धूमेनाऽव्रियते वह्निर्यथाऽऽदर्शो मलेन च । यथोल्बेनाऽवृतो गर्भस्तथा तेनेदमावृतम् ।। ३८ ।।
धूमेनाऽव्रियते वह्निर्यथाऽऽदर्शो मलेन च ।
यथोल्बेनाऽवृतो गर्भस्तथा तेनेदमावृतम् ।। ३८ ।।
भाष्यम्
कथं विरोधी सः? इदमनेनावृतम् । यथा धूमेन अग्निरावृतः प्रकाशरूपोऽ-प्यन्येषां न सम्यग् दर्शनाय तथा परमात्मा । यथाऽऽदर्शो मलेन आवृतोऽ-न्यस्याभिव्यक्तिहेतुर्न भवति । तथा अन्तःकरणं परमात्मादेर्व्यक्तिहेतुर्न भवति कामेन आवृतम् । यथोल्बेन आवृत्य बद्धो भवति गर्भः तथा कामेन आवृतो जीवः ।। ३८ ।।
भावप्रदीपिका
महाशनत्वादेः प्रत्यक्षसिद्धत्वे पुरुषार्थविरोधित्वं कामस्य कथमिति ? तत्परिहारायोत्तरश्लोकं व्याचष्टे– इदमिति ।। ३८ ।।
भावप्रकाशिका
कामस्य सर्वपुरुषार्थविरोधित्वप्रदर्शनायोत्तरं श्लोकद्वय-मवतार्य व्याचष्टे– कथमित्यादिना । यतः इदम् ईश्वरादिकम् अनेनावृतं कामेन, अतोऽयं विरोधीत्यर्थः । दृष्टान्तत्रयसाफल्यं दर्शयन्नेतदेव विवृणोति– यथा धूमेनेत्यादिना ।।
यथाऽग्निदेवेन सम्यक् प्रतीयमानोऽपि तज्ज्वालादिः धूमेनावृतोऽन्येषामेव सम्यङ् न प्रतीयते, तथा परमात्मा स्वात्मानं सम्यक् पश्यन्नपि जीवकामावृतः तेषामेव सम्यङ् न दृश्यते । यथाऽऽदर्शे मलेनावृते प्रतिबिम्बानाविर्भावान्न बिम्ब एतादृश इति प्रदर्शकोऽसौ, तथा कामयुतेऽन्तःकरणे प्रतिबिम्बभूतजीवज्ञानानाविर्भावान्न बिम्बभूतपरमात्मनः तत्सर्व-कर्तृत्वादेश्च प्रदर्शकं तद्भवति । ध्यानकाले वा प्रतिबिम्बभूतस्य भगवद्वपुषः तद्वस्त्रा-भरणादेश्च ।
यथा जरायुणाऽऽवृतो बद्ध एव भवति गर्भः, न तु परमात्मैवान्येषामेव सम्यङ् न प्रकाशते, अपि तु स्वात्मानमपि सम्यङ्नानुभवति । तथैव जीवः कामेनावृतः ।।
केचिदेवं प्रतीयमानं जीवपरभेदमसहमानाः ‘तेनेदम्’ इत्यत्रेदंशब्देनोत्तरश्लोकोक्तं ज्ञान-मेव परामृश्यत इति वर्णयन्ति । तत्पक्षे कामेनैकमेव ज्ञानमावृतमिति दृष्टान्तत्रयमनुपयुक्त-मयुक्तं चावरणतारतम्यप्रदर्शनम् ।। ३८ ।।
प्रमेयदीपिका
ननु प्रश्नस्योत्तरं जातं किमुत्तरेण? इत्यतः श्लोकद्वयस्य सङ्गतिमाह– कथमिति ।। सः कामः कथं मोक्षस्य विरोधी इति जिज्ञासायामाह– ‘धूमेन इत्यादि’ इति शेषः ।
विवक्षितार्थस्यास्फुटत्वाद् व्याख्याति– इदमिति ।। ईश्वर-अन्तःकरणजीवलक्षणं वस्तुत्रयम् । केन?, किमिव ? इत्याकाङ्क्षायामाद्यं पादत्रयं व्याचष्टे– यथेति ।। परमात्मा कामेनावृतः । ‘स्वयं सर्वज्ञोऽप्यन्यैर्न ज्ञायते’ इति शेषः । अन्यस्य मुखादेः । ‘परमात्मादेः’ इत्यादिपदेन जीवो गृह्यते । बन्धापेक्षयाऽऽवरणस्य समानकर्तृकत्वम् । बद्धः सङ्कुचितः । व्यापारक्षम इति यावत् । उल्बः गर्भवेष्टनम् । कामेनावृतो जीवः नेश्वरादिज्ञाने क्षम इत्यर्थः ।। ३८ ।।
भावबोधः
भवनस्य गर्भकर्तृकत्वादुल्बकर्तृकावरणस्य तेन समानकर्तृकत्वा-भावादाह– बन्धापेक्षयेति ।। ३८ ।।
भावदीपः
‘आवृत्य बद्धः’ इत्यत्र ल्यबन्तस्य साधुत्वनिर्वाहायाऽह– बन्धापेक्षयेति ।। ३८ ।।
वाक्यार्थप्रदीपः (पां.टि.)– ननु ‘समानकर्तृकयोः पूर्वकाले’ इति समानः कर्ता ययोः धात्वर्थयोः तत्र पूर्वकालधात्वर्थे वर्तमानात् धातोः क्त्वाप्रत्ययो भवतीति समानकर्तृकत्व एव क्त्वाप्रत्ययविधानात्, प्रकृते च भवनावरणरूपधात्वर्थरूपस्य भवनस्य गर्भकर्तृकत्वेन आवरणस्य उल्बकर्तृकत्वेन धात्वर्थद्वयस्यासमानकर्तृकत्वेन क्त्वाप्रत्ययस्यैव अप्राप्तेः कथं तदादेशभूतसमासेन ञ्पूर्वको ल्प्यप् इति आवृत्त्येति ल्यप् इत्यतः ‘यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते’ इत्यादौ असमानकर्तृकत्वेऽपि क्त्वाप्रत्ययस्य दर्शनेन उक्तनियमासिद्धेः नानुपपत्तिरिति सत्येव समाधाने अङ्गीकृत्योक्तनियमं भवनापेक्षया आवरणस्य समानकर्तृकत्वाभावेऽपि बन्धावरणयोरुल्ब-कर्तृकत्वेन समानकर्तृकत्वात् युक्त एवावृत्येति क्त्वाप्रत्ययादेशभूतल्यप् इत्याह– बन्धापेक्षयेति ।।
भावरत्नकोशः
‘सः’ इति भाष्यपदमनूद्यार्थमाह– स काम इति ।। ‘विरोधी’ इत्यनन्तरम् ’‘इति जिज्ञासायामाह– धूमेनेत्यादि’ इत्यन्तं शेषः । विवक्षितार्थस्य कामे महापुरुषार्थविरोधित्वस्य । ‘इदम्’ इत्यस्य मूलस्थस्य भाष्येऽनूदितस्यार्थः– ईश्वरेत्यादि ।। वस्तुत्रयं ‘आवृतम्’ इति भाष्येणान्वयः । परमात्मनः कामेन आवृतत्वे जीवस्वरूपं जीवेनेव स्वात्माऽपि स्वयं न ज्ञायेतेत्यतो भाष्ये शेषमाह– स्वयं सर्वज्ञोऽपीति ।। वह्निपदोपादानमहिम्ना अग्नेः स्वप्रकाशत्वमिव भगवतोऽपि स्वप्रकाशत्वं लभ्यत इतीयमुक्तिः । ‘अन्याभिव्यक्ति’ इत्यत्र ‘अन्यस्याभिव्यक्तिः अन्याभिव्यक्तिः’ इति विग्रहाश्रयणेनान्यस्येत्यस्यार्थमाह– अन्यस्य मुखादेरिति ।।
ननूल्बकर्तृकावरणस्य गर्भकर्तृकभवनेन समानकर्तृकत्वाभावात् कथं भाष्ये ‘आवृत्य’ इति प्रयोगः? इत्यत आह– बन्धापेक्षयेति ।। उल्बेन स्वात्मानं स्वयमावृत्य बद्धो भवति गर्भ इत्यावरणबन्धयोरवान्तरक्रिययोः स्वयमेव कर्तेति युज्यते ‘समानकर्तृकयोः पूर्वकाले क्त्वा’ इति क्त्वाप्रत्यये ल्यबिति भावः । उल्बो गर्भवेष्टनमिति ।। ‘गर्भाशयो जरायुश्च पुंस्युल्बं कललोऽ-स्त्रियाम्’ इत्यत्र‘ अस्त्रियाम्’इत्यस्याऽकर्षणार्थश्चकार इति बन्दिघटीये व्याख्यानात्, ‘कललो जरायुरुल्बः’ इति पुंस्काण्डे रत्नकोशकारवचनात्, ‘अथोल्बं क्लीबं स्याद् गर्भाशयोऽथ तत् पुंस्याहामरदत्तोऽस्मिन्नर्थे’ इति केशववचनात्, प्रमाणवचनाच्च पुंलिङ्गप्रयोगो युक्तः । गर्भवेष्टनं गर्भवेष्टनचर्म । ‘कामेन’ इत्यनन्तरम् ‘आवृतः’ इति शेषो भाष्ये । ‘तथा’ इत्यस्यार्थः– नेश्वरेत्यादि ।। ३८ ।।
भावदीपिका
।। विवक्षितार्थस्य मोक्षविरोधित्वस्य । भाष्ये ‘अनेन’ इत्यस्य ‘कामेन’ इत्यर्थः । भाष्ये– प्रकाशरूपोऽपीति ।। प्रकाशरूपोऽप्यग्निर्धूमेनाऽवृतः सन् अन्येषां सम्यग्दर्शनाय न भवति । अन्यैः सम्यक् न ज्ञायत इति यावत् । ‘अन्याभिव्यक्ति’ इत्यत्र षष्ठ्यन्तान्यपदार्थमाह– अन्यस्येति ।। ननु भवनस्य गर्भकर्तृकत्वाद् आवरणस्य तूल्बकर्तृ-कत्वात् कथं समानकर्तृकत्वम्? तथा च ‘आवृत्य’ इति क्त्वादेशभूतस्य ल्यपोऽनुपपत्तिरित्यत आह– बन्धेति ।। तथा च बन्धावरणयोरुभयोरप्युल्बकर्तृकत्वाद् युक्तं समानकर्तृकत्वम् । आवृतत्वाद् भेदाय बद्धत्वं व्याख्याति– बद्ध इति ।। ३८ ।।
भावप्रकाशः
ननूल्बकर्तृकावरणस्य गर्भकर्तृकभवनेन समानकर्तृकत्वाभावात् कथम् ‘आवृत्य’ इति प्रयोगः? इत्यत आह– बन्धापेक्षयेति ।। उल्बो गर्भवेष्टनमिति ।। ‘गर्भाशयो जरायुः स्यादुल्बञ्च’ इति कोशप्रसिद्धोल्बशद्वस्य नपुंसकत्वेऽपि ‘गर्भस्योल्बो हि कामक’ इति पुराणप्रसिद्धिः ‘लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य’ इति महाभाष्योक्तिं चाश्रित्य पुल्लिङ्गप्रयोगः कृत इति मन्तव्यम् ।। ३८ ।।