यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ।। ५९ ।।

यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।

मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ।। ५९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अथ चेत्त्वमहङ्काराद् इत्यभ्युपगम्योक्तम् । उक्ताकरणम् अशक्यं च तवेत्युच्यते– यदिति ।। यद् यदि अहङ्कारमाश्रित्य ‘स्वविहितमपि युद्धं न करिष्यामि’ इति मन्यसे अध्यवस्यसि तर्हि ते तव एष व्यवसायः युद्धाकरणनिश्चयो मिथ्यैव षण्ड एव । यतः प्रकृतिः ईश्वरेच्छा नियोक्ष्यति प्रेरयिष्यति ।। ५९ ।।