न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योेगमैश्वरम् ।। ८ ।।

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।

दिव्यं ददामि ते चक्षुः पश्य मे योेगमैश्वरम् ।। ८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- यदुक्तम् अर्जुनेन ‘मन्यसे यदि द्रष्टुं शक्यम्’ इति तत्रोच्यते– न तु मामिति ।। अनेन लौकिकेन स्वचक्षुषा द्रष्टुं न शक्यसे न शक्तो भविष्यसि । अतो दिव्यम् अलौकिकं ददामि । ऐश्वरम् ईश्वरसम्बन्धिनं योगं सामर्थ्यातिशयम् इति

।। ८ ।।