उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।। १७ ।।

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।। १७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु ततः किम् इत्यतः– उत्तमः पुरुष इति ।। अन्यः क्षराक्षराभ्याम् न त्वनयोरेवैकः पुरुषोत्तमः कल्प्यत इति भावः । अस्योत्तमपुरुषत्वे श्रुत्यादिसम्मतिरुच्यते– परमात्मेत्युदाहृत इति ।। आत्मशब्दोऽत्र चेतनपर्यायः । उदाहृतः ‘प्रजापतिप्रमुखाः सर्वजीवाः क्षरोऽक्षरः पुरुषो वै प्रधानम् । तदुत्तमं चान्यमुदाहरन्ति’ इत्यादिश्रुतौ,

ब्रह्मशेषसुपर्णेशशक्रसूर्यगुहादयः ।

 सर्वे क्षरा अक्षरा तु श्रीरेका तत्परो हरिः ।।’

इत्यादिस्मृतौ च । युक्तिमाह– यो लोकत्रयमिति ।। यो हि यस्य भर्ता स तस्मादुत्तमो युक्तः । आविष्टस्य तन्नाशे नाशप्रसङ्ग इत्यत उक्तम्– अव्यय इति ।। कथम् ऐश्वर्या-दित्युच्यते– ईश्वर इति ।। १७ ।।