अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ।। २ ।।
अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ।। २ ।।
भाष्यम्
मरणकालकर्तव्यगत्याद्यस्मिन्नध्याय उपदिशति ।। १,२ ।।
भावप्रदीपिका
भगवन्महिमापरत्वे षट्कस्यापि स्थिते, अध्यायभेदार्थमेत-दध्यायप्रतिपाद्यार्थमाह– मरणेति । उक्तव्याख्यानादेरादिपदाद्ग्रहणम् ।
भावप्रकाशिका
उक्तव्याख्यानमुखेन, मरणकालध्येयत्वेन, मुक्तप्राप्यत्वेन च भगवन्महिमोक्तेः षट्कसङ्गतौ सिद्धायामध्यायभेदप्रदर्शनार्थमाह– मरणकाल इत्यादिना ।
प्रमेयदीपिका
अध्यायस्यावान्तरप्रतिपाद्यमर्थमाह– मरणेति ।। गम्यत इति गतिः । आदिपदेन मार्गादिकम् । मरणकालकर्तव्यं च गतिश्च ते आदी यस्य तत् तथोक्तम् । कर्तव्यस्मरणविषयत्वगम्यत्वादिरूपो भगवन्महिमैव अत्र वर्ण्यत इति षट्कान्तर्भावसिद्धिः । ‘उक्तव्याख्यानपूर्वकम्’ इति चोपस्कर्तव्यम् । तेनाऽनन्तर्यलक्षणाऽपि सङ्गतिः सिद्धा । तत्प्रसङ्गेनैव मरणकालकर्तव्याद्युपदेशात् ।। १,२ ।।
भावबोधः
अत्र किं तद् ब्रह्मेेत्यादिप्रश्नपरिहाररूपप्रथमभागस्य मरणकालकर्तव्य-गत्याद्यप्रतिपादकत्वात् कथमयमध्यायार्थ इत्यत उक्तव्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यते इति तात्पर्यं हृदि कृत्वा अध्यायप्रतिपाद्यांशमाह– उक्तव्याख्यानपूर्वकमिति । किं तद्ब्रह्मेत्यादिवाक्यसन्दर्भस्य प्रश्नपरिहाररूपतया ते ब्रह्मेत्याद्युक्तविवरणरूपतयोक्तव्याख्यानत्वमित्यर्थः । एतद्भागस्य विष्णु-माहात्म्यप्रतिपादकत्वं स्पष्टमिति षट्कान्तर्भाव इति भावः ।। १,२ ।।
भावदीपः
।। अवान्तरेति ।। भगवन्महिमत्वरूपैकार्थस्यैवैेकवाक्यताहेतोरत्र प्रतिपादनादित्यर्थः । कर्मणि रूपमुपेत्याऽह– गम्यत इति ।। तात्पर्योक्तमाह– उक्तव्याख्यानेति
।। १,२ ।।
भावरत्नकोशः
ननु सप्तमाध्यायोपक्रमे ‘उत्तरैः षड्भिरध्यायैः भगवन्माहात्म्यं प्राधान्येनाह’ इति षट्कप्रतिपाद्यस्योक्तत्वात्, इह मरणकालकर्तव्यस्मरणगत्यादिरूपार्थस्य प्रतिपाद्यत्ववर्णनं प्रकृतविरुद्धम् ? इत्याशङ्क्याह– अवान्तरेति । ‘अध्यायभेदप्रदर्शनार्थम्’ इति शेषः । ‘मामनुस्मर’ इति गम्यस्यैव वक्ष्यमाणत्वादाह– गम्यत इतीति । गमेः कर्मणि क्तिन् इति न वक्ष्यमाणविसंवाद इति भावः । तथा च नवमे वक्ष्यति भाष्यकारः ‘गम्यते मुमुक्षुभिरिति गतिः’ ‘अथ कस्मादुच्यते गतिरिति ? ब्रह्मैव गतिः, तद्धि गम्यते पापविमुक्तैरिति’ इति । ‘मार्गादिकम्’ इत्यत्रादिपदेनान्त्यकालस्मरणफलम्, तदुपायप्रकारश्च ग्राह्यः । पुनरावृत्त्यपुनरावृत्तिसङ्ग्रह इत्यपि आहुः ।
उक्तव्याख्यानादेरादिपदाद् ग्रहणमिति तु भावप्रदीपिका
। कर्तव्यत्वस्य गतिविशेषणत्वप्रतीतिं व्युदस्यन् विवक्षितविग्रहं दर्शयति– मरणेति । तत् प्रमेयम् । तर्हि कथमस्य द्वितीयषट्केऽन्तर्भाव इत्यत आह– कर्तव्येति । तथा च प्राचीनटीका ‘मरणकाले ध्येयत्वेन मुक्तप्राप्यत्वेन च भगव-न्महिमोक्तेः षट्कसङ्गतौ सिद्धायामिति’ इति । एवमपि कथमस्य पूर्वेण सङ्गतिः ? इत्यतः तात्पर्योक्तमाह– उक्तेति । यदुक्तम् ‘ते ब्रह्म तद्विदुः’ इत्यादि तद्व्याख्यानपूर्वकम्, तथा ‘प्रयाण-कालेऽपि च माम्’ इति यदुक्तम्, तद्व्याख्यानपूर्वकमित्यर्थः । तत्प्रसङ्गेनैव उक्तव्याख्यानप्रसङ्गेनैव ।।
गीताक्षरार्थस्तु अत्र एतस्मिन् परिदृश्यमाने लौकिके देहे कोऽयमधियज्ञ इति स्वरूपप्रश्नः । अनेन प्रसिद्धोऽग्न्यादिर्व्यावर्तितः । कथं केन प्रकारेणाधियज्ञ इति प्रकारप्रश्नः । ‘देहे’ इत्यादि पदकृत्यं तु प्रश्नोत्तरवाक्याक्षरार्थकथनावसरे स्पष्टीभविष्यति । प्रयाणकाले अन्तकाले नियतात्मभिः वशीकृतमनस्कैः कथं ज्ञेयोऽसि ? किमर्थम् ? कथम्भूतः ? केन प्रकारेण स्मर्तव्योऽसीति ।। २ ।।
भावदीपिका
ननु मरणकालकर्तव्यप्रतिपादनस्य कथमुक्तानन्तर्यम् ? येनानन्तर्यलक्षणा सङ्गतिः सिद्ध्येत्? इत्यत आह– तत्प्रसङ्गेनैवेति ।। ‘प्रयाणकालेऽपि च माम्’ इत्युक्तव्याख्यानप्रसङ्गेनैवेत्यर्थः । तथैवेति ।। निर्विशेषणतयैवेत्यर्थः । उत्तरे त्विति ।। तथा च ‘परमं ब्रह्म अक्षरम्’ इति योजना तस्याभिप्रेतेति द्रष्टव्यम् । ‘बृह वृद्धौ’ इति देशतः कालतो वृद्ध्यर्थकब्रह्मशब्दवाच्यत्वात् । ‘अक्षरम्’ इति तदुत्तरदानेऽपि, ‘अक्षराणि स्मृता वर्णाः’ ‘कूटस्थोऽक्षर उच्यते’ इति वेदप्रकृतिस्वरूपमेवोच्यते इति प्रतीतिः स्यात्, अतोऽक्षरस्य परमत्व-विशेषणदानेन ‘अक्षरम्’ ‘ब्रह्म’ इति शब्दद्वयस्य परब्रह्मरूपैकविषयकत्वसिद्ध्या तदुभयप्रसक्ति-र्निवारितेति भावः ।।
भावप्रकाशः
ननु सप्तमोपक्रमे प्रतिपाद्यस्योक्तत्वात् पुनः प्रतिपाद्यत्वकथन-मयुक्तमित्यत उक्तम् – तत्प्रसङ्गेनैवेति ।। प्रकरणभेदसिद्ध्यर्थमिति शेषः ।। मार्गादिकमिति ।। आदिपदेन पुनरावृत्त्यपुनरावृत्तिसङ्ग्रहः ।। नन्वस्त्वक्षरं ब्रह्म परममित्यादेरुक्तव्याख्यानरूपत्वात् पूर्वाध्यायानन्तर्यम् । मरणकालकर्तव्यादिप्रतिपादकस्य कथं तदानन्तर्यमित्यत आह– तत्प्रसङ्गेनैवेति ।। उक्तव्याख्यानप्रसङ्गेनैवेत्यर्थः ।।