एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ।। २ ।।

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।

स कालेनेह महता योगो नष्टः परन्तप ।। २ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु - इमं धर्मं राजर्षयः मान्धातृसगराम्बरीषप्रभृतयो राजसत्तमा विदुः, अनुष्ठितवन्तश्च । स योगो महता दीर्घेण कालेन इह लोके नष्टः अदर्शनं गतः । परन्तप परे विपक्षाः, तान् शौर्यतेजोगभस्तिभिः भानुरिव तापयतीति, तथा, उक्तशत्रुतापनेति सम्बोधनम् ।। २ ।।