त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विका राजसी चैव तामसी चेति तां शृणु ।। २ ।।

श्रीभगवानुवाच–

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।

सात्त्विका राजसी चैव तामसी चेति तां शृणु  ।। २ ।।

भाष्यम्

अतो विभज्याऽह– त्रिविधा इत्यादिना ।। २ ।।

भावप्रदीपिका

यत एवमुत्सृष्टशास्त्रत्वं नामापाठाद्येव । अतस्तेषां सात्वकत्वादिभेदेन त्रैविध्यं वक्ति परिहार इत्याह– अत इति ।। २ ।।

प्रमेयदीपिका

ननु ‘तेषां निष्टा का ’ (१७.१) इति पृष्टे सात्वि-कत्वादिकं वक्तव्यम् । त्रिविधा इत्यादिकं किमुच्यते? इत्यत आह– अत इति ।। यत एवं अर्जुनेन वेदविधिमजानतां निष्ठा पृष्टा, अज्ञानं च न भेदकं त्रयाणामपि सम्भवात् । न चाज्ञानस्य (प्र)भेदाः सन्ति । अतः श्रद्धयाऽऽन्विताः इति तद्विशेषण-त्वेनोक्तां श्रद्धां सात्त्विकत्वादिना विभज्य तदाश्रयेण तेषां स्वरूपम् आह इत्यर्थः ।।२।।

भावदीपः

।। त्रयाणामिति ।। सात्विकराजसतामसानामित्यर्थः ।। तद्विशेषणत्वेनेति ।। वेदविध्यज्ञविशेषणत्वेनेत्यर्थः । तेषां सात्विकादीनां वेदार्थाज्ञानामिति चार्थः ।। कथं न व्याहतमिति ।। सात्विकादिस्वरूपानुरूपेति न वक्तव्यमिति भावः ।।२।।

भावरत्नकोशः

।। किमर्थमुच्यते असङ्गतत्वादिति भावः । निष्ठा स्थितिः । ननु वेदविध्यज्ञानिविशेषणम् । अज्ञानं विभज्य निष्ठोच्यताम् इत्यत आह– अज्ञानं चेति ।। त्रयाणां सात्त्विकराजसतामसानां सम्भवात् अज्ञानस्य । नन्वज्ञानावान्तरभेदात् तदाश्रयाणां विभाग उच्यताम् इत्यत आह– न चेति ।। तद्विशेषणत्वेन वेदविध्यज्ञानिविशेषणत्वेन । भावप्रदीपिकायाम् ‘ननु हेयबुद्ध्या वेदत्याग एवात्र विवक्षितः किं न स्यात् इत्यत आह– अन्यथेति ।। यदि हेयबुद्ध्या वेदत्यागिनः प्रश्नेऽभिप्रेताः स्युः, तर्हि परिहारे ‘तामसाः’ इत्येव वक्तव्यम्, न तु ‘सात्त्विकराजसतामसभेदात् त्रिविधा अपि सन्ति’ इति विभज्येत्यर्थः । सात्त्विकत्वादिकं यदि तेषामप्युच्यत तर्हि को विरोधः इत्यत आह– यदीति ।। यदि तेषां सात्त्विकत्वं तर्हि न हेयबुद्ध्या शास्त्रत्यागित्वम्, कुतः इत्यत आह– न हीति ।। सात्त्विका हि धर्मनिष्ठाः, तेषां चोत्सृष्टशास्त्रत्वे धर्मस्य शास्त्रविरुद्धत्वं स्यात् । न च तद्युक्तम्, स्मृति-विरोधादित्यर्थः । यत एवम् उत्सृष्टशास्त्रत्वं नाम वेदाद्यपाठाद्येव, अतस्तेषां सात्त्विकत्वादिना त्रैविध्यं वक्ति भगवान् परिहारे, इत्याह– अत इति ।।’’ इति व्याख्यातम् ।।

गीताक्षरार्थस्तु एवमर्जुनेन वेदविधिमजानतां निष्ठाभेदः पृष्टः । अज्ञानं च न भेदकम् । सात्त्विकराजसतामसानां त्रयाणामपि तत्सम्भवात् । न चाज्ञानवैचित्र्यात् तद्वैचित्र्यं शङ्क्यम् । अज्ञानस्य ज्ञानप्रागभावरूपस्य वैचित्र्यायोगात् । अतः ‘श्रद्धयाऽन्विताः’ इति यजनाङ्गतया अज्ञानिविशेषणत्वेनोक्तां श्रद्धां सात्त्विकत्वादिना विभज्य तदाश्रयेण तेषां स्वरूपं ज्ञातव्यमिति भावेन भगवतोत्तरमुच्यते– श्रीभगवानुवाच त्रिविधा भवति श्रद्धेति ।। या त्वया यजनाङ्गतया शास्त्रविध्यज्ञानिपुरुषविशेषणत्वेनोक्ता श्रद्धा सात्त्विकी राजसी तामसी सत्त्वरज-स्तमोगुणनिमित्तेति त्रिविधा त्रिप्रकारा । चशब्दौ इतरेतरसमुच्चये । एवशब्दस्तु ‘स्वभावज एव’ इत्यन्वेति । सा चैवंविधा त्रिविधा श्रद्धा स्वभावजैव जीवस्वरूपभूतैव इत्युक्तिः मनोवृत्तिभूत-श्रद्धाव्यावर्तनाय । ताम् एतां त्रिविधां श्रद्धां शृणु श्रुत्वा तत्र निष्ठां कुरु ।। २ ।।

भावदीपिका

ननु श्रद्धां विभज्य तेषां स्वरूपं कस्माद्वक्तव्यम् । अज्ञान-स्यैव भेदकत्वमङ्गीकृत्य तदाश्रयेण तेषां स्वरूपं कस्मान्नोच्यत इत्यत आह– अज्ञानं चेति ।। कुतः इत्यत आह– त्रयाणामपीति ।। सात्त्विकानां राजसानां तामसानां त्रयाणामप्यज्ञान-सम्भवादित्यर्थः । न चाज्ञानप्रभेदानां भेदकत्वमङ्गीकृत्य तदाश्रयेणैव तेषां स्वरूपमुच्यताम्? इत्यत आह– न चाज्ञानस्येति ।। तद्विशेषणत्वेन अज्ञानिविशेषणत्वेन । तदाश्रयेणेति ।। सात्त्विकत्वादिभेदभिन्नश्रद्धाश्रयेणेत्यर्थः ।। २ ।।

भावप्रकाशः

ननु तर्हि तद्विशेषणीभूताज्ञानं विभज्य निष्ठोच्यतामित्यत आह– अज्ञानं चेति ।। ननु अज्ञानावान्तरभेदात् तदाश्रयाणां विभागोऽस्त्वित्यत आह– न चाज्ञानस्येति ।। २ ।।