता आहेत्यनुपपन्नमिति भावः
।। १७,१९ ।।
भावदीपः
ल्यबन्तनिर्वाहाय– अवस्थितानामिति।। तदुक्तमिति ।। ‘मामुपेत्य तु कौन्तेय’ इत्याद्युक्तमित्यर्थः । तथाच स्थापनं सङ्गतमेवेति भावः ।। गीतानुरोधात् ‘सृष्ट्यादि’ इति वक्तव्ये कथं ‘प्रलयादि’ इति व्युत्क्रमेणोक्तिरित्यत आह– सृष्टीति ।। इदम्पूर्वेति ।। सृष्टिः पूर्वः लयः पश्चादिति वा, लयः पूर्वः सृष्टिः पश्चादिति वा न नियमोऽस्ति । पौर्णमास्यमावास्योः तिथ्योरिव चक्रवत् परिवर्तमानत्वादिति ज्ञापनायेत्यर्थः ।। अत्रेति ।। गीतायामित्यर्थः ।। १९ ।।
वाक्यार्थप्रदीपः
अवस्थितानामिति शेष इति ।। तेनावस्थितिप्राप्त्योः समानकर्तृकत्वात् प्राण्येति क्त्वाप्रत्ययो युक्त इति भावः ।।
भावरत्नकोशः
‘मां प्राप्य’ इति भाष्यस्थल्यबन्वयायाह– अवस्थिता-नामितीति । ‘इममर्थम्’ इति भाष्यार्थः । ‘स्थापयितुम्’ इति भाष्योक्तस्थापनमुपपादयितुमाह– प्रतिज्ञामात्रेण हीति । तत् ‘मामुपेत्यावस्थितानां पुनर्जन्म न विद्यते’ इति गीतोक्तम् । अत्र ‘अव्यक्ताद् व्यक्तयस्सर्वाः’ इति गीतायाम् । अव्यक्तशब्दस्य प्रधाने प्रसिद्धत्वादिति शङ्कितु-र्हृदयम् । प्रलयादेर्दोषतया प्रसिद्धस्य कथं भगवदीयत्वमित्यत आह– तत्कारणत्वमिति । इदंपूर्वत्वेति । इदंप्रथमत्वाभावज्ञापनाय ‘प्रभवन्त्यहरागमे रात्र्यागमे प्रलीयन्ते’ इति गीतोक्तसृष्टि-प्रलयक्रममुल्लङ्घ्य भाष्ये ‘प्रलयादि’ इत्युक्तमित्यर्थः । पौर्णमास्यमावास्यातिथ्योरिव विपरि-वर्तमानत्वादिति भाव इति स्वामिनः । ‘दशशत’ इति विशेषणसमासोऽयम्, न द्विगुः । तेन ङीबभाव उपपन्नः । अनेकशब्देन द्वयोरपि प्रतीतावर्थस्वारस्यादाह– बहुशब्देति ।
प्रसिद्धसहस्रचतुर्युगेति । ‘सहस्रवृत्तं तदहः स्वयम्भुवो निशा च’ इति निर्णयवचनादिति भावः । उत्तरभाष्ये ‘प्रलय एव’ इत्युक्तावपि, ‘प्रलयादि’ इति पूर्वभाष्यानुसारेणाह– तथा च द्विपरार्धेति । नित्यत्वादिति ।। कालकृतविकाराभावोपलक्षणम् । एतत् ब्रह्मपदम्, ‘सहस्र-युगपर्यन्तम्’ इति वाक्यं वा । विश्वरूपस्य इत्यस्यार्थः– परिपूर्णरूपस्येति । अनेन ‘रजनी’ इति वचनेन, तस्या अहरविनाभावादिति भावः । अत्र ‘सहस्रयुगपर्यन्तम्’ इति गीतायाम् । आदि-सृष्टिश्च विवक्षिता । उभयत्र हेत्वाकाङ्क्षां पूरयद् भाष्यम् अव्यक्तादिति ।। तत्र सर्वपदोपादान-तात्पर्यमाह– न हीति । एवं द्विपरार्धप्रलय आदिसृष्टिः विवक्षिते ।।
गीताक्षरार्थस्तु- महामहिमस्थापनायोक्तौ सृष्टिलयौ न सकृदेव तस्मादित्युच्यते भूतग्राम इति । यो व्यक्तिशब्देनोक्तो भूतग्रामः ब्रह्मादिचेतनाचेतनसमुदायः, स एवायम् अहरागमे ‘प्रभवति’ इत्युक्तोत्पत्तिमनूद्य लय उच्यते । भूत्वा उत्पद्य रात्र्यागमे अवशो भगवद्वशः सन् तत्र प्रलीयत इति ।। १९ ।।
भावदीपिका
‘स्थापयितुम्’ इत्यस्य विशेषणस्य कृत्यमाह– प्रतिज्ञेति ।। ‘मामुपेत्य पुनर्जन्म न विद्यते’ इत्येतत् प्रतिज्ञामात्रेणैवोक्तम्, न तु युक्त्यादिभिः स्थापित-मित्यर्थः । समानकर्तृकत्वलाभायाह– अवस्थितानामिति ।। इदंपूर्वत्वाभावेति ।। चक्रवत् परिवृत्तेः प्रमितत्वादिति भावः । आत्मन इति स्वस्य भगवत इत्यर्थः । गीतामुल्लङ्घ्येति ।। अन्यथा गीतानुसारेण वक्तव्यं ‘प्रभवन्त्यहरागमे’ इति गीतायां सृष्टेः प्रागुक्तत्वात् सृष्ट्यादि दर्शयतीति वक्तव्यं स्यादित्यर्थः । प्रसिद्धार्थः दशशतरूपः । विरिञ्चेति ।।
‘सहस्रवृत्तं तदहः स्वयम्भवो निशा च तन्मानमितं शरच्छतम्’
‘चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।
रात्रिश्च तावती..।।’
इत्यादिवचनादिति भावः । उक्तं सहस्रशब्दस्यानेकवाचित्वम् । ‘विश्वं समस्तं पूर्णं च’ इत्याभिधानात् ‘परिपूर्ण’ इत्युक्तम् । कालतः परिपूर्णरूपवतो नित्यदेहादिमतोऽपीति यावत् । अनेन रजनीसद्भाववचनेन । अहरपीति ।। सव्यापारावस्थैवाहरिति भावः ।। अवान्तर-सृष्टिप्रलययोरिति ।। दैनन्दिनसृष्टिप्रलययोरित्यर्थः । आकाशादीनामिति ।। ब्रह्माण्डावरण-भूतानामित्यर्थः । नापीति ।। ब्रह्माण्डावरणभूतपञ्चमहाभूतनाशानन्तरम् अहंतत्त्वनाशः, तदनन्तरं विरिञ्चदेहस्य महतत्त्वस्यापि नाशो भवत्येवेत्यर्थः ।। १७,१९ ।।
भावप्रकाशः
समानकर्तृकतानिर्वाहार्थं प्राप्येत्यतः परमध्याहरति– अवस्थितानामिति शेष इति । ननु मामुपेत्य पुनर्जन्मेत्यादिनोक्तत्वात् पुनरुक्तिरित्यत आह– प्रतिज्ञामात्रेणेति । ननु प्रलयादिमात्रं नात्मसामर्थ्यम् । प्रपञ्चधर्मत्वादित्यत आह– तत्कारणत्व- मिति । आत्मन इति शेषोक्तिः । नित्यत्वादिति ।। कालकृतविकाराभावादित्यर्थः । उप-लक्षणमेतत् । परनामनिमेषकान्त इत्यादौ द्विपरार्धकालस्य निमेषत्वेनोक्तत्वाच्चेत्यपि ग्राह्यम्
।। १७-१९ ।।