अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।। १८ ।।
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।। १८ ।।
भाष्यम्
मामात्मपरदेहेष्विति ।। न कस्यचित् विष्णुः कारयिता । यदि स्यान्मा-मपीदानीं कारयतु इत्यादि ।
‘ईश्वरो यदि सर्वस्य कारकः कारयीत माम् ।
ओति वादिनं ब्रूयात् सदाऽधो यास्यसीति तु’
इति हि सामवेदे यास्कश्रुतिः ।। १८ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये षोडशोऽध्यायः ।। १६ ।।
भावप्रदीपिका
आत्मपरदेहेष्वीश्वरद्वेषो नाम कीदृशः ? इत्यत आह– मामिति ।। १८ ।।
।। इति श्रीपद्मनाभतीर्थभट्टारकविरचित श्रीभगवद्गीताभाष्यभावप्रदीपिकायां षोडशोऽध्यायः ।।
प्रमेयदीपिका
भगवद्द्वेषस्याऽत्मपरदेहाधिकरणत्वं कथम्? इत्यत आह– मामिति ।। कुतो न? कारयिता यदि स्यात् तर्हि इदानीमकुर्वाणं मामपि कारयतु । कुर्वाणं च निवारयत्वित्यर्थः। सदाऽधः नित्यनरकम् ।। १८ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां षोडशोऽध्यायः ।। १६ ।।
भावबोधः
आदिपदार्थमाह– कुर्वाणं चेति ।। १८ ।।
।। इति श्रीरघूत्तमतीर्थप्रणीता गीताभाष्यटीकाभावबोधे षोडशोऽध्यायः ।।
भावदीपः
भाष्यमवतार्य शेषोक्त्या व्याचष्टे– कुत इति ।। आदिपदार्थोक्तिः कुर्वाणं चेति ।।
।। इति श्रीमद्गीताभाष्यटीकाभावदीपे राघवेन्द्रयतिकृते षोडशोऽध्यायः।।१६ ।।
भावरत्नकोशः
‘इदानीम्’ इत्यस्य तात्पर्यम्– अकुर्वाणमिति ।। आदिपदार्थः– कुर्वाणं चेति ।। ‘अधमां गतिम्’ इति गीतानुसारेण ‘सदाऽधः’ इत्यस्यार्थमाह– नित्यनरकमिति ।। तामिस्रान्धतामिस्ररूपमित्यर्थः ।। १८ ।।
गीताक्षरार्थस्तु अविधिपूर्वकत्वमेव विविच्यते– अहङ्कारमिति ।। क्रियासु ‘अहमेव कर्ता’ इति मिथ्याऽध्यवसायः अहङ्कारः, तं बलं परधनवनिताद्यपहारसामर्थ्यं दर्पं धनाभि-जात्यादिमदात् समुपनतस्यापि भयकारणस्य अदर्शनम्, कामं क्रोधं च संश्रिताः । आत्मपरदेहेषु च नियामकतया अन्तःस्थितं मां प्रद्विषन्तः ‘न कस्यचिद् मम परस्य वा विष्णुः कारयिताऽस्ति, यदि स्यात् कारयिता तर्हीदानीम् अकुर्वाणं मामपि कारयतु, कुर्वाणं च निवारयतु’ इत्यादिकुतर्कैरपलपन्तः अभ्यसूयकाः मद्गुणेषु मद्भक्तगुणेषु वा दोषारोपकाः नामयज्ञैर्यजन्ते ।। १८ ।।
भावदीपिका
।। अधिकरणत्वमिति ।। ‘आत्मपरदेहेषु’ इति सप्तम्या आत्मपरदेहयोः अधिकरणत्वप्रतीतेरिति भावः । ‘इत्यादि’ इत्यत्रत्यादिशब्दार्थमाह– कुर्वाणं चेति ।। अधःशब्देन नरकाख्याधोगतिरुच्यते, तस्याः सदाशब्देन नित्यत्वम् इत्यभिप्रेत्योक्तम्– सदाऽधो नित्यनरकमिति ।। १८ ।।
इति यदुपतिवरगीताभाष्यटीकासुयुक्ता
शयमतिललिताभिर्गीर्भिरावेदयित्री ।
सुललितविवृतिर्या वृष्णिराट्छात्रचीर्णा
षडधिकदशमोऽध्यायोऽन्तमस्यामवाप ।।
।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायं श्रीमद्भगवद्गीताभाष्यविवृतौ भावप्रदीपिकाख्यायां षोडशोध्यायः ।।
भावप्रकाशः
आदिपदार्थमाह– कुर्वाणं चेति ।। ‘सदाधः’ इत्येतन्महानर्थो यथा स्यात्तथा व्याचष्टे– नित्यनरकमिति ।। ।। १८ ।।
।। इति श्रीमत्तिर्मलाचार्यसूरिसूनुकृष्णविरचिते प्रमेयदीपिकाभावप्रकाशे षोडशोऽध्यायः ।।