श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ।। ९ ।।
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ।। ९ ।।
भाष्यम्
भोगोस्यापि साधितः पुरस्तात् ।। इन्द्रियद्वाराऽपि सोऽपि भुङ्क्ते । ‘तद्य इमे वीणायां गायन्त्येतं ते गायन्ति’(छां.उ.१.७.६) इति च श्रुतिः । गुणान्वितमेव भुङ्क्ते । ‘न ह वै देवान् पापं गच्छति’ (बृ.उ.३.६.२७) इति श्रुतेः ।। ९ ।।
भावप्रदीपिका
अभोक्ता हरिः कथं विषयानुपसेवते ? इत्यत आह– भोग इति ।। भोक्तृत्वेऽपीश्वरस्य जीवेन्द्रयद्वारा भोक्तृत्वं कुतः ? इत्यत आह– इन्द्रयेति । नन्वन्द्रियद्वारा यदि भुङ्क्ते, तर्ह्यशुभभोगोऽपि सम्भवतीत्याशङ्क्य, उत्तरश्लोके परिहृतमित्याह– गुणेति ।। ९ ।।
प्रमेयदीपिका
ननु ‘श्रोत्रम्’ इत्यादिना विषयभोगोऽस्योच्यते । न चेश्वरस्यासावस्ति । किन्तु जीवस्यैव । तत्कथमिदमीश्वरविषयम्? इत्यत आह– भोग इति ।। पुरस्तात् सप्तमे ।। अस्तीश्वरस्य भोगः । किन्तु जीवेन्द्रियैर्नास्तीत्यतो जीव-विषयमेतदित्यत आह– इन्द्रियेति ।।‘राजाद्यन्तर्गतं गायन्ति’ इत्यनेन हि तच्छ्रोेत्रेण गानभोगो लभ्यते । विषयभोगाङ्गीकारे दुष्टस्यापि भोगः स्यादित्यत उत्तरवाक्यगतं विशेषणमाश्रित्याह– गुणेति ।। गुणमेवेत्यर्थः । एतद्भुञ्जानस्य विशेषणमिति केचित्। तान् प्रत्याह– न ह वा इति ।। ९ ।।
भावबोधः
।। राजाद्यन्तर्गतमिति ।। अनेन‘एतम्’ इत्येतद्व्याख्यातं भवति
।। ९ ।।
भावदीपः
‘कर्तुः क्यङ् सलोपश्च’(पा.सू.३.१.११) इत्युपमानादाचारार्थे क्यङन्तोऽयं पुरुषायत इति शब्द इत्युपेत्य तदर्थमाह– पुरुष इवेति ।। तद्वदाचारः । स्वातन्त्र्यमतिरेवेति भावः । कर्ता इति कारकपदम् ।। एतंं ते गायन्ति इत्यत्रैतच्छब्दार्थमाह– राजाद्यन्तर्गतमिति ।। उत्तरवाक्येति ।। गुणान्वितम् इत्युत्तरवाक्येत्यर्थः । न ह वै देवानिति ।। ‘किमु देवोत्तमं हरिम्’ इति श्रुतिशेषः ।। ९ ।।
भावरत्नकोशः
।। सप्तमे ‘पुण्यो गन्धः’ इति ‘भोगापेक्षयेत्यादिना’ इति शेषः ।। ‘एतम्’ इत्यस्यार्थः– राजाद्यन्तर्गतमिति ।। तच्छ्रोत्रेण राजादिश्रोत्रेन्द्रियेण । ‘गुणैः सारत्वशुचित्वादिशुभधर्मैरन्वितम् इत्यस्य ‘निर्गलितं दर्शयति– शुभमेवेति ।। ‘विषयम्’ इति शेषः । एवमभिप्रेत्यैव गमनिकायाम् ‘उत्तरवाक्यगतं विशेषणम्’ इत्युक्तम् । शङ्करस्तु ‘भुञ्जानं शब्दादीन् विषयान् उपलभमानम्, गुणान्वितं सुखदुःखमोहाख्यैर्गुणैरन्वितम् अनुगतं संयुक्तमिति भुञ्जानस्य विशेषणम्’ इत्यभाषत । तदनुवदति– एतद् भुञ्जानस्येति ।। ‘पुण्यमेवामुं गच्छति, न ह वै देवान् पापं गच्छति’ इति श्रुतौ अमुम् सप्तान्नविद्योपासकं सर्वजीवदेहान्तर्गतं हिरण्यगर्भं पुण्यमेव गच्छति, कुतः तस्य देवत्वात् । तथापि कुतः– न ह वा इति । देवमात्रस्य पापास्पृष्टपुण्यभोगनियमोक्तेः देवोत्तमस्य भगवतः सुतरां तत्सिद्ध्याऽत्र भुञ्जाने दुःखमोहाप्रसक्तेः न परोक्तं भुञ्जानविशेषणत्वं युक्तम् । किन्तु दुष्टभोगशङ्कानिवारणाय भाष्यरीत्या भुजिक्रिया-कर्मसमर्पकत्वमेवेति भावेनाह– तान् प्रत्याहेति ।। दूषयतीत्यर्थः ।।
गीताक्षरार्थस्तु– इन्द्रियाणि व्यापारयतो भगवत इन्द्रियद्वारा तत्तद्विषये भोगोऽप्यस्ती-त्युच्यते– श्रोत्रमिति ।। श्रोत्रादीनि घ्राणान्तानि बाह्येन्द्रियाणि च मनः अन्तरिन्द्रियं च अधिष्ठाय अयमेव ईश्वरपदेनोक्तः स्वतन्त्रो भगवानेव विषयान् शब्दादीन् उपसेवते उपभुङ्क्ते, जीवस्तु तदधीनतयाऽनुभवतीति जीवस्य विषयभोगेऽप्यस्वातन्त्र्यम् एवशब्देन द्योत्यते ।। ९ ।।
भावदीपिका
।। इदम् ‘शरीरं यदवाप्नोति’ इत्यादिवाक्यम् ।। सप्तम इति ।। ‘पुण्यो गन्ध इति भोगापेक्षया’ इत्यादिनेत्यर्थः ।। किन्त्विति ।। स्वीयेन्द्रियै-रेवास्तीत्यर्थः । नास्तीति ।। अत्र तु ‘अधिष्ठाय’ इति जीवेन्द्रियैर्भोग उच्यत इति भावः । लभ्यत इति ।। अन्यथा ‘तस्मात्ते धनसनयः’ इत्युत्तरत्र धनरूपफलप्राप्तिः गायकानां श्रूयते । फलप्रदश्च वासुदेव एवाखिलानाम्, नान्यो राजादिः, स्वातन्त्र्यात् । तदश्रवणे च तस्य फलदानानुपपत्तेः । पृथक् च गायनश्रवणं न दृश्यते । अतो राजादिश्रोत्रेणैव गानभोगो लभ्यत इति भावः । आश्रित्याहेति ।। उत्तरवाक्ये ‘गुणान्वितम्’ इति शुभविषयभोगस्योक्तत्वात्, तदाश्रित्य ‘विषयानुपसेवते’ इत्यस्याप्यर्थो द्रष्टव्य इत्याशयेनाहेत्यर्थः । ननु गुणशब्दस्य शुभपरत्वात् ‘तादृशान्नाद्यन्वितं पात्रादिकं भुङ्क्ते’ इत्यन्यथाप्रतीतेराह– गुणमेवेत्यर्थ इति ।। शुभमेवेत्यर्थः ।।
ननु ‘गुणान्वितं भुञ्जानम्’ इत्यस्य ‘गुणमेव भुङ्क्ते’ इत्यर्थः कथं लभ्यत इति चेदुच्यते । अत्र ‘गुणान्वितं भुञ्जानम्’ इत्यस्य ‘गुणान्वितमेव भुङ्के’ इति तात्पर्यकथनेन ‘गुणान्वितम्’ इत्येतत् ‘भुञ्जानम्’ इत्यत्र भुजिक्रियाविशेषणमिति सूचितम् । तथा च ‘भोजनं गुणान्वितम्, तत्सम्बद्धं – तत्कर्मकम्’ इति यावत् यथा स्यात्तथा ‘भुञ्जानं भुजिक्रियां कुर्वाणम्’ इति व्याख्यानेऽर्थाद् गुणान्वितं भुञ्जानस्य ‘शुभमेव भुङ्क्ते’ इत्यर्र्थो लभ्यत इति द्रष्टव्यमित्यर्थः । अन्ये तु गुणशब्दो भावप्रधानः । तथा गुणत्वान्वितो गुण एव, ततश्च ‘गुणमेव भुङ्क्ते’ इत्यर्थो लभ्यत इत्याहुः । वस्तुतस्तु ‘गुणान्वितं भुञ्जानम्’ इत्युक्ते ‘गुणेन शुभेनान्नादिनाऽन्वितं पात्रादिकं भुङ्क्ते’ इत्यर्थप्राप्त्या, तस्य बाधितत्वेन ‘सविशेषणे हि’ इति न्यायेन ‘गुणमेव भुङ्क्ते’ इति प्राप्नोतीति भाव इति सम्प्रदायः ।
एतद्भुञ्जानस्येति ।। ‘भुञ्जानं भगवन्तं नानुपश्यन्ति’ इत्युक्ते ‘कथम्भूतम्’ इति शङ्कायां ‘उत्क्रामन्तम्’ इत्यादिवत् इदमपि तस्य विशेषणमेव । ‘ज्ञानादिगुणान्वितम्’ इति तदर्थः, न त्वशुभभोगप्रसक्तिवारणाय । ‘भुञ्जानम्’ इत्यत्रत्यभुजिक्रियाकर्मकथनरूपम्, शुभमात्रभोक्तृत्वे मानाभावादित्यर्थः । तान् प्रत्याहेति ।। यदीदं भगवद्विशेषणं स्यात् तर्हि ‘भुञ्जानम्’ इति सामान्योक्त्या भगवतोऽशुभभोगस्यापि प्राप्तेस्तन्निवारकाभावाद् अस्त्वशुभभोगः, किं बाधकम् इत्याकाङ्क्षायामाहेत्यर्थः ।
न ह वा इतीति ।। ‘पुण्यमेवामुं गच्छति’ इति पूर्ववाक्यम् । अमुं सप्तान्नविद्योपासकं सर्वजीवदेहान्तर्गतं हिरण्यगर्भं प्रति पुण्यमेव गच्छति, न पापम् । कुतः ? देवो ह्यसौ जातः । तथाऽपि कुतः ‘न ह वै’ इति श्रुतौ देवमात्रस्याशुभभोगनिरासे देवोत्तमस्य हरेः सुतरां तत्सिद्धिरित्याशयः । ‘शरीरं यदवाप्नोति’ इति श्लोकोक्तं ‘उत्क्रामन्तं स्थितं वाऽपि’ इत्यनेना-नूद्य, ‘श्रोत्रम्’ इति श्लोकोक्तं शुभविषयभोजनं ‘भुञ्जानं वा गुणान्वितम्’ इत्यनेनानूद्य, ‘नानुपश्यन्ति’ इति दर्शनाभावो विधीयत इति स्पष्टं प्रतिभासनात् सुमतेर्नैव शङ्कावकाशाऽ-स्ति । अतो ‘मन्दाशङ्का’ इत्युक्तमिति द्रष्टव्यम् । भाष्ये ‘किमिति न दृश्यते’ इत्यनन्तरं ‘तस्मान्नास्त्येव’ इति शेषः पूरणीयः । अत एवोत्तरत्र ‘तदभावः’ इति वक्ष्यति ।। १० ।।
भावप्रकाशः
।। राजाद्यन्तर्गतमिति ।। अनेन ‘एतम्’ इत्येतद्व्याख्यातं भवति । भुञ्जानस्येति ।। नतु प्राग्वद्भोक्तव्यविशेषणमित्यर्थः ।। ९ ।।