तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ।। १९
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ।। १९ ।।
भाष्यम्
सत् कार्यम् । असत् कारणम् । ‘सदभिव्यक्तरूपत्वात् कार्यमित्युच्यते बुधैः । असदव्यक्तरूपत्वात् कारणं चापि शब्दितम्’ इति ह्यभिधानात् । ‘असच्च सच्चैव च यद् विश्वं सदसतः परम्’ इति च भारते ।। १९ ।।
भावप्रदीपिका
सदसच्चाहम् इति न भावाभावप्रेरकत्वमित्याह– सदिति
।। १९ ।।
प्रमेयदीपिका
असतो नियम्यत्वानुपपत्तेः ‘सदसच्चाहम्’ इत्ययुक्त-मित्यत आह– सदिति ।। कार्यं सदित्युच्यते । अभिव्यक्तरूपत्वात् इत्यनेन सदेः गत्यर्थस्य क्विपि कर्मणि रूपमेतद् इत्युच्यते। कारणमपि अव्यक्तरूपत्वात् एव असच्छब्दितम् । कार्यकारणयोः सदसच्छब्दप्रयोगं च दर्शयति– असच्चेति ।। तस्मात् सदसतोर्विश्वस्माद् ब्रह्म परम् ।। १९ ।।
भावदीपः
।। प्रयोगं चेति ।। न केवलं व्यक्तत्वादिरूपमिति चार्थः । शेषोक्त्या वाक्यं योजयति– तस्मादिति ।। १९ ।।
वाक्यार्थप्रदीपः
।। सदेर्गत्यर्थस्येति ।। गत्यर्थात् सदेः कर्मणि क्विप् चेति क्विपि तस्य सर्वात्मना लोपे सति रूपसिद्धिरिति भावः ।।
।। इति श्रीमत्पदवाक्यमिदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां
श्रीमद्विद्याधीशतीर्थपूज्य चरणानां निजशिष्यकेन विरचिते
व्याकरणस्पृष्टप्रमेयदीपिकावाक्यार्थप्रदीपे नवमोध्यायः समाप्तः ।।
भावरत्नकोशः
।। नियम्यत्वानुपपत्तेरिति ।। ‘असदहम्’ इत्यभेदव्यपदेशो हि ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते’ इति शास्त्रात् तत्सत्तायास्तदधीनत्वनिबन्धनः । न चासतः सत्ताऽस्ति । अतः तस्येशनियम्यत्वमनुपपन्नमिति हेतोः ‘असदहम्’ इत्ययुक्तमित्यर्थः । ‘षद्लृ विशरणगत्यवसादनेषु’ इति गतेरपि धात्वर्थत्वाद् उक्तम्– गत्यर्थस्येति ।। क्विपि सम्पदादिलक्षणे, चर्त्वे तु ‘सत्’ इति रूपमित्यर्थः । ‘चशब्दोऽवधारणे’ इत्यभिप्रेत्योक्तम्– अव्यक्तरूपत्वादेवेति ।। न केवलं व्यक्तत्वाव्यक्तत्वरूपनिमित्तम्, किन्तु ‘प्रयोगे च’ इति चशब्दः । यच्छब्दश्रवणात् तच्छब्दमध्याहरति– तस्मादिति ।। परशब्दस्तन्त्रमिति भावे-नोक्तम्– ब्रह्म परमिति ।।
गीताक्षरार्थस्तु- तपामि सूर्यादौ स्थितः सन्, वर्षं वृष्टिम्, अमृतसत्तादिकारणत्वात् तद्भोक्तृत्वाच्च अमृतम् । अमृतम् अमरणम्, मृत्युर्मरणमिति वा । इन्द्रियेषु स्थित्वा तेषां देहधारणेन मृतिं परिहरतीति अमृतम् । ‘प्रलयकालादन्यदाऽपि संहर्तृत्वान्मृत्युः’ इति तात्पर्य-निर्णये । सत् कार्यम्, असत् कारणं चाहमेवेति ।। १९ ।।
भावदीपिका
।। सदेरिति ।। तथा च ‘षद्लृ विशरणगत्यवसादनेषु’ इति धातोः ‘सद्यते अवगम्यत इति कर्मार्थे क्विपि, तस्य लोपे, निर्वचनत्वात् दस्य तकारे सति ‘सत्’ इति रूपं द्रष्टव्यम् ।। १९ ।।
भावप्रकाशः
।। नियम्यत्वानुपपत्तेरिति ।। सदसच्चाहमिति व्यपदेश-बाधान्नैक्यनिबन्धनः किन्तु यदधीनेत्यादेः तदधीनत्वनिबन्धनः । नच तद्युक्तम् । असतस्तद-धीनत्वानुपपत्तेरित्यर्थः । कर्मणि क्विपीति । सम्पदादिभ्यश्चेति वार्तिकादिति शेषः ।।१९।।