तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ।। ८ ।।
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ।। ८ ।।
भाष्यम्
अज्ञानं जायते यतस्तत् अज्ञानजम् । ‘प्रमादमोहौ तमसः’ (१४.१७) इति वाक्यशेषात् ।। ८ ।।
भावप्रदीपिका
अज्ञानाज्जातमिति प्रतीतिनिरासायाह– अज्ञानमिति
।। ८ ।।
प्रमेयदीपिका
‘तमस्त्वज्ञानजम्’ इत्यस्य ‘अज्ञानाज्जातम्’ इत्यप-व्याख्यां प्रत्याख्यातुमाह– अज्ञानमिति ।। एतच्च ‘अन्येष्वपि दृश्यते’इति दृशि-ग्रहणसामर्थ्याल्लभ्यते । कुतः प्रतीत एवार्थो न? इत्यत आह– प्रमादेति ।। वाक्यशेषेऽज्ञानस्य तमःकार्यत्ववचनादित्यर्थः ।। ८ ।।
भावबोधः
ननु ‘सप्तम्यां जनेर्ड’ इति सप्तम्यन्त उपपदे जनेर्डप्रत्ययविधानात् कथमज्ञानं जायते इत्युक्तमित्यत आह– अन्येष्वपीति ।। ८ ।।
भावदीपः
।। एतच्चेति ।। ‘अज्ञानजनकम्’ इत्येतच्च ‘सप्तम्यां जनेर्डः’ इत्यत्र ‘अन्येष्वपि दृश्यते’ इत्युक्तेर्दृशिर्ग्रहणसामर्थ्यात् करणे प्रथमान्ते उपपदेऽपि जनेर्डप्रत्यये लभ्यत इत्यर्थः ।। ८ ।।
वाक्यार्थप्रदीपः
ननु अज्ञानं जायते यत इति अज्ञानजमिति कथं डप्रत्ययः । सप्तम्यां जनेर्ड इति सप्तम्यम्त उपपदे एव जनेस्तद्विधानात् प्रकृते च तदभावात् इत्यत आह– एतच्चेति ।। अन्येष्वपि उपपदेषु कारकेषु च जनेर्डप्रत्ययो भवतीत्यर्थः । अत्र चापि शब्दस्य सर्वोपाधिव्यभिचारार्थत्वेन धात्वन्तरात् कारकान्तरे वा जप्रत्यविधायकत्वसिद्धेः युक्तः अन्यत्रापि ड इति भावः ।।
भावरत्नकोशः
ननु ‘अज्ञानं जायते यतः’ इति विग्रहे ‘अज्ञानजम् इति कथं रूपम् ‘सप्तम्यां जनेर्डः’, ‘पञ्चम्यामजातौ’ ‘उपसर्गे च संज्ञायाम्’ ‘अनौ कर्मणि’ इति सप्तम्यन्तादौ उपपद एव जनेर्डप्रत्ययविधानात् प्रथमान्त उपपदे अकर्तरि अविधानात् इत्यत आह– एतच्चेति ।। उक्तविग्रहेऽपि ‘अज्ञानजम् इति रूपम् । ‘अन्येष्वपि दृश्यते’ इति सूत्रे ‘दृश्यते’ इति दृशिग्रहणसामर्थ्याद् ‘यथादर्शनं व्याख्यातव्यम् इत्यवगमात्, प्रथमान्त उपपदे अपादानकारकार्थेऽपि ‘जनी प्रादुर्भावे’ इति धातोर्डप्रत्ययो भवतीति व्याख्याने लभ्यत इत्यर्थः । अत एव सूत्रे ‘सर्वोपाधिव्यभिचारार्थः अपिशब्दः’ इति भावः । केचित्तु केवलाज्जनेः कर्तरि डप्रत्ययः, ततः ‘अज्ञानं जं जनिमत् यस्माद्’ इति पञ्चम्यर्थे बहुव्रीहिः । भाष्यं तु अर्थप्रदर्शनमात्रपरमिति व्याख्येयम् । नच तद्युक्तम् ‘अन्येष्वपि दृश्यते’ इत्यनेन सूत्रेण उपपदे सत्येव डप्रत्ययविधानात्, इत्यत आह– ‘एतच्चेति’ इत्यवातारयन् । दूरस्थस्यापि एतदर्थप्रतिपादकत्वाद् एकवाक्यता इत्यभिप्रायेण भाष्ये शेषत्वोक्तिः इति भावेनाह– वाक्यशेष इति ।। ‘प्रमादमोहौ तमसो भवतोऽज्ञानमेव च’ इति वाक्यशेषे, ‘अज्ञानं तमसः फलम्’ इति वाक्यशेषे चेत्यर्थः ।।
गीताक्षरार्थस्तु सत्त्वरजोगुणाभ्यां वैलक्षण्यद्योतनाय ‘तमस्तु’ इति तुशब्दः । तमः तमोगुणः सर्वदेहिनाम् ‘अज्ञानं जायते यतः तद् अज्ञानजम् अज्ञानजनकमित्यर्थः । मोहनं मिथ्याज्ञानजनकं विद्धि । तत् तमः प्रमादेन करणीयेष्वनवधानेन आलस्येन मान्द्येेन निद्रया च ‘सर्वदेहिनः’ इति विपरिणामेनानुवर्तते निबध्नाति । अत्रापि तमोगुणाभिमानिनी दुर्गादेवी तमोगुणकार्येण अज्ञानमिथ्याज्ञानप्रमादादिनाऽसुरजनवन्धिका इति विशेष उत्तरप्रस्थानतो ज्ञेयः । तथा च तत्र वचनम् ‘श्रीर्देवीर्बन्धिका नॄणां भूर्दैत्यानामथापरा ।’ इति । श्रीः भूः अपरा इति सत्त्वरजस्तमोगणाभिमानिन्यो देव्यो विवक्षिताः ।। ८ ।।
भावदीपिका
अत्र हि प्रथमान्ताद् अज्ञानशब्दोपपदात् ‘जनी प्रादुर्भावे’ इति धातोः ‘यतः’ इत्यपादानार्थे डप्रत्यये टीभूतस्य ‘अन् इत्यस्य लोपे प्रत्ययाकारसम्बन्धे च ‘अज्ञानजम् इति भवतीति । तदयुक्तम् । सप्तम्यां जनेर्डः, ‘पञ्चम्यामजातौ’ अन्येष्वपि दृश्यते’ इति सूत्रत्रयेण सप्तम्यन्ते पञ्चम्यन्ते उपपदे, अन्येष्वपि प्रथमादिकारकेषूपपदेषु सत्सु कर्तरि डप्रत्ययो भवति, इत्युक्तत्वात् ‘पङ्के जायते’, ‘पङ्काज्जायते’ इति वा ‘पङ्कजम्’ इत्यादौ कर्तर्येव डप्रत्ययदर्शनाच्च कथम् ‘अज्ञानं जायते यतः’ इत्यपादानत्वार्थे डप्रत्ययमङ्गीकृत्य व्याख्यानम् इत्यत आह– एतच्चान्येष्वपि दृश्यत इति दृशिग्रहणसामर्थ्याल्लभ्यत इति ।। ‘अन्येष्वपि दृश्यते’ इत्यत्र पूर्वसूत्राद् डप्रत्ययस्यानुवृत्तिसम्भवेन पुनः ‘दृश्यते’ इति दृशिग्रहणवैयर्थ्याद् व्यर्थं सत् किञ्चिदिष्टं ज्ञापयति इति न्यायेनापादानेऽपि डप्रत्ययो भवतीति दृशिग्रहणसामर्थ्याल्लभ्यत इत्यर्थः । तथा च ‘अज्ञानं जायते यतः’ इत्यपादाने डप्रत्यय-मङ्गीकृत्य व्याख्यानं युक्तमिति भावः ।। ८ ।।
भावप्रकाशः
नन्वज्ञानं जायते यत इत्येतदुपपादनायाज्ञानशब्दोपपदाज्जने-रपादानेऽन्येष्वपि दृश्यत इति ड इति वक्तव्यम् । तत्कथम् । ‘कर्तरि कृत्’ इति सूत्र-विरोधादित्यत आह– एतच्चेति ।। यद्वा ननु केवलाज्जनेः कर्तरि डः । ततोऽज्ञानं जं यस्मादिति पञ्चम्यर्थे बहुव्रीहिः । भाष्यं च विग्रहोक्तार्थप्रदर्शनपरमिति वाच्यम् । नच तद्युक्तम् । ‘अन्येष्वपि दृश्यते’ इत्यनेन उपपदे सत्येव डप्रत्ययविधानादित्यत आह– एतच्चेति ।। ८ ।।