पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ।। २२ ।।
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ।। २२ ।।
भाष्यम्
कार्यं शरीरम् । ‘शरीरं कार्यमुच्यते’ इत्यभिधानम् । कारणानि इन्द्रियाणि । भोगोऽनुभवः । स हि चिद्रूपत्वादनुभवति । प्रकृतिश्च जडत्वात् परिणामिनी । ‘कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्’ (भाग.३.२७.९) इति भागवते ।। २१,२२ ।।
भावप्रदीपिका
कार्यकारणकर्तृत्वे इति श्लोकं सप्रमाणकं व्याचष्टे– कार्यमिति ।।
प्रमेयदीपिका
कारणानामपि कार्यत्वात् पृथगुक्तिर्व्यर्थेत्यतो रूढि-माश्रित्य कार्यकारणशब्दौ व्याख्याति– कार्यमिति ।। ‘भोक्तृत्वे’ इत्यत्र प्रकृत्यर्थो भोगो अभ्यवहारादिः सुखादिविषयो न सम्भवति । अत आह– भोग इति ।। स्वीय-तया साक्षात्कार इत्यर्थः ।। भोगः प्रकृतेरेव, न पुरुषस्य । अतः ‘पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः’ इति कथमुक्तम्? इति साङ्ख्याः । तत्राह– स हीति ।। ‘न तु प्रकृतिः । अचैतन्यात्’ इति शेषः । ननु ‘कार्यकारणकर्तृत्वे हेतुः प्रकृतिः’ इत्युक्तम् । कर्तृत्वं च ज्ञानेच्छाप्रयत्नयोगः । तत्कथं प्रकृतेर्भोगासम्भव इत्यत आह प्रकृतिश्चेति ।। चस्त्वर्थः । परिणामिकारणत्वात् कर्तृत्वमित्युपचर्यत इति भावः । श्लोकार्थे पुराणसम्मतिमाह– कार्येति ।। ‘कारणं विदुः’ इत्युत्तरार्धेऽनुवर्तते ।। २१,२२ ।।
भावबोधः
।। स्वीयतया साक्षात्कार इति ।। देवदत्तादीनां यज्ञदत्तादिगत-सुखदुःखादिविषयकपरोक्षानुभवे सत्यपि तद्भोक्तृत्वाभावात् तद्व्यावृत्त्यर्थं साक्षात्कार इत्युक्तम् । सर्वज्ञत्वादीश्वरस्यापि देवदत्तादिसम्बन्धिसुखदुःखादिसाक्षात्कारसत्त्वेऽपि न तद्भोक्तृत्वमित्यतः ‘स्वीयतया’ इत्युक्तम् । पुत्रादिगतसुखदुःखादेः सुखदुःखान्तरोत्पादनद्वारा पित्रादीनां विक्रिया-हेतुत्वेन तेषामपि पुत्रादिगतसुखदुःखादिविषयकपरोक्षानुभवसत्त्वेऽपि न तद्भोक्तृत्वमित्यतस्त-द्व्यावृत्त्यर्थं ‘साक्षात्कार’ इत्युक्तम् ।। २१,२२ ।।
भावदीपः
अनुभवशब्दार्थमाह– स्वीयतयेति ।। स्वस्योच्चत्वनीचत्वापादक-सुखदुःखसाक्षात्कार इत्यर्थः ।। २१ ।।
भावरत्नकोशः
।। कारणानाम् इन्द्रियाणामपि कार्यत्वात् तैजसाहङ्कार-कार्यत्वात् । ‘अभ्यवहारादिः’ इत्यत्र अभ्यवहारः अशनम् , आदिशब्देन पालनम्, ‘भुज परिपालनाभ्यवहारयोः’ इति धातोः । तदुभयमपि सुखादिविषयकं न सम्भवति । न हि पुरुषः सुखादिकम् अश्नाति, अबाह्यपदार्थत्वात् । नापि पालयति, तथात्वे सुखनाशाभावप्रसङ्गात् । दुःखस्यानिष्टत्वेन तत्पालनस्यानिष्यमाणत्वादिति भावः । यज्ञदत्तस्य देवदत्तीयमुखप्रसादादि-हेतुकसुखाद्यनुमितिरूपानुभवे सत्यपि ‘यज्ञदत्तो देवदत्तसुखं भुङ्क्ते’ इत्यव्यवहारादुक्तम्– साक्षात्कार इति ।। एवमपीश्वरस्य देवदत्तसुखादिसाक्षात्कारसत्त्वाद् ईश्वरो देवदत्त-सुखाद्यनुभवति’ इति व्यवहारः स्यात् इत्यत उक्तम्– स्वीयतयेति ।। स्वसम्बन्धितया स्वोच्चनीचतापादकतयेत्यर्थः । तादृशश्च साक्षात्कारो नेश्वरस्येति न तद्व्यवहारापादनम् उचितमिति भाव इति स्वामिनः । ‘स्वीयतया’ इत्यस्य स्वाभिमन्यमानतयेत्यर्थः । ईश्वरस्य च देवदत्तस्येव अभिमानाभावान्नोक्तदोष इत्यपि आहुः । ‘स हि’ इति भाष्ये सः पुरुष इत्यर्थः । इति शेष इति ।। यद्यपि ‘प्रकृतिश्च जडत्वात्’ इति भाष्ये नञोऽध्याहारे, ‘अनुभवति’ इति पदानुवृत्तौ च, ‘प्रकृतिस्तु नानुभवति जडत्वात्’ इति प्रकृतार्थः सिध्यति । तथापि ‘परिणामिनी’ इत्यनेनान्वयस्य सुप्रतिभासत्वात्, नञध्याहारस्य प्रायेणादर्शनाद् एवमध्याहृतम् । श्लोकेति ।। ‘कार्यकारणकर्तृत्वे इति श्लोकार्थे ‘चिद्रूपत्वाद्’, ‘अचैतन्याद्’ इति युक्त्या सिद्धे । पुराणसम्मतिं चेति ।। न केवलं युक्त्या सिद्धमिति चशब्दः । ‘कार्यकारणकर्तृत्वे’ इत्यस्य ‘शररेन्द्रियपरिणामे’ इति निर्गलितोऽर्थः । उत्तरार्धे ‘सुखदुःखानां भोक्तृत्वे भोगे स्वीयतया साक्षात्कारे, प्रकृतेः परं पुरुषं कारणं विदुः इत्यनुवर्त्य योजना कार्येत्यर्थः ।।
गीताक्षरार्थस्तु– ‘कार्यकारणशब्दितदेहेन्द्रियादिसम्बन्धनिष्पादने भोगे च प्रकृतिपुरुषौ कर्तारौ’ इत्युक्तम् असत् । कार्यकारणसम्बन्धस्य तन्निमित्तभोगस्य च मिथ्यात्वादित्यत उच्यते– पुरुषः प्रकृतिस्थो हीति ।। पुरुषः जीवः प्रकृतिस्थः प्रकृतिपरिणतदेहादिसम्बन्धेन स्थितः सन् प्रकृतिजान् गुणान् सुखदुःखादीन् भुङ्क्ते । ‘हि’ इत्यनुभवसिद्धत्वं प्रदर्शयता मिथ्यावादस्यानुभवविरोधोऽभिप्रेयते ।
एतेन ‘यद्यत्र पुरुषपदं जीवपरं तर्हि पुनरुक्तिः स्यात् । जीवस्य ‘कार्यकारणकर्तृत्वे’ इत्यनेनौक्तकार्यकारणसम्बन्धस्यैव प्रकृतिस्थपदेनोक्तेः । ‘सुखदुःखानां भोक्तृत्वे’ इत्यनेनोक्त-सुखदुःखादिभोगस्यैव ‘भुङ्क्ते प्रकृतिजान् गुणान् इत्युक्तत्वात्’ इति चोद्यं निरस्तम् । कार्यकारण-सम्बन्धस्य सुखादिभोगस्य च प्रागुक्तत्वेऽपि तन्मिथ्यात्ववादिनो निरासाय ‘पुरुषः प्रकृतिस्थो हि’ इत्युक्तत्वादिति । ननु स्वतः शुद्धस्य जीवस्य प्राकृतदेहेन्द्रियसम्बन्धः किङ्कारणः, येन प्रकृतिजन्यगुणभोगः इत्यत उक्तम्– कारणमिति ।। अस्य जीवस्य सदसद्योनिजन्मसु नरतिर्यगादियोनिषु यानि जन्मानि उत्पत्तयः, तेषु, गुणसङ्गः सत्त्वादिगुणसम्बन्धः कारणम् । गुणसम्बन्धश्च अनादिः भगवज्ज्ञानापराधनिबन्धन इति हृदयम् ।। २२ ।।
भावदीपिका
।। कारणानामपीति ।। कार्यकारणयोरभेदादिति भावः । अभ्यवहारादिरिति ।। ‘भुज परिपालनाभ्यवहारयोः’ इति धातोरिति भावः । स्वीयतया साक्षात्कार इति ।। देवदत्तादीनां यज्ञदत्तादिगतसुखदुःखादिविषयकपरोक्षानुभवे सत्यपि तद्भोक्तृत्वाभावात् तद्व्यावृत्यर्थं ‘साक्षात्कारः’ इत्युक्तम् । सर्वज्ञत्वाद् ईश्वरस्यापि देवदत्तादि-गतसुखदुःखादिसाक्षात्कारसत्त्वेऽपि न तद्भोक्तृत्वम् इत्यतः ‘स्वीय’ इत्युक्तमिति द्रष्टव्यम् । भोगः प्रकृतेरेवेति ।। यथोक्तं साङ्ख्येन
‘तस्मान्न बध्यते न मुच्यते नापि संसरति कश्चित् ।
बध्यते संसरति मुच्यते च नानाश्रया प्रकृतिः ।।’ इति ।
न पुरुषस्येति ।। अयमाशयः । भोक्तृत्वं हि न पुरुषस्य स्वभावः । अपवर्गाभाव-प्रसङ्गात् । आगन्तुकं तु नोपपद्यते । अपरिणामित्वात् । न च प्रतीतिविरोधः । प्रतीतेरेवा-भावात् । व्यवहार एव केवलं भोक्ता आत्मा इति । स च प्रकृतिपुरुषविवेकाग्रहमात्रनिबन्धन इति भोक्तृत्वमशक्यम् आत्मनोऽङ्गीकर्तुमिति समयपादसुधोक्तरीत्यैतदुपपादनं द्रष्टव्यम् । तत्कथमिति ।। ज्ञानेच्छाप्रयत्नवत्त्वरूपकर्तृत्वाङ्गीकारे स्वीयतया साक्षात्काररूपभोगस्यावश्य-कत्वादित्याशयः । कार्येतीति ।। तथा च कार्यकारणकर्तृत्वे तदाकारेण परिणामे प्रकृति-र्हेतुरित्यर्थः ।। २१,२२ ।।
भावप्रकाशः
।। अभ्यवहारादिरिति ।। पालनसङ्ग्रहाय‘आदि’ इत्युक्तम् । ‘भुज पालनाभ्यवहारयोः’ इत्युक्तेरिति भावः । ननु सुखाद्यनुमितौ ईश्वरस्य जीवसुखादि-साक्षात्कारे चातिव्याप्तिरित्यत आह– स्वीयतया साक्षात्कार इति ।। नन्वेवमपीश्वरस्य सर्वस्वामित्वात् जीवसुखादि स्वीयमेव । तथा चेश्वरस्य जीवसुखादिसाक्षात्कारे पुनरति-व्याप्तिरति चेन्न । स्वसम्बन्धिवाचिस्वीयशब्देनाभिमानाख्यसम्बन्धस्य विवक्षितत्वात् । अभिमानस्य च द्वितीये सम्बन्धत्वापादनात् । न्यायमते मम शरीरमित्यत्रादृष्टस्य सम्बन्धत्व-वदत्राप्युपपत्तेश्चेति दिक् । नीचोच्चतारूपविकारो भोग इति तु लक्षणान्तरम् । तेन ‘नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते’ इत्यनेन न विरोध इति बोध्यम् ।। २१,२२ ।।