आश्चर्यवत् पश्यति कश्चिदेनम् आश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित् ।। २९ ।।

आश्चर्यवत् पश्यति कश्चिदेनम्

आश्चर्यवद्वदति तथैव चान्यः ।

आश्चर्यवच्चैनमन्यः शृणोति

श्रुत्वाऽप्येनं वेद न चैव कश्चित् ।। २९ ।।

गीताक्षरार्थस्तु– एनं पूर्वप्रकृतं जीवं यः कश्चिदीश्वराधीनत्वसूक्ष्मत्वादिना पश्यति स द्रष्टा पुमानाश्चर्यवद् आश्चर्य एव । अन्यो यः कोऽपि तथैव उक्तप्रकारेणैव वदति अन्यो यः कोऽपि उक्तरूपेणैव शृणोति च स आश्चर्याे दुर्लभ एव । सर्वेषामात्मदर्शनादिसद्भावात् कथमात्म-दर्शनादिमान् दुर्लभ इत्यत उक्तमुपपाद्यते– श्रुत्वाऽपीति ।। दृष्ट्वा उक्तवाऽपीति ग्राह्यम् । सामान्यतो दर्शनादिसद्भावेऽपि ईश्वराधीनत्वादिना कोऽपि जीवं सम्यङ् न वेत्तीति हेतोरुक्त-मुपपन्नम् । यत्प्रतिबिम्बस्य जीवस्य द्रष्टापि दुर्लभः किं तत्सामर्थ्यं वर्णनीयमितीश्वरसामर्थ्यमनेन दर्शितं भवति । तेन चेश्वरसरूपत्वेऽपि कथमनाश इत्याशङ्का परिहृता वेदितव्येति ।। २९ ।।