बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।। ५० ।।
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।। ५० ।।
भाष्यम्
ज्ञानफलमाह– बुद्धियुक्त इति ।। सुकृतमप्यप्रियं मानुष्यादिफलं जहाति । न बृहत्फलमुपासनादिजनितम् ।। ‘न हास्य कर्म क्षीयते’ ‘अविदित्वाऽ-स्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तदेवास्य तद्भवति’ (बृ.उ.३.५.९,१०) इत्यादिश्रुतिभ्यः ।।
भावप्रदीपिका
यतो न विशेषतः फलमिति नरकादिप्राप्त्येककर्मणां काम्य- कर्मणां कृपणत्वेऽपि कुतो ज्ञानादत्यवरत्वं कर्मण इत्याशङ्कोत्तरत्वेनोत्तरश्लोकमवतार्य व्याचष्टे– ज्ञानेति ।। न चास्य ‘यावानार्थः’ इत्यनेन गतार्थता । तत्र कर्मफलात् ज्ञान-फलस्याधिक्यकथनात्, अत्र कर्मनिषिद्धत्वं च ज्ञानस्यात्युत्तमत्वोक्तेरिति ।। सुकृतहानपदेन सर्वसुकृतहानमित्यपव्याख्यानं निराकरोति– सुकृतमपीति ।।
भावप्रकाशिका
ज्ञानादत्यवरत्वात् कर्मणः फलापेक्षया ज्ञाने स्थितिं कुर्वित्युक्तम् । तत्कथमित्याकाङ्क्षायां कर्मी स्वर्गादिभोगानन्तरं निरयाद्यपि गच्छति । ज्ञानी तु तदापादकं सर्वं कर्म हित्वाऽनन्तरं सुखमेवाश्नुत इति भावेनोत्तरश्लोकमवतारयति– ज्ञानफलमिति ।। अत्र कश्चिज्ज्ञानिनः सर्वसुकृतहानिमाचष्टे । न त्वप्रियमानुष्यादि-सुकृतहानिमात्रम् । कर्ममात्रस्य फलपाकान्तत्वश्रवणात् । ‘पुण्यपापे विधूय’ इत्य-विशेषणोभयक्षयश्रुतेश्चेति ।। तन्न युक्तमित्याह– सुकृतमपीत्यादिना ।।
प्रमेयदीपिका
‘बुद्धियुक्तः प्रेक्षावान् काम्यं सुकृतं दुष्कृतं च जह्यात्’ इति योगस्वरूपनिरूपणपरतां निराकर्तुमाह– ज्ञानेति ।। कथं कर्मणो ज्ञानादतीवावरत्वम्? इत्यतः काम्यकर्मिणः कृपणा दीनाः ‘इमं लोकं हीनतरं वा विशन्ति’ (मु.१.२.१०) इत्युक्तेः इत्युक्तम् । तथाऽपि कथं दूरेणावरम्? इत्यपेक्षायां कर्मफलाद्विलक्षणं ज्ञान-फलमाहेत्यर्थः । प्रतीतार्थेऽनुपपत्तिं तूत्तरत्र दर्शयिष्यति ।। अत्र दुष्कृतवत् सुकृतस्यापि सर्वात्मना हानं प्रतीयते । तत् सङ्कोचेन व्याचष्टे– सुकृतमपीति ।। अप्रियं सुकृतं कीदृशम्? इत्यत आह– मानुष्यादीति ।। व्यावर्त्यमाह– नेति ।। बृहत् प्राङ् मुक्तेः ज्ञानादिगुणविवृद्धिलक्षणं तदनन्तरञ्चानन्दवृद्धिरूपं फलं यस्य तद् बृहत्फलम् । तथाभूतं सुकृतमेव नास्ति । कारणाभावादित्यत आह– उपासनेति ।। आदिपदेन निवृत्तं कर्म । कुतः सङ्कोचः? इत्यत आह– न हास्येति ।। यजते ददाति । तप्यते ‘अनेन’ इति शेषः । अत्रापि ‘अविदित्वा’ इति विशेषणाज्ज्ञानिनः सुकृताक्षयः प्रतीयते । उत्तरत्र चास्याः श्रुतेरुपयोगः ।।
भावबोधः
काम्यकर्मिण इति ।। ‘फलहेतवः’ इति पदेनोक्ता इत्यर्थः । अनेनास्योपयोगोऽप्युक्तो भवति । उत्तरत्रेति ।। ‘अतो योगाय इत्यादिना ‘तस्मात्’ इति तृतीयपादव्याख्यानेनेत्यर्थः । श्रुतौ पुनरुक्तिपरिहाराय ‘यजत’ इत्येतद्व्याख्याति– ददातीति ।। ‘यज देवपूजासङ्गतिकरणदानेषु’ इति धातोरित्यर्थः । ‘तप्यत’ इत्यत्र कर्तुस्तिङाऽनुक्ते-रनेनेत्युक्तम् । उत्तरत्र चेति ।। अतः कर्मक्षयश्रुतिरज्ञानिविषयेत्यत्रेत्यर्थः ।
भावदीपः
‘फलहेतवः’ इति पदलब्धमाह– काम्यकर्मण इति ।। ‘कृपणाः’ इत्यनूद्य ‘दीनाः’ इति व्याख्या कृता । तस्य तात्पर्यम् ‘इमं लोेकम्’ इत्यादीत्युक्तमिति । एतेन ‘कृपणाः’ इति पदस्यावरत्वोपपादकत्वं विवृतं ध्येयम् ।।
‘इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्टे सुकृते तेऽनुभूत्वेमं लोकम्’
इति श्रुत्यन्तरोक्त एव ‘कृपणाः’ इत्यस्यार्थ इति भावेन ‘इमं लोकम्’ इत्याद्युक्तम् ।। उत्तरत्र दर्शयिष्यतीति ।। ‘न हीष्टपुण्यक्षये’ इत्यादिनेति भावः ।। यद्वा ‘अतो योगाय युज्यस्व’ इति तृतीयपादसङ्गत्युक्त्यवसरे प्रतीतार्थे तृतीयपादासङ्गतिरूपानुपपत्तिं दर्शयिष्य-तीत्यर्थः ।। ‘जुहोति’ इत्यनेनापौनरुक्त्यायाह– यजतेति ।। ‘यज देवपूजासङ्गतिकरणदानेषु’ (पा.धा.१००२) इति धातोरिति भावः । ‘तप्यते’ इत्यत्र कर्तारमाह– अनेनेति ।। उत्तरत्र चेति ।। ‘अतः’ इति वाक्ये ‘उभयक्षय’ इति वाक्येऽपीत्यर्थः ।।
वाक्यार्थप्रदीपः
तप्यते अनेनेति ।। ननु तपस्तपःकर्मकस्यैवेति तपःकर्मकस्य तपेः कर्तुः कर्मवद्भावोक्तेः कर्मवत्वेन च कार्यातिदेशाद्यगात्मनेपदादिलाभात् तप्यते तपस्तापस इत्यादाविव तिङा कर्तुरुक्तत्वादनभिहिताधिकारतृतीयानुपपत्तेः कथं टीकायाम् अनेनेति शेषपूरणमिति चेत् । न । कर्मकर्तरि लकारोत्पत्तौ कर्तुस्तिङोक्तत्वेन तृतीयानुपपत्तिप्रसक्तावपि तापसेन तपस्तप्यत इत्यादाविव शुद्धकर्मण्येव लकारोपपत्तौ कर्मणस्तिङोक्तत्वेऽपि कर्तुस्तेना-नुक्तत्वेन कर्तरि तेनानभिहिताधिकारेऽपि तृतीयोपपत्तेरित्याशयात् ।।
भावरत्नकोशः
अन्यथाप्रतीतिं दर्शयितुमुक्तम्– प्रेक्षावानिति । परोक्ष-ज्ञानीत्यर्थः । ज्ञानफलकथनस्य प्रकृतोपयोगसिद्धये भाष्यभावमाह– कथं कर्मण इति ।। ‘फलहेतवः’ इत्यस्य फलितार्थः काम्यकर्मिण इति ।। ननु कार्पण्यमनौदार्यं, दृश्यते च काम्य-कर्मिणामौदार्यमिति कथं ते कृपणा इत्यत आह– दीना इति ।। एवमपि कथमवरत्वलाभ इत्यतो दीनशब्दतात्पर्यमाह– इममिति ।।
‘देवेभ्य उत्तमं विष्णुं राजवद् यस्तु मन्यते ।
याजी स मानुषं याति साम्यहीनत्ववित्तमः’
इति वचनाद्त अयं वाशब्दो व्यवस्थितविकल्पार्थोऽवगन्तव्यः । तथा चोक्तविधं कृपणत्व-मवरत्वे प्रयोजकमिति भावः । ज्ञानिनामपि लौकिकदुःखानुभवदर्शनेन कृपणत्वं सममिति भावेनाक्षिपति– तथाऽपि कथमिति ।। अवरं कर्मेति शेषः । योगस्वरूपनिरूपणमत्रेति प्रतीतार्थे किं बाधकमित्यत आह– प्रतीतार्थ इति ।। पूर्वार्धस्यास्मद्रीत्या ज्ञानफलप्रदर्शनपरत्व एव ज्ञानस्यैवं महाफलत्वाज्ज्ञानोपायाय युज्यस्वेति तृतीयपादः सङ्गच्छते । बुद्धियुक्तः प्रेक्षा-वानिति पूर्वोक्तविधया योगस्वरूपनिरूपणपरत्वे तु ‘बुद्धियुक्तः सुकृतदुष्कृते जह्यात्’ इति योगस्य विहितत्वेन ‘तस्माद् योगाय युज्यस्व’ इति पुनर्विधानमसङ्गतं स्यादित्यनुपपत्तिमाचार्यः ‘अतो योगाय युज्यस्व’ इति तृतीयपादव्याख्यावसरे दर्शयिष्यतीत्यर्थः । मूले भाष्ये च सुकृत-दुष्कृतशब्दौ पुण्यपापपरौ । अन्यथा तथाभूतकर्मणामाशुतरविनाशिनां ज्ञाननाश्यत्ववर्णनमयुक्तं स्यादित्याहुः । ‘प्रतीयते’ इत्यतः परं ‘तदयुक्तम् । न हीष्टपुण्यक्षये’ इत्यादिना ‘निराकरिष्यमाणत्वादित्यत’ इति वाक्यशेषः । ‘मानुष्यादि’ इत्यादिपदेन राज्यभोगादि-परिग्रहः । व्यावर्त्यम् अप्रियमिति विशेषणव्यावर्त्यम् । ज्ञानादिगुणः ज्ञानभक्तिवैराग्यलक्षण-गुणः । तदनन्तरं मुक्त्यनन्तरम् । तथाभूतं ज्ञानादिगुणवृद्धिफलकमानन्दवृद्धिफलकञ्च । कारणाभावादिति ।। ‘सुहृदः साधुकृत्यम्’ इत्यादौ ज्ञानिनः सुकृतादृष्टप्रापककर्मादिकारणा-भावावेदनादित्यर्थः । सङ्कोचः सुकृतशब्दोऽपि प्रियसुकृतपर इति सङ्कोचः । ‘न हास्य’ इत्यतः पूर्वं ‘स य आत्मानमेव लोकमुपास्ते’ इत्यत्र ‘जानाति च’ इति तत्त्वप्रकाशिकोक्तेः ‘कारणेन कार्योपलक्षणं पश्यतीत्यर्थः’ इति सुधोक्तेश्च ज्ञानिनः कर्म उपासनादिनिमित्तं सुकृतं प्राङ्मुक्तेर्ज्ञानादिगुणवृद्धिफलकं तदनन्तरञ्चानन्दवृद्धिफलकमिति फलपर्यवसायित्वात् तत्फलस्य चानन्तत्वान्न नश्यतीत्यर्थः । ‘जुहोति’ इत्यत्र धात्वर्थभूतहोमस्य देवतोद्देशेन द्रव्यपरित्यागा-त्मकत्वाद् यजिधात्वर्थोऽपि स एवेति पुनरुक्तिरित्याशङ्क्य तत्परिहाराय व्याचष्टे– यजते ददातीति ।। यज देवपूजासङ्गतिकरणदानेष्विति धातोर्यजतिरत्र दानार्थो विवक्षित इति नोक्तपुनरुक्तिशङ्केति भावः । यद्यपि देवतोद्देशेन द्रव्यपरित्यागो यागः । तथा त्यक्तस्य वह्नौ प्रक्षेपो होम इति मीमांसकैर्यागहोमयोर्भेदोऽभ्युपगत इति न पुनरुक्तिः । तथाऽपि होमान्तर्गतत्वेन यागस्य लाभाद् यजतिर्दानार्थो व्याख्यात इत्यभियुक्ताः । ‘देवांश्च याभिर्यजते ददाति च’, ‘यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्’,‘यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्’ इत्यादिषु यागस्येव दानस्यापि पाठादत्रापि दानं ग्राह्यम् । एवञ्चाज्ञानिनो दातुरपि सुकृतमन्तवदेवेति ज्ञापितं भवतीति भावेन श्रुतौ शेषमाह– ददातीति ।। मीमांसकैश्च शब्दान्तराधिकरणे यजति ददाति जुहोतीत्युदाहृत्य यजिधात्वर्थोपरक्तभावनया जुहोत्यर्थोपरक्त-भावनया च ददातिधात्वर्थोपरक्ताभावनाऽपि भिन्नैवेत्युक्तमिति केचिद् व्याचक्षते । अन्ये तु यज देवपूजेति धातोर्यजेरत्र देवपूजार्थत्वे प्रीतिहेतुक्रियायाः पूजारूपत्वाद्धोमतपसोरपि देवताप्रीति-हेतुतया तत्पूजारूपत्वात् सङ्गतिकरणयोः प्रकृतानुपयोगेनाविवक्षितत्वाज्जुहोति तप्यत इत्येताभ्यां यजत इत्यस्य न विशेषार्थसमर्पकत्वमित्याशङ्क्य नायं धातुरुक्तार्थः, किन्तु दानार्थ इति भावेन यजत इत्येतद् ददातीति व्याख्यातमित्याहुः ।
तप्यत इत्यत्र कर्तुस्तिङाऽनुक्तेश्चैत्रेणौदनः पच्यत इत्यत्रेव कर्तरि तृतीयेति भावेनाह– तप्यतेऽनेनेति ।। ननु ‘तपस्तपःकर्मकस्यैव’ तपःकर्मकस्यैव ‘तप सन्तापे’ इति धातोः कर्ता कर्मवद् भवति । तेन यागादि तप्यते तपस्तापस इति वैयाकरणैरभिधानात् ‘अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः’ इति गीतायामभिधास्यमानत्वाच्च कर्मकर्तर्येवायं लकारः । तत्र च कर्तुस्तिङोक्तत्वान्नानभिहिताधिकारविहिता तृतीयोचिता । किन्तु प्रथमैवेति तापस इत्येव शेषपूरणं युक्तम् । न त्वनेनेत्यध्याहार इति चेदत्राहुः । ‘तपस्तप्यते’ इत्यत्र न सन्तपनरूपं तपो गृह्यते । येनोक्तसूत्रेण सन्तपनकर्तुः कर्मवद्भावविधानेन तिङाऽभिहितत्वात् तृतीया न स्यात् । किन्तु सन्तपनकारणीभूतं कृच्छ्रचान्द्रायणादिकमेव । तथा चानेन सूत्रेण सन्तपनकर्तुः कर्म-वद्भावविधानेऽपि सन्तपनकारणीभूतकृच्छ्रादिकर्तुः कर्मवद्भावाविधानात् तपोरूपकर्मण एव तिङाऽभिहितत्वेन कर्तुस्तिङाऽनभिहितत्वात् तृतीया युक्तेत्यनेनेत्यध्याहृतं टीकायामिति । केचित्तु, कर्मण्येवायं लकारः । न कर्मकर्तरि । न चोक्तसूत्रेणात्र कर्मवद्भावः । आतिदेशिक-मनित्यमिति तस्यानित्यत्वात् । न चाऽतिदेशिकस्यानित्यत्वे ज्ञापकाभावः । ‘यत्तदेतेभ्यः’ इति निर्देशस्यैव ज्ञापकत्वात् । ‘त्यदादीनां मिथः सहोक्तौ यत् परं तच्छिष्यते’ इत्युक्तेः एतेभ्य इति वक्तव्ये ‘यत्तदेतेभ्यः’ इति निर्देशः ‘प्रावृट्शरत्कालदिवां जे’ इति सूत्रे ‘अपो योनियन्मतुषु’ इति वार्तिकं च प्रकृतिवदनुकरणमित्यातिदेशिककार्यस्यानित्यत्वं ज्ञापयति । तच्च ज्ञापकं सामान्यापेक्षयाऽऽश्रीयत इति आतिदेशिककार्यमात्रमनित्यमिति विज्ञायते । अत एव दुर्घटवृत्तौ उक्तपरिभाषायाः सामान्यापेक्षामाश्रित्य बहवः प्रयोगाः समर्थिता इति ।। तस्मादनेनेत्यध्याहारो युक्त इति समादधते । अन्ये तु शाब्दिकानां विवक्षाप्रधानत्वात् कर्तुः कर्मवद्भावाविवक्षाया-मुक्ताध्याहारोपपत्तिरित्याहुः ।
यत्तु, ‘सूत्रे एवकारेणेतरकर्मव्यावृत्तिर्विवक्ष्यते, प्रकृते च तपस इव बहूनि वर्षसहस्राणीति कालस्यापि कर्मत्वाभ्युपगमेन केवलतपःकर्मकत्वाभावाद् युज्यते अनेनेति शेषपूरणमिति’ ।। तन्न । अत्र सूत्रे व्यर्थ एवकार इति वैयाकरणसिद्धान्तव्याकोपापातात् । कालस्येह कर्मत्वाभावाच्च । द्वितीया तु ‘कालाध्वनोरत्यन्तसंयोगे’ इति शास्त्रादाधारेऽपि युक्ता । ‘अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसञ्ज्ञक इति वाच्यम्’ इति वार्तिकात् कालस्य कर्मत्वमिति तु गर्भस्रावेणैव गतम् । जुहोत्यादेस्सकर्मकत्वात् । अपरे तु यजते ददाति तप्यते अनेनेत्यत्र अनेनेत्यस्य एवं यागादिसर्वकर्मप्रत्यायकवाक्योदाहरणेन सुकृताक्षयः प्रतीयते इत्यन्वय इत्याहुः ।
अत्रापि न केवलं ‘न हास्य’ इति वाक्ये । ‘यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिल्लोके जुहोति’ इत्यादिना तत्र अज्ञानिकृतहोमयागतपसामन्तवत्त्वोक्तया तेषामेव ज्ञानिकृता-नामनन्तत्वमवगम्यते । अन्यथा अविदित्वेति विशेषणवैयर्थ्यादिति प्राचीनटीकामनुसृत्याह– अविदित्वेति विशेषणादिति ।। सुकृताक्षयः यागदानतपआदिजनितसुकृतेषु न कस्यापि सुकृतस्य क्षय इत्ययमर्थः सर्वसुकृतप्रत्यायकवाक्योदाहरणेन प्रतीयते । अन्यथा ‘अनेवंविन्महत् पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव’ इति वाक्यमेवोदाहृत्य भाष्यकारः कृती स्यात् । उदाहरच्चानेकक्रियापदघटितं वाक्यम् । तेनोक्तार्थः प्रत्येतव्य इति ज्ञायत इति व्याकुर्वन्तो व्याकरणविसंवादं पर्यहरन् ।
नन्वत्र वाक्ये ज्ञानिनः सुकृताक्षयप्रतीतिरार्थिकी, न तु श्रौतीत्यतः पक्षान्तरमाह– उत्तर-त्रेति ।। न केवलं ‘न हास्य कर्म क्षीयते’ इत्युक्तेऽर्थे उक्तरीत्योपयोगः । किन्तु ‘अतः कर्मक्षयश्रुतिरज्ञानिविषया सर्वत्र’ इत्युत्तरवाक्ये च । काऽसौ कर्मक्षयश्रुतिरित्यपेक्षायामियं श्रुतिरुदाहर्तव्येत्युपयोगो ज्ञातव्य इत्यर्थः ।
भावदीपिका
बुद्धियुक्त इत्यस्य व्याख्यानम्– पे्रक्षावानिति परोक्षज्ञानी-त्यर्थः ।। योगस्वरूपेति ।। काम्यकर्मदुष्कृतयोस्त्यागोऽपि योग एवेत्यर्थः । दीना दुःखिनः । कुतो दीनत्वमवगम्यत इत्यत आह– इममिति ।। क्षयिफलश्रवणादिति भावः ।। तथाऽपीति ।। काम्यकर्मिणां कृपणत्वेऽपीत्यर्थः ।। कथमिति ।। ज्ञानिनामपि कृपणत्वसम्भवेन साम्यस्यापि सम्भवादिति भावः । कमर्फलात् काम्यकर्मफलात् । ननु योगस्वरूपरूपः प्रतीतार्थ एव किं न स्यादित्यत आह– प्रतीतार्थ इति ।। उत्तरत्रेति ।। अतो योगाय इत्यादिना तृतीयपादव्याख्यान इत्यर्थः । अस्यार्धस्यास्मद्रीत्या ज्ञानफलकथनपरत्वे तस्माद् ज्ञानस्यैव महाफलकत्वा-ज्ज्ञानोपायाय युज्यस्वेति तृतीयपादः सङ्गच्छते । बुद्धियुक्तः प्रेक्षावानित्युक्तरीत्या स्वरूप-निरूपणपरत्वे तु बुद्धियुक्तः सुकृतदुष्कृते जह्यात् । तस्माद् योगाय युज्यस्व इत्यसङ्गतम् । सुकृतदुष्कृते जह्यादिति योगस्य विहितत्वेन तस्मादिति पुनर्विधानस्यासङ्गतत्वात् ।
किञ्च यद्युक्त सन् यज्जहाति तदुपायार्थमेव यतेतेति विधानमेव सङ्गतमित्युत्तरत्र प्रदर्श-यिष्यतीति द्रष्टव्यम् । मूले मानुष्यादिफलं मानुष्यादिफलकमित्यर्थः । अत्र सुकृतदुष्कृत-शब्दावदृष्टपरौ ज्ञातव्यौ ।। व्यावर्त्यमिति ।। अप्रियमिति विशेषणस्य व्यावर्त्यमाहेत्यर्थः ।। तथाभूतं सुकृतमिति ।। आनन्दाभिवृद्ध्यादिफलकं पुण्यमित्यर्थः । कुत इत्यत आह– कारणेति ।। तादृशपुण्यजनकसाधनाभावादित्यर्थः ।। न हास्येतीति ।। ज्ञानात् पूर्वं कृतस्य ज्ञानाभिवृद्धिजननद्वाराऽक्षयत्वं ज्ञानोत्तरस्य तु मुक्तावानन्दाभिवृद्धिहेतुत्वेनेति द्रष्टव्यम् । जुहोति यजतीति पदयोः पुनरुक्तिपरिहारायाऽह– ददातीति ।। यजदेवपूजासङ्गतिकरण-दानेष्विति धातोरिति भावः । तपस्तप्यते इति श्रुतौ तपनं तप इति न भावव्युत्पत्तिः । किन्तु तप्यते येन पुमानिति व्युत्पत्त्या तपःशब्देन कृच्छ्रचान्द्रायणादिकं ग्राह्यम् ।। तप्यतेऽनेनेति ।। कृच्छ्रादिरूपं तपोऽनेन पुंसा तप्यते आर्ज्यते क्रियत इत्यर्थः ।
ननु तप्यतेऽनेनेति कथमुक्तम्? तपस्तपःकर्मकस्यैव । तप सन्तापे इति धातोः कर्ता कर्मवद् भवति । स च कर्मवद्भावस्तपःकर्मकस्यैवेति सन्तपनकर्तुः कर्मसञ्ज्ञायां कर्मणि यक् इति यक्प्रत्यये तप्यत इति रूपं सम्पद्यते । तथाच तापसः स्वर्गीयसन्तपनरूपं तपः तप्यते, आर्जयतीर्थः । तस्य कर्तुः कर्मवद्भावोऽत्र विधीयते । तप्यते तपस्तापस इत्युक्तं काशिकायाम् । तथोत्तरत्र गीतायामपि तप्यन्ते ये तपो जना इत्युक्तम् । एवं च प्रकृतेऽपि तपस्तप्यते इत्यत्र कर्मभूतस्य सन्तपनरूपस्य तपसस्तप्यत इति तिङाऽभिहितत्वं यदा प्राप्तं तदा सन्तपनकर्तुरपि कर्मसञ्ज्ञात्वेन कर्मत्वसद्भावात् तिङाऽभिहितत्वं प्राप्तमेवेति कर्तृकरणयोस्तृतीया इति तिङाद्यनुक्ते कर्तरि करणे च तृतीयाया विहितत्वात्, रामेण बाणेन हतो वालीत्यत्र वालिन इव कर्तुस्तापसस्य तप्यत इति तिङा परम्परयाऽभिहितत्वात् प्रथमैव युक्तेति चेन्न । तपस्तप्यत इत्यत्र तपःशब्देन न सन्तपनरूपं तपो गृह्यते । येनोक्तसूत्रेण सन्तपनकर्तुः कर्मवद्भावेन तिङाऽभिहितत्वात् तृतीया न स्यात् । किन्तु सन्तपनकारणीभूतं कृच्छ्रादिकमेव । तथाचानेन सूत्रेण सन्तपनकर्तुरेव कर्मवद्भावविधानेन तपनकारणीभूतकृच्छ्रादिकर्तुः कर्मवद्भावाविधानात् तपोरूपकर्मण एव तिङाऽभिहितत्वेन कर्तुस्तापसस्य रामेण बाणेनेतिवत् तिङाऽनभिहितत्वात् तृतीया युक्तेति । अनेनैवाभिप्रायेण भावबोधे तप्यत इत्यत्र कर्तुस्तिङाद्यनुक्तेरनेनेत्युक्त-मित्यवगन्तव्यम् ।।
ननु ज्ञानिकृतस्याक्षयफलवत्त्वस्याश्रवणादेतच्छु्रत्युदाहरणमसङ्गतमत आह– अत्रापीति ।। विशेषनिषेधः शेषविध्यनुज्ञापक इति न्यायादिति भावः । अत एवास्वरसादाह– उत्तरत्र वेति ।। अतः कर्मक्षयश्रुतिरज्ञानिविषया सर्वत्रेत्युत्तरत्रोच्यते । तत्र काऽसौ कर्मक्षयश्रुतिरित्यपेक्षायामिय-मुदाहृतेत्यर्थः ।
भावप्रकाशः
काम्यकर्मिण इति ।। फलहेतव इत्यनेनोक्ता इत्यर्थः । अनेना-स्योपयोगोप्युक्तो भवति । ननु काम्यकर्मिणामौदार्यमेव दृश्यते तत्कथं कृपणत्वमित्यत आह– दीना इति ।। ननु दीना इत्युक्तेऽपि न काम्यकर्मफललाभ इत्यत आह– इमं लोकमिति ।।
‘देवेभ्य उत्तमं विष्णुं राजवद्यस्तु मन्यते ।
याजी स मानुषं याति साम्यहीनत्ववित्तम’
इति प्रमाणादयं व्यवस्थितविकल्पोऽवगन्तव्यः ।। उत्तरत्रेति ।। तस्मादिति तृतीयपादीये योगायेत्यादिभाष्य इत्यर्थः । जुहोतीत्यनेन पुनरुक्तिनिरासाय व्याचष्टे– ददातीति ।। यज देवपूजासङ्गतिकरणदानेष्विति धातुव्याख्यानादिति भावः । यद्यपि देवतोद्देशेन द्रव्यत्यागो यागः । त्यक्तस्य वह्नौ प्रक्षेपो होम इति शास्त्रदीपिकादौ यागहोमयोः भेदोक्तेः न पुनरुक्तिः । तथाऽपि होमान्तर्गतत्वेन यागस्य लाभाद्यजतेः दानार्थत्वमुक्तमिति ज्ञेयम् । तप्यत इत्यत्र कर्तुस्तिङानुक्तेश्चैत्रेण घटः क्रियत इतिवत् कर्तरि तृतीयैव युक्तेति भावेनानेनेत्युक्तम् । ननु ‘तपस्तपः कर्मकस्यैव’ इत्यनेन तपःकर्मकस्य तपतेर्यः कर्ता तस्य कर्मवद्भावोक्तेः कर्मकर्तर्येवाऽयं लकारः । तत्र च कर्तुस्तिङोक्तत्वान्न तत्र तृतीयोचिता । कर्मवद्भावाच्च यगात्मनेपदोपपत्तिः । तथा च तप्यते तपस्तापस इतिवदुपपत्तेरनेनेति कथमध्याहृतम् । उच्यते । कर्मण्येव लकारोऽयं न तूक्तसूत्रेणात्र कर्मवद्भावः । आतिदेशिकमनित्यमिति तस्यानित्यत्वात् । न चातिदेशिकस्या-नित्यत्वे प्रमाणाभावः । यत्तदेतेभ्य इति निर्देशस्यैवात्र प्रमाणत्वात् । तथा हि । त्यादादीनां मिथः सहोक्तौ यत्परं तच्छिष्यत इत्युक्तेरेतेभ्य इति वक्तव्ये यत्तदेतेभ्य इति निर्देशः प्रकृतिवदनुकरणमित्यतिदेशस्यानित्यत्वं ज्ञापयति । तच्च ज्ञापकं सामान्यापेक्षमाश्रीयते । तेनातिदेशिकमनित्यमिति सिद्धम् । अवश्यञ्च सामान्यापेक्षत्वमाश्रयणीयम् । दुर्घटवृत्तावुक्त-परिभाषाश्रयणेन बहुप्रयोगसमर्थनादिति दिक् । आर्यास्क्तशाब्दिकानां विवक्षाप्रधानकत्वात् कर्मवद्भावाविवक्षायामुक्तप्रयोगोपपत्तिरिति वदन्ति । ननु ज्ञानिनः सुकृताक्षयप्रतीतिरार्थिका । नतु श्रौतीत्यतः पक्षान्तरमाह– उत्तरत्र वेति ।। अतः कर्मक्षयश्रुतिरज्ञानिविषयेत्यत्रेत्यर्थः ।।