वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत् पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ।।२८।।

वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत् पुण्यफलं प्रदिष्टम् ।

अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ।।२८।।

।। ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे

श्रीकृष्णार्जुनसंवादे अक्षरपरब्रह्मयोगो नामाष्टमोऽध्यायः ।।

भावरत्नकोशः

एवं ‘किं तद् ब्रह्म’ इत्यादिप्रश्ननिर्णयद्वारेण अवधारितम् अक्षराख्यपरब्रह्म, तत्प्राप्त्यनुकूलमार्गादिकं च विदुषः सर्वातिशायि फलं निगद्यते वेदेष्विति ।। सम्यगधीतेषु वेदेषु यज्ञेषु साद्गुण्येनानुष्ठितेषु तपस्सु कायक्लेशात्मकचान्द्रायणादिषु सुतप्तेषु दानेषु सत्पात्रे प्रतिपादनेषु यत् पुण्यफलं प्रदिष्टं शास्त्रेणोपदिष्टं तत् सर्वमत्येति अतिक्रामति न गणयति । इदम् अक्षराख्यब्रह्मस्वरूपं तत्प्राप्तिमार्गादि विदित्वा उक्तरीत्या परिज्ञाय स्थितो योगी परम् उत्कृष्टं दिव्यम् आद्यम् आदौ भवं कारणं स्थानं वैष्णवं पदम् उपैति प्रतिपद्यते च इति ।। २८ ।।

स्वतन्त्रः कर्ताऽयं लघुरहं कर्मसु परं

प्रतिच्छायारूपः किमपि च करोमि स्वविहितम् ।

इति प्राज्ञैर्ज्ञात्वा सकलसुकृतानि प्रतिदिनं

हरावेव न्यस्यन् प्रथित इह कर्मज्ञ इति सः ।।

।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सुरेन्द्रतीर्थपूज्यपादशिष्यसुमतीन्द्रतीर्थविरचितायां प्रमेयदीपिकाव्याख्यायां भावरत्नकोशसमाख्यायामष्टमोऽध्यायः ।।