अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ।। २३ ।।

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।

देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ।। २३ ।।

भावरत्नकोशः

त्वत्तः प्राप्तफलानाम् इतरदेवताः प्रतिपद्यमानानां ‘हृतज्ञानाः’ इति निन्दनं तर्हि किमिति क्रियते इत्यत उच्यते अन्तवत्त्विति । विनाश्येव तेषां तत् इतरदेवताभिः प्राप्यं फलम् अल्पमेधसां क्षुद्रफल्गुबुद्धीनामिति हेत्वर्थगर्भम् । कथमन्तवत्त्वमित्यत उक्तम् देवानिति । देवान् यजन्त इति देवयजः ते देवान् यान्ति । मद्भक्ताः ममानन्तफलदत्वज्ञानवन्तस्तु मामेव यान्ति । अपिशब्दः ‘आनुमानिकमप्येकेषाम्’ इत्यादाविव एवशब्दार्थः ।। २३ ।।