यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ।। ११ ।।
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ।। ११ ।।
भाष्यम्
यतन्तः ज्ञानं प्राप्य । अकृतात्मानः अशुद्धबुद्धयः ।। ११ ।।
भावप्रदीपिका
यततां कथमपरोक्षदर्शनम् ? इत्यत आह– यतन्त इति । सर्वात्मनामकृतत्वात् को विशेषः ? इत्यत आह– अकृतेति ।। ११ ।।
प्रमेयदीपिका
‘यतन्तो योगिनश्च’ इति कारणान्तरमुच्यते’ इति प्रतीतिनिराकरणार्थमाह– यतन्त इति ।। आत्मा जीवश्चेत् सर्वदा अकृत एव । शरीरं चेद् असम्भव इत्यत आह– अकृतेति ।। आत्मा बुद्धिः । अकृतत्वं चाशुद्धत्वम् । ‘केशान् करोति’ इत्यादौ शोधनेऽपि करोतेः प्रयोगादिति भावः ।। ११ ।।
भावबोधः
।। कारणान्तरमिति ।। दर्शने ज्ञानचक्षुष्ट्वव्यतिरिक्तप्रयत्नादि-रूपसाक्षात्कारणान्तरमित्यर्थः । सर्वदा अकृत एवेति ।। ततश्च ‘नैनं पश्यन्ति’ इति दर्शनसमय एव ‘अकृतात्मानः’ इति किं विशिष्योच्यते इति भावः ।। ११ ।।
भावदीपः
।। कारणान्तरमिति ।। ज्ञानचक्षुष्ट्वापेक्षयेति योज्यम् ।।११।।
भावरत्नकोशः
।। कारणान्तरमिति ।। ‘ज्ञानचक्षुषः पश्यन्ति’, ‘यतन्तो योगिनश्च पश्यन्ति’ इत्यत्र चशब्देन ज्ञानचक्षुष्ट्वव्यतिरिक्तं यत्नयोगादिरूपं दर्शनकारणमुच्यत इति प्रतीतीत्यर्थः । अनेन ‘यतन्तो योगिनश्च’ इत्यत्र ‘ज्ञानं प्राप्य’ इति शेषः पूरितो भवति । ‘आत्मा जीवे धृतौ बुद्धौ शरीरे परमात्मनि’ इत्यात्मशब्दस्य नानार्थत्वादाह– आत्मा जीवश्चेदिति ।। सर्वदेति ।। तथा च ‘नैनं पश्यन्ति’ इति दर्शनाभावसमय एव विशिष्य ‘अकृतात्मानः’ इत्युक्त्ययोग इति भावः । असम्भव इति ।। अकृता आत्मानः देहा येषां ते तथोक्ता इति विवक्षायां ‘शरीरमात्रस्योत्पत्तिः प्रत्यक्षसिद्धा’ इति तस्याकृतत्वम् असम्भव-दुक्तिकमित्यर्थः । अशुद्धत्वं च तस्याह । करोतेः शोधनार्थत्वे प्रयोगं प्रमाणयति– केशानिति ।।
गीताक्षरार्थस्तु ज्ञानचक्षुष्ट्वव्यतिरिक्तप्रयत्नादिकारणेन उपलम्भः किं न स्यात् इत्यत उच्यते– यतन्त इति ।। यतमानाः श्रवणादिलक्षणप्रयत्नं कुर्वाणा अपि परोक्षनिश्चयरूपज्ञानं प्राप्यैव योगिनो भवन्ति । चित्तनिरोधलक्षणसमाधिशालिन एव आत्मनि मनसि अवस्थितमेनम् शुभभोक्तृत्वादिधर्मविशिष्टं भगवन्तं पश्यन्ति साक्षात्कुर्वन्ति । अकृतात्मानः अशुद्धबुद्धयस्तु यतमाना अपि अचेतसः असंज्ञानाः अप्राप्तपरोक्षनिश्चयाः नैनं पश्यन्ति ।
‘न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन् ।
‘मौनव्रतश्रुततपोऽध्ययनस्वधर्मव्याव्यारहोजपसमाधय आपवर्ग्याः ।
प्रायः परं पुरुषतत्त्वजितेन्द्रियाणां वार्ता भवन्त्युत न वाऽत्र तु डाम्भिकानाम् ।।’
इत्यादिवचनादिति ।। ११ ।।
भावदीपिका
।। कारणान्तरमिति ।। ‘पश्यति’ इत्युक्तापरोक्षदर्शने ज्ञानचक्षुष्ट्वव्यतिरिक्तं श्रवणादिरूपपुरुषप्रयत्नरूपं कारणान्तरमुच्यत इत्यर्थः । यतन्त इतीति ।। तथा च ‘पश्यन्ति ज्ञानचक्षुषः’ इत्युक्ते, तत्र ज्ञानचक्षुष्ट्वमेव कथं स्यात् इति शङ्कायां श्रवणादि-रूपः पुरुषप्रयत्नः तत्र कारणत्वेनोच्यत इत्यर्थः । भाष्ये ‘ज्ञानं प्राप्य’ इत्यस्य ‘ज्ञानचक्षुष्ट्वं प्राप्य’ इत्यर्थो द्रष्टव्यः । सर्वदेति ।। अजन्यत्वादिति भावः । तथा च ‘नैनं पश्यन्ति’ इति दर्शनाभावसमय एव ‘अकृतत्ववचनमयुक्तम्’ इति द्रष्टव्यम् । असम्भव इति ।। उत्पत्तेः प्रत्यक्षसिद्धत्वेन अकृतत्वासम्भव इत्यर्थः । ननु करोतेः शुद्धतायां प्रयोगो न दृष्टः इति चेत् तत्राह– केशानिति ।। सिद्धानां केशानां करणासम्भवात् शोधनमेव तत्र करणशब्दार्थ इत्याशयः
।। ११ ।।
भावप्रकाशः
।। कारणान्तरमिति ।। दर्शने ज्ञानचक्षुष्ट्वव्यतिरिक्तं यत्नादि-रूपं कारणान्तरमित्यर्थः । सर्वदाऽकृत एवेति ।। ततश्च ‘नैनं पश्यन्ति’ इति दर्शनाभावसमय एव विशिष्य ‘अकृतात्मानः’ इत्युक्त्ययोग इति भावः ।। ११ ।।