मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ।। ३ ।।

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।

सम्भवः सर्वभूतानां ततो भवति भारत ।। ३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– परं भूयः प्रवक्ष्यामि (१४.१) इति प्रतिज्ञातमुच्यते– मम योनिरिति ।। हे भारत महद् ब्रह्म प्रकृतिशब्दिता महालक्ष्मीः मम योनिः भार्या तस्मिन् महति ब्रह्मणि अहं गर्भं दधामि । ततः च सर्वभूतानां स्थावर-जङ्गमात्मकप्राणिनां सम्भवः देहयोगलक्षण उद्भवो भवति ।। ३ ।।